तद्वो᳚ जामि॒त्वं म᳚रुत॒ः परे᳚ यु॒गे पु॒रू यच्छंस᳚ममृतास॒ आव᳚त ।
अ॒या धि॒या मन᳚वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि᳚कित्रिरे ॥
अ॒या धि॒या मन᳚वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि᳚कित्रिरे ॥
पदपाठः (Word-by-word)
तत् । वः॒ । जा॒मि॒॑त्वम् । म॒रु॒तः॒ । परे᳚ । यु॒गे । पु॒रु । यत् । शंस᳚म् । अ॒मृ॒ता॒सः॒ । आव᳚त ।
अ॒या । धि॒या । मन᳚वे । श्रु॒ष्टिम् । आव्य᳚ । सा॒कम् । नरः᳚ । दं॒सनैः᳚ । आ । चि॒कि॒त्रि॒रे॒ ॥
अ॒या । धि॒या । मन᳚वे । श्रु॒ष्टिम् । आव्य᳚ । सा॒कम् । नरः᳚ । दं॒सनैः᳚ । आ । चि॒कि॒त्रि॒रे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः यत् वोजामित्वंबंधुत्वं अस्मद्विषयप्रेमाधिक्यंतत् खलुप्रसिद्धमित्यर्थः कियत् पर्यन्त- मितितदुच्यते—परेयुगे युगशब्दः कालोपलक्षकः उत्कृष्टेमहतिकालेतीतेपिवर्ततइतिशेषः तत्कथ- मधिगतमित्यतआह अमृतासोऽमरणधर्माणोहेमरुतोयूयं यद्यस्माच्छंसमस्माभिः क्रियमाणांस्तु- तिंपुरुप्रभूतंयथाभवतितथाआवतरक्षथ तस्माद्युष्मत्क्रुतंजामित्वमविनाशीत्यर्थः किंच यूयं अया- धिया अनया अनुग्रहात्मिकयाबुद्भ्यामनवेमनुष्यायस्तोत्रेयष्ट्रेवा अस्मदादयेश्रुष्टिमाव्यकीर्तिंस्तुतिं- वारक्षित्वासाकंसंभूयनरः नेतारः सन्तोदंसनैः कर्मभिरित्थंभूताआचिकित्रिरे सर्वतोजानीथ ॥ १३ ॥