प्रथमं मण्डलम् - सूक्तम् 19

9 ऋचः

ऋषिः: मेधातिथिः काण्वः देवता: अग्निर्मरुतश्च छन्दः: गायत्री

सूक्तम् 1.19 - सम्पूर्णम्

1 / 9
ऋक्: 1.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.19.1
प्रति॒ त्यं चारु᳚मध्व॒रं गो᳚पी॒थाय॒ प्र हू᳚यसे ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । त्यम् । चारु᳚म् । अ॒ध्व॒रम् । गो॒॑पी॒थाय᳚ । प्र । हू॒य॒से॒ ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यच्छब्दः सर्वनाम तच्छब्दपर्यायः । हे अग्ने यो यज्ञश्चारुरंगवैकल्यरहितस्त्यं तथाविधं चारुमध्वरं प्रतिलभ्य गोपीथाय सोमपानाय प्र हूयसे । प्रकर्षेण त्वं हूयसे । तस्मादस्मिन्नध्वरे त्वं मरुद्भिर्देवविशेषैः सहा गहि । आगच्छ । सेयमृग्यास्केनैवं व्याख्याता । तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे सोऽग्ने मरुद्बिः सहागच्छ । नि १०-३६ । इति ॥ प्रति । निपात आद्युदात्तः । त्यम् । त्यदादीनामः (पा ७-२-१०२) प्रातिपदिकस्वरः । चारुम् । दृसनिजनिचरीत्यादिना (उ १-३) ञुण् । अत उपधाया इति थक्प्रत्ययांतो निपातितः । प्र । निपातस्वरः ॥ १ ॥

1.19.2
न॒हि दे॒वो न मर्त्यो᳚ म॒हस्तव॒ क्रतुं᳚ प॒रः ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
न॒हि । दे॒वः । न । मर्त्यः᳚ । म॒हः । तव᳚ । क्रतु᳚म् । प॒रः ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने महो महतस्तव संबंधिनं क्रतुं कर्मविशेषमुल्लंघ्य परोनहि उत्कृष्टो देवो न भवति खलु । तथा मर्त्यो मनुष्यश्च परो न भवति । ये मनुष्यास्त्वदीयं क्रतुमनुतिष्ठंति ये च देवास्त्वदीये क्रताविज्यंते त एवोत्कृष्टा इत्यर्थः । मरुद्भिरित्यादि पूर्ववत् ॥ नहि । एवमादीनामंत इत्यंतोदात्त । देवः ॥ पचाद्यजंतश्चित्त्वादंतोदात्तः । महः । महतस्तलोपश्छांदसः । बृहन्महतोरुपसंख्यानम् । पा ६-१-१७३-१ । इति विभक्तेरुदात्तत्वम् । तव युष्मदस्मदो र्ङसीत्याद्युदात्तत्वम् । क्रतुम् । कृञः कतुः (उ १-७८) प्रत्ययाद्युदात्तत्वम् । गहि । गम्लृ सृप्लृगतौ । लोटः सेर्हिः । बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तस्यासिद्धवदत्रा भादित्यसिद्धत्वादतो हेरिति लुङ्न भवति । निघातः ॥ २ ॥

1.19.3
ये म॒हो रज᳚सो वि॒दुर्विश्वे᳚ दे॒वासो᳚ अ॒द्रुहः᳚ ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
ये । म॒हः । रज᳚सः । वि॒दुः । विश्वे᳚ । दे॒वासः᳚ । अ॒द्रुहः᳚ ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ये मरुतो महो रजसो महत उदकस्य वर्षणप्रकारं विदुस्तैर्मरुद्भिरित्यन्वयः । कीदृशा मरुतः । विश्वे सर्वे सप्तविधगणोपेताः । सप्तगणा वै मरुतः । तै सं २-२-११-१ । इति श्रुतेः । देवासो द्योतमाना अद्रुहो द्रोहरहिता वर्षणेन सर्वभूतोपकारित्वात् । तथा चोपरिष्टादाम्नायते । उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । ऋग्वे ५-५५-५ । इति शाखांतरेऽपि मंत्रांतरस्य ब्राह्मणमेवमाम्नायते । मरुतां पृषतयः स्थेत्याह मरुतो वै वृष्ट्या ईतत इति । रजः शब्दो यास्केन बहुधा व्याख्यातः । रजो रजतेर्ज्योती रज उच्यत उदकं रज उच्यते । लोका रजांस्युच्यंतेऽसृगहनी रजसी उच्येते (नि ४-१९) इति ॥ रजसः । नब्विषयस्यानिसंतस्येत्याद्युदात्तः । विदुः । विद ज्ञाने । विदो लटो वा (पा ३-४-८३) इति झेरुसादेशः । प्रत्यय स्वरः । यद्वृत्तयोगान्निघाताभावः । विश्वे । विशेः क्वनंतस्य नित्त्वादाद्युदात्तत्वम् । देवासः । आज्जसेरसुक् । देवशब्दः पचाद्यजंतः । चित्त्वादंतोदात्तः । आद्रुहः । संपदादित्वाद्भावे क्विपि बहुव्रीहौ नञ् सुभ्यामित्यंतोदात्तत्वम् । कर्तरि वाक्विप् । तत्पुरुषे ह्यव्ययपूर्वपदप्रकृतिस्वरत्वं स्यात् । न च कृदुत्तरपदप्रकृतिस्वरत्वम् । यतो नञ् न गतिर्न च कारक इति । पा ६-२-१३९ ॥ ३ ॥

