म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
पदपाठः (Word-by-word)
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे मरुत उग्रास्तीव्राः संतोऽर्कमुदकमानृचुः अर्चितवंतः । वर्षणेन संपादितवंत इत्यर्थः । तैर्मरुद्भिरित्यन्वयः । कीदृशा मरुतः । ओजसा बलेनानाधृष्वासोऽतिरस्कृताः । सर्वेभ्योऽपि प्रबला इत्यर्थः । अर्कशब्दस्योदाकवाचित्वं वाजसनेयिन अमनंति । अपो वा अर्कः । शत ब्रा १०-६-५-२ । इति । तन्निर्वचनं च त एवामनंति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायंतार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् । शत ब्रा १०-६-५-१ । इति । जगत्सृष्ट्वा हिरण्यगर्भ उदकं स्रष्टुमुद्युक्तोऽर्चन् उदकसत्यसंकल्पमहिमप्रख्यापनेन स्वात्मानं पूजयन्नचरत् । तथा पूजयतो हिरण्यगर्भस्य सकाशादुदकमुत्पन्नं तदानीमर्चतो मत्तः कमभूदित्यवोचत् । तेनोदकस्यार्कनाम निष्पन्नमित्यर्थः ॥ आनृचुः । अर्चतेः । अपस्पृधेथामित्यदिना (पा ६-१-३६) निपाशितः । प्रत्ययस्वरः । यद्वृत्तयोगान्न निघातः । अनाधृण्वासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ओजसा । उब्जेर्बलोपश्च (उ ४-१९१) इत्यसुन् । नित्त्वादाद्युदात्तः ॥ ४ ॥