प्र स्क॒म्भदे᳚ष्णा अनव॒भ्ररा᳚धसो॑लातृ॒णासो᳚ वि॒दथे᳚षु॒ सुष्टु᳚ताः ।
अर्च᳚न्त्य॒र्कं म᳚दि॒रस्य᳚ पी॒तये᳚ वि॒दुर्वी॒रस्य᳚ प्रथ॒मानि॒ पौंस्या᳚ ॥
अर्च᳚न्त्य॒र्कं म᳚दि॒रस्य᳚ पी॒तये᳚ वि॒दुर्वी॒रस्य᳚ प्रथ॒मानि॒ पौंस्या᳚ ॥
पदपाठः (Word-by-word)
प्र । स्क॒म्भ॑दे᳚ष्णाः । अ॒न॒व॒भ्र॑रा᳚धसः । अ॒ला॒तृ॒णासः᳚ । वि॒दथे᳚षु । सु॑स्तु᳚ताः ।
अर्च᳚न्ति । अ॒र्कम् । म॒दि॒रस्य᳚ । पी॒तये᳚ । वि॒दुः । वी॒रस्य᳚ । प्र॒थ॒मानि᳚ । पौंस्या᳚ ॥
अर्च᳚न्ति । अ॒र्कम् । म॒दि॒रस्य᳚ । पी॒तये᳚ । वि॒दुः । वी॒रस्य᳚ । प्र॒थ॒मानि᳚ । पौंस्या᳚ ॥
सायणभाष्यम् (Sayana Commentary)
प्रस्कंभदेष्णाः प्रकर्षेणस्तंभितदानाः अविरतदानाइत्यर्थः अनवभ्रराधसः अभ्रष्टहविरादिधनाः राधइतिधननाम अलातृणासः नकारस्यस्थानेलकारः अनातृणासः आतर्दनरहिताः अथवा अलं पर्या- प्तं आतर्दनाः शत्रूणां यद्वा अलमत्यर्थं दातारः फलानां सुष्टुताः ऋत्विग्भिः सम्यक् स्तुताः एवंरूपा- मरुतः विदथेषुयागेषुअर्कमर्चनीयमिन्द्रं स्वसखीभूतं अर्चन्ति पूजयन्ति स्तुत्यादिनासंभावयन्तीत्यर्थः किमर्थं मदिरस्यमादनसाधनस्यसोमस्यपीतये पानाय तस्येन्द्रस्यमहत्त्वं कथं जानन्तीत्यतआह—हे- मरुतः वीरस्यविविधंशत्रूणामीरकस्येन्द्रस्य प्रथमानिप्रतमानिमुख्यानिपौंस्यापुंस्त्वानि वृत्रवधा- दिरूपाणिविदुर्जानन्ति ॥ ७ ॥