1.19.4
य उ॒ग्रा अ॒र्कमा᳚नृ॒चुरना᳚धृष्टास॒ ओज᳚सा ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
ये । उ॒ग्राः । अ॒र्कम् । आ॒नृ॒चुः । अना᳚धृष्टासः । ओज᳚सा ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत उग्रास्तीव्राः संतोऽर्कमुदकमानृचुः अर्चितवंतः । वर्षणेन संपादितवंत इत्यर्थः । तैर्मरुद्भिरित्यन्वयः । कीदृशा मरुतः । ओजसा बलेनानाधृष्वासोऽतिरस्कृताः । सर्वेभ्योऽपि प्रबला इत्यर्थः । अर्कशब्दस्योदाकवाचित्वं वाजसनेयिन अमनंति । अपो वा अर्कः । शत ब्रा १०-६-५-२ । इति । तन्निर्वचनं च त एवामनंति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायंतार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् । शत ब्रा १०-६-५-१ । इति । जगत्सृष्ट्वा हिरण्यगर्भ उदकं स्रष्टुमुद्युक्तोऽर्चन् उदकसत्यसंकल्पमहिमप्रख्यापनेन स्वात्मानं पूजयन्नचरत् । तथा पूजयतो हिरण्यगर्भस्य सकाशादुदकमुत्पन्नं तदानीमर्चतो मत्तः कमभूदित्यवोचत् । तेनोदकस्यार्कनाम निष्पन्नमित्यर्थः ॥ आनृचुः । अर्चतेः । अपस्पृधेथामित्यदिना (पा ६-१-३६) निपाशितः । प्रत्ययस्वरः । यद्वृत्तयोगान्न निघातः । अनाधृण्वासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ओजसा । उब्जेर्बलोपश्च (उ ४-१९१) इत्यसुन् । नित्त्वादाद्युदात्तः ॥ ४ ॥

1.19.5
ये शु॒भ्रा घो॒रव᳚र्पसः सुक्ष॒त्रासो᳚ रि॒शाद᳚सः ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
ये । शु॒भ्राः । घो॒र॑व᳚र्पसः । सु॒॑क्ष॒त्रासः᳚ । रि॒शाद᳚सः ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः शुभ्रत्वादिगुणोपेतास्तैर्मरुद्भिरित्यन्वयः । शुभ्राः । शोभना घोरदर्वस उग्ररूपधराः सुक्षत्रासः शोभनधनोपेता रिशादसो हिंसकानां भक्षकाः । मघमित्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु क्षत्रं भग इति पठितं ॥ शुभ्राः । स्फायितंचीत्यादिना शुभेरौणादिको रक्प्रत्ययः । प्रत्ययस्वरः । घोरवर्पसः । घोरं वर्पो येषां बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुक्षत्रासः । बहुव्रीहौ नञ् सुभ्यामित्तुरपदांतोदात्तत्वम् । आद्युदात्तं द्व्यच्छंदसि (पा ६-२-११९) इत्येव तु न भवति । क्षत्रशब्दस्यांतोदात्तत्वात् । रिशंति हिंसंतीति रिशाः । तानदंतीति रिशादसः । सर्वधातुभ्योऽसुन्प्रत्ययः । नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते ॥ २६ ॥ ५ ॥

