प्रथमं मण्डलम् - सूक्तम् 103

8 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.103 - सम्पूर्णम्

1 / 8
ऋक्: 1.103.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.103.1
तत्त᳚ इन्द्रि॒यं प᳚र॒मं प᳚रा॒चैरधा᳚रयन्त क॒वयः᳚ पु॒रेदम् ।
क्ष॒मेदम॒न्यद्दि॒व्य१॒᳚न्यद᳚स्य॒ समी᳚ पृच्यते सम॒नेव᳚ के॒तुः ॥
▶ पदपाठः (Word-by-word)
तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा᳚रयन्त । क॒वयः᳚ । पु॒रा । इ॒दम् ।
क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒मिति᳚ । पृ॒च्य॒ते॒ । स॒म॒ना॑इ᳚व । के॒तुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्त इत्यष्टर्चं दशमं सूक्तं कुत्सस्यार्षमैंद्रं त्रैष्टुभम् । तथा चानु क्रांतम् । तत्तेऽष्टाविति ॥ तृतीये छंदोमे निष्केवल्य इदं सूक्तं निविद्धानम् । विश्वजित इति खंडे सूत्रितम् । तत्त इंद्रयमिति निष्केवल्यम् (आ ८-७) इति ॥

हे इंद्र ते त्वदीयं परममुत्कृष्टं तत्प्रसिद्धमिदं वर्तमानमिंद्रियं बलं पुरा पूर्वस्मिन्काले कवयः क्रांतदर्शिनः स्तोतारः पराचैः पराचीनं पराङ्मुखम् । यद्वा । पराचैः परांचनैः परागमनैर्युक्तम् । युद्धाभिमुखमेवाधारयंत । धृतवंतः । अपि चास्येंद्रस्यान्यदेकमिदमग्न्याख्यं ज्योतिः क्षमा क्षमायां भूमौ वर्तते । अन्यदप्येकं सूर्याख्यं दिवि द्युलोके । ईं तदिदमुभयविधमिंद्रस्य ज्योतिः संपृच्यते । परस्परं सं युज्यते । रात्रावादित्योऽग्निना संयुक्तो भवति । अग्निं वावादित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृश इति श्रुतेः । अहनि त्वग्निः सूर्येण संगच्छते । उद्यंतं वावादित्यमग्निरनुसमारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृश इति श्रुतेः । तै ब्रा २-१-२-९, १० । अनयोः परस्परसंगमने दृष्टांतः । समनेव केतुः । समनशब्दः संग्रामवाची । यथा समने संग्रामे यध्यमानयोरुभयोः केतुर्ध्वजो ध्वजांतरेण संयुज्यते तद्वत् ॥ इंद्रियम् । इंद्रस्य लिंगं बलम् । इंद्रियमिंद्रलिंगमिति घच्प्रत्ययांतो निपात्यते । पराचैः । अव्ययमेतत् उच्चैर्नीचैरिति यथा । यास्कस्त्वाह । पराचैः परांचनैः । नि ११-२५ । इति । क्षमा । सुपां सुलुगिति सप्तम्या लुक् । ईमो मलोपः सांहितिकश्छांदसः । समनेव । षम ष्वम अवैक्लव्ये । अन्येभ्योऽपि दृश्यते (पा ३-३-१३०) इकि युच् । सुपां सुलुगिति सप्तम्या आकारः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेति समासः ॥ १ ॥

