श्रवणम्

1.166.14
येन᳚ दी॒र्घं म᳚रुतः शू॒शवा᳚म यु॒ष्माके᳚न॒ परी᳚णसा तुरासः ।
आ यत्त॒तन᳚न्वृ॒जने॒ जना᳚स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि᳚मश्याम् ॥
▶ पदपाठः (Word-by-word)
येन᳚ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा᳚म । यु॒ष्माके᳚न । परी᳚णसा । तु॒रा॒सः॒ ।
आ । यत् । त॒तन᳚न् । वृ॒जने᳚ । जना᳚सः । ए॒भिः । य॒ज्ञेभिः᳚ । तत् । अ॒भि । इष्टि᳚म् । अ॒श्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेतुरासः वेगवन्तोमरुतोः युष्माकेनयुष्मत्संबन्धिनायेनपरीणसायद्यप्येतद्वहुनामसुपठितम् तथापियद्बहुतन्महदपिभवतीत्यत्रमहदित्यर्थेग्रुह्यते महातायुष्मदभिगमनेनैषणेनवादीर्घमायतंस- त्रादिरूपंकर्मशूशवाम प्रवर्धयामः किञ्च यत् येनचाभिगमनेनैषणेनवाजनासोजनाः अस्मदीयाः वृजनेसङ्ग्रामेआततनन् सर्वतोविस्तारयन्ति स्वसामर्थ्यैः सङ्मामंजयन्तीत्यर्थः तदिष्टिमेषणंगमनं एभिर्यज्ञेभिः इदानींक्रियमाणैः स्तोत्रादिरूपैः पूजनैः अभिआभिमुख्येनअश्याम् व्याप्नुयाम् ॥ १४ ॥