म॒हान्तो᳚ म॒ह्ना वि॒भ्वो॒३॒᳚ विभू᳚तयो दूरे॒दृशो॒ ये दि॒व्या इ᳚व॒ स्तृभि᳚ः ।
म॒न्द्राः सु᳚जि॒ह्वाः स्वरि᳚तार आ॒सभि॒ः सम्मि᳚श्ला॒ इन्द्रे᳚ म॒रुतः᳚ परि॒ष्टुभः᳚ ॥
म॒न्द्राः सु᳚जि॒ह्वाः स्वरि᳚तार आ॒सभि॒ः सम्मि᳚श्ला॒ इन्द्रे᳚ म॒रुतः᳚ परि॒ष्टुभः᳚ ॥
पदपाठः (Word-by-word)
म॒हान्तः᳚ । म॒ह्ना । वि॒॑भ्वः᳚ । वि॑भू᳚तयः । दू॒रे॒॑दृशः᳚ । ये । दि॒व्याः॑इ᳚व । स्तृ॑भिः᳚ ।
म॒न्द्राः । सु॒॑जि॒ह्वाः । स्वरि᳚तारः । आ॒स॑भिः᳚ । सम्॑मि᳚श्लाः । इन्द्रे᳚ । म॒रुतः᳚ । प॒रि॒॑स्तुभः᳚ ॥
म॒न्द्राः । सु॒॑जि॒ह्वाः । स्वरि᳚तारः । आ॒स॑भिः᳚ । सम्॑मि᳚श्लाः । इन्द्रे᳚ । म॒रुतः᳚ । प॒रि॒॑स्तुभः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
येमरुतोमहान्तः माहात्म्योपेताः केन मह्नामत्त्वेनप्रभावातिशयेन तथाविभ्वंविभवः व्याप्ताः तथाविभूतयः विविधैश्वर्यवन्तः दूरेदृशः दूरेदृश्यमानाः प्रकाशमानाः दूरदर्शनेदृष्टान्तः—दिव्याः स्तृभिरिव स्तृभिरितिनक्षत्रनाम ऋक्षाःस्तृभिरितिनक्षत्राणामितिनिरुक्तत्वात् दिविभवाः देवा- स्तृभिः स्वपुष्पकभूतैस्तेजःपुंजैर्नक्षत्रैर्यथादूरेद्रुश्यमानाभवन्तितद्वत् किञ्च मन्द्राः मादनाः सुजिह्वाः शोभनजिह्वाः आसभिरास्यैः स्वरितारः शब्दयितारः प्रियवचनाइत्यर्थः अतएवसुजिह्वाइत्यु- क्तं किञ्च इन्द्रेसंमिश्लाः सम्यक् मिश्रयितारः इन्द्रसहायिनइत्यर्थः मरुतोहैनंनाजहुरितिश्रुतेः । तथापरिष्टुभः परिस्तोभयुक्ताः स्तुतिभिर्युक्ताः एवंमहाभागायेमरुतः सन्तितेस्मद्यज्ञमागच्छन्ती- तिशेषः ॥ ११ ॥