1.103.2
स धा᳚रयत्पृथि॒वीं प॒प्रथ᳚च्च॒ वज्रे᳚ण ह॒त्वा निर॒पः स᳚सर्ज ।
अह॒न्नहि॒मभि᳚नद्रौहि॒णं व्यह॒न्व्यं᳚सं म॒घवा॒ शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ᳚त् । च॒ । वज्रे᳚ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ ।
अह᳚न् । अहि᳚म् । अभि᳚नत् । रौ॒हि॒णम् । वि । अह᳚न् । वि॑अं᳚सम् । म॒घ॑वा᳚ । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रः पृथिवीमसुरैः पीडितां भूमिं धारयत् । धृतवान् । पीडाराहित्येन स्थितामकरोदित्यर्थः । तदनंतरं पप्रथच्च । तां भूमिं विस्तीर्णामकरोत् । अपि च वज्रेणायुधेन हंतव्यान्वृत्रादीन्ङत्वापो वृष्ट्युदकानि निः ससर्ज मेघान्निर्गमयामास । एतदेव स्पष्टीक्रियते । अहिमंतरिक्षे वर्तमानं मेघमहन् । वज्रेण वर्षणार्थमताडयत् । रौहिणम् । रौहिणो नाम कश्चिदसुरः । तं च व्यभिनत् । व्यदारयत् । अपि च मघवा धनवानिंद्रः शचीभिरात्मीयैर्युद्धकर्मभिर्व्यंसं विगतभुजं वृत्रासुरमहन् । अवधीत् ॥ पप्रथत् । पृथुं करोति प्रथयति । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्य कार्यम् । पा ६-४-१५५-१ । इति वचनाद्र ऋतो हलादेर्लघोः (पा ६-४-१६१) इति ऋकारस्य रत्वम् । टेरिति टलोपः । तस्य स्थानिवद्भावाद्वृद्ध्यभावः । प्रथयतेर्लुङि चङि णिलोपः । द्विर्वचने चङ्यन्यतरस्याम् (पा ६-१-२१८) इति चङः पूर्वस्योदात्तत्वम् । न णिलोपस्य स्थानिवत्त्वं न पदांतेत्यादिना स्वरविधिं प्रति तन्निषेधात् । पूर्वपदस्यासमानवाक्यस्थत्वान्निघाताभावः ॥ २ ॥

1.103.3
स जा॒तूभ᳚र्मा श्र॒द्दधा᳚न॒ ओज॒ः पुरो᳚ विभि॒न्दन्न᳚चर॒द्वि दासी᳚ः ।
वि॒द्वान्व᳚ज्रि॒न्दस्य᳚वे हे॒तिम॒स्यार्यं॒ सहो᳚ वर्धया द्यु॒म्नमि᳚न्द्र ॥
▶ पदपाठः (Word-by-word)
सः । जा॒तू॑भ᳚र्मा । श्र॒त्॑दधा᳚नः । ओजः᳚ । पुरः᳚ । वि॒॑भि॒न्दन् । अ॒च॒र॒त् । वि । दासीः᳚ ।
वि॒द्वान् । व॒ज्रि॒न् । दस्य᳚वे । हे॒तिम् । अ॒स्य॒ । आर्य᳚म् । सहः᳚ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातूभर्मा । जातू इत्यशनिमाचक्षते । भर्मायुधम् । अशनिरूपमायुधं यस्य स तथोक्तः । यद्वा । जातानां प्रजानां भर्ता । ओज ओजसा बलेन निष्पाद्यं कार्यं श्रद्दधानः । आदरातिशयेन कामयमानः एवंभूतः स इंद्रो दासीर्दस्युसंबंधीनि पुरः पुराणि विभिंदन् विनाशयन्व्यचरत् । विविधमगच्छन् । हे वज्रिन्वज्रवन्निंद्र विद्वान् स्तुतीर्विजानंस्त्वमस्य स्तोतुर्दस्यव उपक्षयकारिणे शत्रवे हेतिमायुधं विसृचेति शेषः । अपि च हे इंद्र आर्यं सहः । आर्या विद्वांसः स्तोतारः तदीयं बलं वर्धय । अतिवृद्धं कुरु । तथा द्युम्नं तदीयं यशश्च प्रवर्धय ॥ जातूभर्मा । जनी प्रादुर्भावे । अन्येष्वपि दृश्यत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्केवलादपि डप्रत्ययः । जांस्तूर्वतीति जातोः । तुर्वी हिंसार्थः । क्विपि राल्लोप इति वलोपः । भ्रियत इति भर्म । अन्येभ्योऽपि दृश्यंत इति मनिन् । जातूर्भर्म यस्य । छांदसो रेफलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पक्षांतरे तु जनेर्निष्ठा । जनसनखनामित्यात्वम् । जातं सर्वं भर्म भर्तव्यं येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्याकारस्य ऊकारः ॥ ३ ॥

1.103.4 समानपद
तदू॒चुषे॒ मानु᳚षे॒मा यु॒गानि᳚ की॒र्तेन्यं᳚ म॒घवा॒ नाम॒ बिभ्र᳚त् ।
उ॒प॒प्र॒यन्द᳚स्यु॒हत्या᳚य व॒ज्री यद्ध᳚ सू॒नुः श्रव᳚से॒ नाम᳚ द॒धे ॥
▶ पदपाठः (Word-by-word)
तत् । ऊ॒चुषे᳚ । मानु᳚षा । इ॒मा । यु॒गानि᳚ । की॒र्तेन्य᳚म् । म॒घ॑वा᳚ । नाम᳚ । बिभ्र᳚त् ।
उ॒प॒॑प्र॒यन् । द॒स्यु॒॑हत्या᳚य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव᳚से । नाम᳚ । द॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

