श्रवणम्

1.166.8 समानपद
श॒तभु᳚जिभि॒स्तम॒भिह्रु᳚तेर॒घात्पू॒र्भी र᳚क्षता मरुतो॒ यमाव᳚त ।
जनं॒ यमु᳚ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन᳚यस्य पु॒ष्टिषु᳚ ॥
▶ पदपाठः (Word-by-word)
श॒तभु᳚जि॑भिः । तम् । अ॒भि॑ह्रु᳚तेः । अ॒घात् । पूः॒॑भिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव᳚त ।
जन᳚म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒॑र॒प्शि॒नः॒ । पा॒थन᳚ । शंसा᳚त् । तन᳚यस्य । पु॒ष्टिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यूयंशतभुजिभिः शतमित्यपरिमितनाम असंख्यातभोगवद्भिःपूर्भिःपालनैःजेतव्यैः शत्रू- णांनगरैर्वा तं रक्षतपालयत तमित्युक्तंकमित्याह—यंजनंअभिह्रुतेः अभिभवकारणात् कुटिलस्वभा- वादघात् पापात् आवतअरक्षत किञ्च हेउग्राः उद्गूर्णतेजसः हेतवसः बलवन्तोवेगवन्तोवा हेविर- प्शिनः महन्नामैतत् महान्तः यद्वा रपणीयाः शब्दारपाः तेषांयेविरप्शिनः विविधारप्शिनः स्तोता- रोयेषां तेयथोक्ताः हेतादृशायूयं यंचजनंपाथनपाथरक्षथ कस्मान्निमित्तादितिउच्यते तनयस्यउपल- क्षणमेतत् पुत्रादीनांपुष्टिपोषेषुनिमित्तभूतेषुशंसादभिशंसनात् यमेवंकुरुथ तंरक्षथेति शेषः पापक्ष- याद्यनिष्टपरिहारेणपुत्रादिपोषरूपेष्टप्राप्त्याचरक्षथेत्यर्थः ॥ ८ ॥