तदि᳚न्द्र॒ प्रेव᳚ वी॒र्यं᳚ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो᳚ध॒यो॑हि᳚म् ।
अनु᳚ त्वा॒ पत्नी᳚र्हृषि॒तं वय᳚श्च॒ विश्वे᳚ दे॒वासो᳚ अमद॒न्ननु᳚ त्वा ॥
अनु᳚ त्वा॒ पत्नी᳚र्हृषि॒तं वय᳚श्च॒ विश्वे᳚ दे॒वासो᳚ अमद॒न्ननु᳚ त्वा ॥
पदपाठः (Word-by-word)
तत् । इ॒न्द्र॒ । प्र॑इ᳚व । वी॒र्य᳚म् । च॒क॒र्थ॒ । यत् । स॒सन्त॒म् । वज्रे᳚ण । अबो᳚धयः । अहि᳚म् ।
अनु᳚ । त्वा॒ । पत्नीः᳚ । हृ॒षि॒तम् । वयः᳚ । च॒ । विश्वे᳚ । दे॒वासः᳚ । अ॒म॒द॒न् । अनु᳚ । त्वा॒ ॥
अनु᳚ । त्वा॒ । पत्नीः᳚ । हृ॒षि॒तम् । वयः᳚ । च॒ । विश्वे᳚ । दे॒वासः᳚ । अ॒म॒द॒न् । अनु᳚ । त्वा॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र तद्वीर्यं वीरकर्म प्रेव चकर्थ । प्रख्यातमिवाकार्षीः । किं पुनस्तद्वीर्यम् । ससंतं स्वपंतं मदोन्मत्तमहिं वृत्रं वज्रेण कुलिशेन यद्येन वीर्येण त्वमबोधयः । प्रबुद्धः सन्मया सह युद्धं करोत्विति हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वामनु पश्चात्पत्नीर्देवपत्न्य अमदन् । हर्षं प्राप्ताः । अपि च वयश्च गमनशीला मरुतोऽपि तथा विश्वे देवासोऽन्ये च सर्वे देवास्त्वामनु पश्चादमदन् । अमाद्यन् ॥ ससंतम् । षस स्वप्ने । अदादित्वाच्छपो लुक् । पत्नीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । अमदन् । मदी हर्षे । व्यत्ययेन शप् ॥ ७ ॥