नाम शत्रूणां नामकं तदिंद्रस्य बलमूचुष उक्तवते स्तुवते यजमानाय कीर्तेन्यं कीर्तनीयं स्तुत्यम् । नामकं तद्बलं बिभ्रद्धारयन्मघवा धनवानिंद्रो मानुषा कीर्तनीयं स्तुत्यम् । नामकं तद्बलं बिभ्रद्धारयन्मघवा धनवानिंद्रो मानुषा मनुष्याणां संबंधिनीमेमानि दृश्यमानानि युगान्यहोरात्रसंघनिष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना निष्पादयतीति शेषः । किं पुनस्तन्नाम । दस्युहत्याय दस्यूनां वृत्रादीनां हननायोपप्रयन् गृहसमीपान्निर्गच्छन् वज्री वज्रवान्सूनुः शत्रूणां प्रेरयितेंद्रो यद्ध यत्खलु नाम शत्रूणां नामकं श्रवसे जयलक्षणाय यशसे दधे धृतवान् ॥ ऊचुषे । ब्रूञ् व्यक्तायां वाचि । ब्रुवो वचिः । लिटः क्वसुः वचिस्वपीत्यादिना संप्रसारणम् । चतुर्थ्येकवचने भसंज्ञायां वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । क्वसुप्रत्ययाद्युदात्तत्वम् । कीर्तेन्यम् । क ॄत संशब्दने । कृत्यार्थे तवैकेनिति केन्यप्रत्ययः । मघवा । मघशब्दाच्छंदसीवनिपाविति मत्वर्थीयो वनिप् । बिभ्रत् । डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वाच्छपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्मस्तानामादिरित्याद्युदात्तत्वं ॥ ४ ॥

1.103.5
तद᳚स्ये॒दं प᳚श्यता॒ भूरि᳚ पु॒ष्टं श्रदिन्द्र᳚स्य धत्तन वी॒र्या᳚य ।
स गा अ᳚विन्द॒त्सो अ᳚विन्द॒दश्वा॒न्त्स ओष᳚धी॒ः सो अ॒पः स वना᳚नि ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि᳚ । पु॒ष्टम् । श्रत् । इन्द्र᳚स्य । ध॒त्त॒न॒ । वी॒र्या᳚य ।
सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा᳚न् । सः । ओष᳚धीः । सः । अ॒पः । सः । वना᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्यजमानलक्षणा जनाः अस्येंद्रस्य तदिदं वीर्यं पुष्टं प्रवृद्धम् । अत एव भूरि विस्तीर्णं पश्यत । आलोकयत । तस्मै च वीर्याय श्रद्धत्तनः । बहुमानं कुरुत । किं पुनस्तद्वीर्यमिति चेत् उच्यते । स इंद्रः पणिभिरपहृता गा येन वीर्येणाविंदत् अलभत । तथा तैरपहृतानश्वान्स इंद्रो येनाविंदत् । अपि च स इंद्र ओषधीरोषध्युपलक्षितां सर्वां भूमिं येन वीर्येणालभत । तथा वृत्रेण निरुद्धा अपो वृष्ट्युदकानि स इंद्रो येनालभत । तथा वनानि वननीयानि संभजनीयानि धनानि स इंद्रो येन वीर्येण प्राप्नोत् ॥ धत्तन । तप्तनप्तनथनाश्चेति तस्य तनादेशः । अविंदत् । विद्लृलाभे । शे मुचादीनामिति नुम् ॥ ५ ॥