1.19.6
ये नाक॒स्याधि᳚ रोच॒ने दि॒वि दे॒वास॒ आस᳚ते ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
ये । नाक᳚स्य । अधि᳚ । रो॒च॒ने । दि॒वि । दे॒वासः᳚ । आस᳚ते ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतो नाकस्याधि दुःखरहितस्य सूर्यस्योपरि दिवि द्युलोके रोचने दीप्यमाने ये देवासः स्वयमपि दीप्यमाना आसते । तैर्मरुद्भिरित्यन्वयः ॥ नाकस्य । कं सुखम् । तद्यस्मिन्नास्त्यसावक इति बहुव्रीहिं कृत्वा पश्चान्नञ् । न अकोनाक इति नञ् तत्पुरुषः । नलोपो नञः (पा ६-३-७३) इति लोपो न भवति । नभ्राण् नपादित्यादिना (पा ६-३-७५) प्रकृतिभावात् । तत्पुरुषे तुल्यार्थेत्यादिना (पा ६-२-२) अव्ययपूर्वपदप्रकृतिस्वरत्वेनोदात्तत्वम् । प्रथमतस्तत्पुरुषं कृत्वा पश्चाद्बहुव्रीहावुत्तरपदांतोदात्तत्वं स्यात् । अधिशब्द उपर्यर्थे । उपसर्गप्रतिरूपको निपातः । रोचने । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । चित इत्यंतोदात्तत्वम् । दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । देवासः । आज्जसेरस्युगित्यसुक् । आसते । आस उपवेशने । अनुदात्तेत्वादात्मनेपदम् । झस्यादादेशः अदिप्रभृतिभ्यः शप इति शपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । यद्वृत्तयोगान्न निघातः ॥ ६ ॥

1.19.7
य ई॒ङ्खय᳚न्ति॒ पर्व᳚तान्ति॒रः स᳚मु॒द्रम᳚र्ण॒वम् ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
ये । ई॒ङ्खय᳚न्ति । पर्व᳚तान् । ति॒रः । स॒मु॒द्रम् । अ॒र्ण॒वम् ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतः पर्वतान्मेघानींखयंति चालयंति तथार्णवमुदकयुक्तम् । समुद्रं तिरः कुर्वंतीति शेषः । निश्चलस्य जलस्य तरंगाद्युत्पत्तये चालनं तिरस्कारः । तैर्मरुद्भिरित्यन्वयः ॥ ईंखयंति । उख उखीत्यादावीखिर्गत्यर्थः । हेतुमति चेति णिच् । इदितो नुम् धातोरिति नुम् । णिजंतधातोश्चित इत्यंतोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । पर्वतान् । पूर्व पर्व मर्व पूरणे । औणादिकोऽतन् । प्रत्ययस्वरः ॥ ७ ॥

1.19.8
आ ये त॒न्वन्ति᳚ र॒श्मिभि᳚स्ति॒रः स᳚मु॒द्रमोज᳚सा ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
आ । ये । त॒न्वन्ति᳚ । र॒श्मि॑भिः᳚ । ति॒रः । स॒मु॒द्रम् । ओज᳚सा ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतो रश्मिभिः सूर्यकिरणैः सहा तन्वंति आप्नुवंति । आकाशमिति शेषः । किंच ओजसा । स्वकीयबलेन समुद्रं तिरस्कुर्वंति । तैर्मरुद्भिरित्यन्वयः ॥ तन्वंति । तनु विस्तारे । लटॊ झोंऽतः । तनादिकृञ् भ्य उः (पा ३-१-७९) सति शिष्वस्वरबलीयस्त्त्वमन्यत्र विकरणेभ्य इति तिङ एवाद्युदात्तत्वम् । समुद्रं उंदीक्लदने । स्फायितंचेति रक् । समासे क्छदुत्तरपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.19.9
अ॒भि त्वा᳚ पू॒र्वपी᳚तये सृ॒जामि᳚ सो॒म्यं मधु᳚ ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । पू॒र्व॑पी᳚तये । सृ॒जामि᳚ । सो॒म्यम् । मधु᳚ ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पूर्वपीतये पूर्वकाले प्रवृत्ताय पानाय त्वां प्रति सोम्यं मधु सोमसंबंधिनं मधुररसमभि सृजामि । सर्वतः संपादयामि । अतस्त्वं मरुद्भिः सहात्रागच्छ ॥ अभि । एवमादीनामंत इत्यंतोदात्तत्वम् । त्वामौ द्वितीयाया इति त्वादेशः सर्वानुदात्तः । पूर्वपीतये । पूर्वा चासौ पीतिश्च । पुंवत्कर्मधारयेत्यादिना (पा ६-३-४२) पुंवद्भावः । सृजामि । सृज विसर्गे । मिपः पित्त्वादनुदात्तत्वम् । विकरणस्वरः । सोम्यम् । सोममर्हति यः । प्रत्ययस्वरेणांतोदात्तः । मधु । फलिपाटनमीत्यादिना (उ १-१९) उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अन्यद्गतं ॥ ३७ ॥ ९ ॥