विश्वा᳚नि भ॒द्रा म᳚रुतो॒ रथे᳚षु वो मिथ॒स्पृध्ये᳚व तवि॒षाण्याहि᳚ता ।
अंसे॒ष्वा व॒ः प्रप᳚थेषु खा॒दयो॑क्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ॥
अंसे॒ष्वा व॒ः प्रप᳚थेषु खा॒दयो॑क्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ॥
पदपाठः (Word-by-word)
विश्वा᳚नि । भ॒द्रा । म॒रु॒तः॒ । रथे᳚षु । वः॒ । मि॒थ॒स्पृध्या᳚॑इव । त॒वि॒षाणि᳚ । आ॑हि᳚ता ।
अंसे᳚षु । आ । वः॒ । प्र॑प᳚थेषु । खा॒दयः᳚ । अक्षः᳚ । वः॒ । च॒क्रा । स॒मया᳚ । वि । व॒वृ॒ते॒ ॥
अंसे᳚षु । आ । वः॒ । प्र॑प᳚थेषु । खा॒दयः᳚ । अक्षः᳚ । वः॒ । च॒क्रा । स॒मया᳚ । वि । व॒वृ॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः वोरथेषुयुष्मत्संबन्धिरथेषुरंहणसाधनेषुविश्वनिभद्रा सर्वाणिकल्याणानिभोगयोग्यानि-द्रव्याणि अस्मभ्यंप्रदेयानिफलानिवा आहिताआहितानि तथावः अंसेष्वावः तदुपलक्षितभुजेष्वपि आकारोप्यर्थे मिथस्पृध्येव बलाधिक्यात् परस्परस्पर्धाविषयाणितविषाणिबलानिअंसेषूक्तलक्षणा- न्यायुधानिवाआहितानि किञ्च वःप्रपथेषु प्रगताः पन्थानोयेषुविश्रामस्थानेषुतानिप्रपथानि तेषु खादयःखाद्यानिभक्ष्याणि आहितानि यद्वा प्रगतःपन्थायैस्तेषुपादाग्रेषुखादयः स्थिराआभरणविशे- षाआहिताः किञ्च वःअक्षः युष्मत्संबन्धीरथाक्षः चक्रा तत्रोपनिबद्धानिचक्राणि समयासमीपेतेषां- परिसरेविववृते विशेषेणवर्तते नकदाचिदपिचक्रेषुसंलग्नोभवतीत्यर्थः यस्मादेवंदेवयजनगमनसाध- नानिसन्ति तस्मात् शीघ्रमागच्छध्वमित्यभिप्रायः ॥ ९ ॥