1.103.6
भूरि᳚कर्मणे वृष॒भाय॒ वृष्णे᳚ स॒त्यशु᳚ष्माय सुनवाम॒ सोम᳚म् ।
य आ॒दृत्या᳚ परिप॒न्थीव॒ शूरो॑य᳚ज्वनो वि॒भज॒न्नेति॒ वेदः᳚ ॥
▶ पदपाठः (Word-by-word)
भूरि᳚॑कर्मणे । वृ॒ष॒भाय᳚ । वृष्णे᳚ । स॒त्य॑शु᳚ष्माय । सु॒न॒वा॒म॒ । सोम᳚म् ।
यः । आ॒॑दृत्य᳚ । प॒रि॒प॒न्थी॑इ᳚व । शूरः᳚ । अय᳚ज्वनः । वि॒॑भज᳚न् । एति᳚ । वेदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूरिकर्मणे बहुविधेन शत्रुवधादिरूपेण । कर्मणा युक्ताय वृषभाय वृषभवत्सर्वेषु देवेषु श्रेष्ठाय वृष्णे सेचनसमर्थाय सत्यशुष्मायावितथबलायेंद्राय तदर्थं सोमं सुनवाम । होमार्थं रसरूपं करवाम । शूरः शौर्योपेतो य इंद्र आदृत्य धनविषयमादरं कृत्वायज्वनोऽयजमानस्य वेदो धनं विभजन् । तस्मादयजमानाद्विभक्तं कुर्वन्नपहरन्नेति । यजमानेभ्यस्तद्धनं दातुं गच्छति । तत्र दृष्टांतः । परिपंथीव । यथा मार्गनिरोधकश्चोरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति । तद्वत् ॥ आदृत्य । दृङ् आदरेः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । तस्य स्थानिवद्भावेन कृत्वे सति ह्रस्वस्य पितिकृतीति तुक् । परिपंथीव । छंदसि परिपंथिपरिपरिणौ पर्यवस्थातरि (पा ५-२-८९) इतीनिप्रत्ययांतो निपात्यते ॥ ६ ॥

1.103.7
तदि᳚न्द्र॒ प्रेव᳚ वी॒र्यं᳚ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो᳚ध॒यो॑हि᳚म् ।
अनु᳚ त्वा॒ पत्नी᳚र्हृषि॒तं वय᳚श्च॒ विश्वे᳚ दे॒वासो᳚ अमद॒न्ननु᳚ त्वा ॥
▶ पदपाठः (Word-by-word)
तत् । इ॒न्द्र॒ । प्र॑इ᳚व । वी॒र्य᳚म् । च॒क॒र्थ॒ । यत् । स॒सन्त॒म् । वज्रे᳚ण । अबो᳚धयः । अहि᳚म् ।
अनु᳚ । त्वा॒ । पत्नीः᳚ । हृ॒षि॒तम् । वयः᳚ । च॒ । विश्वे᳚ । दे॒वासः᳚ । अ॒म॒द॒न् । अनु᳚ । त्वा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तद्वीर्यं वीरकर्म प्रेव चकर्थ । प्रख्यातमिवाकार्षीः । किं पुनस्तद्वीर्यम् । ससंतं स्वपंतं मदोन्मत्तमहिं वृत्रं वज्रेण कुलिशेन यद्येन वीर्येण त्वमबोधयः । प्रबुद्धः सन्मया सह युद्धं करोत्विति हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वामनु पश्चात्पत्नीर्देवपत्न्य अमदन् । हर्षं प्राप्ताः । अपि च वयश्च गमनशीला मरुतोऽपि तथा विश्वे देवासोऽन्ये च सर्वे देवास्त्वामनु पश्चादमदन् । अमाद्यन् ॥ ससंतम् । षस स्वप्ने । अदादित्वाच्छपो लुक् । पत्नीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । अमदन् । मदी हर्षे । व्यत्ययेन शप् ॥ ७ ॥

1.103.8
शुष्णं॒ पिप्रुं॒ कुय᳚वं वृ॒त्रमि᳚न्द्र य॒दाव᳚धी॒र्वि पुर॒ः शम्ब᳚रस्य ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
शुष्ण᳚म् । पिप्रु᳚म् । कुय᳚वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव᳚धीः । वि । पुरः᳚ । शम्ब᳚रस्य ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं शुष्णादींश्चतुरोऽसुरान्यदावधीः हतवानसि तदानीं शंबरस्यासुरस्य पुरो नगराणि विदारितवानसि । असुराणां मुख्येषु हतेष्वन्यान्यप्यसुरपुराणि विदीर्णान्यासन्नित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तन्मित्रादयो ममहंताम् । पूजितं कुर्वंतु ॥ शुष्णम् । शुष शोषणे । अंतर्भावितण्यर्थात् तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति नप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । पिप्रुम् । पृ पालनपूरणयोः । पृ इत्येके । औणादिकः । कुप्रत्ययः । छंदस्युभयथेति तस्य । सार्वधातुकत्वे सति शप् । जुषोत्यादित्यात् श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । कुयवम् । यवो यवनम् । मिश्रणम् । कुत्सितम् । यवनमस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंबरस्य । शमयतीति शंब आयुधम् । शमेर्वन् (उ ४-९४) ततो मत्वर्थीयो रप्रत्ययः ॥ ८ ॥