प्रथमं मण्डलम् - सूक्तम् 52

15 ऋचः

ऋषिः: सव्य आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.52 - सम्पूर्णम्

1 / 15
ऋक्: 1.52.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.52.1 समानपद
त्यं सु मे॒षं म᳚हया स्व॒र्विदं᳚ श॒तं यस्य᳚ सु॒भ्व᳚ः सा॒कमीर᳚ते ।
अत्यं॒ न वाजं᳚ हवन॒स्यदं॒ रथ॒मेन्द्रं᳚ ववृत्या॒मव᳚से सुवृ॒क्तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
त्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒॑विद᳚म् । श॒तम् । यस्य᳚ । सु॒॑भ्वः᳚ । सा॒कम् । ईर᳚ते ।
अत्य᳚म् । न । वाज᳚म् । ह॒व॒न॒॑स्यदम् । रथ᳚म् । आ । इन्द्र᳚म् । व॒वृ॒त्या॒म् । अव᳚से । सु॒वृ॒क्ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं सु मेषमिति पंचदशर्चं द्वितीयं सूक्तं सव्यस्यार्षमैंद्रम् । त्रयोदशी पंचदशी त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रांतम् । त्यं सु त्रयोदश्यंत्ये तिष्टुभाविति ॥ गवामयनस्य मध्यमेऽहनि विष्णुवत्संज्ञके मरुत्वतीयशस्त्र इदं सूक्तं विषुवान्दिवा कीर्त्य इति खंडे सूत्रितम् । त्यं सुमेषं कयाशुभेति च मरुत्वतीयम् (आ ८-६) इति ॥

त्यं तं प्रसिद्धं मेषं शत्रुभिः सह स्पर्धमानं स्वर्विदम् । स्वरादित्यो द्यौर्वा । तस्य वेदितारं लब्धारं वा । यद्वा । स्वः सुष्ट्वरणीयं धनम् । तस्य लंभयितारम् । एवंगुणविशिष्टमिंद्रं हे अर्ध्वर्यो सु महय । सम्यक् पूजय । यस्येंद्रस्य शतं शतसंख्याकाः सुभ्वः स्तोतारः साकं सहैव युगपदेवेरते स्तुतौ प्रवर्तंते । यद्वा यस्येंद्रस्य रथं शतं सुभ्वः शतसंख्याका अश्वाः साकं सहेरते । गमयंति । तमिंद्रमवसेऽस्मद्रक्षणाय सुवृक्तिभिः सुष्ट्वावर्जकैः स्तोत्रैः रथमाववृत्याम् । रथं प्रत्यावर्तयामि । कीदृशं रथम् । हवनस्यदम् । हवनमाह्वानं यागं वा प्रति वेगेन गच्छंतम् । वेगगमने दृष्टांतः । अत्यं न वाजम् । गमनसाधनमश्वमिव ॥ महय । मह पूजायाम् । चुरादिरदंतः । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । सुभ्वः । सुष्ठु भवंतीति सुभ्वः स्तोतारः । क्विप् चेति क्विप् । कृदुत्तर पदप्रकृतिस्वरत्वम् । जस्योः सुपीति यणादेशस्य न भूसुधियोरिति प्रतिषेधे प्राप्ते छंदस्युभयथा (पा ६-४-८६) इत्युभयथाभावाद्यणादेशः । उदात्तस्वरितयोर्यण इति परस्य जसोऽनुदात्तस्य स्वरितत्वम् । ईरते । ईर गतौ कंपने च । अदादित्वाच्छपो लुक् । झस्यादादेशः । टेरेत्वम् । अनुदात्तेश्त्वाल्लसार्वधातुकानुदात्तत्वे धातु स्वरः शिष्यते । यद्वृत्तयोगादनिघातः । तत्र हि पंचमीनिर्देशेऽपि व्यवहितेऽपि कार्यमिष्यते । का ८-१-६६ । इत्युक्तम् । अत्यम् । अत्य इत्यश्चनाम । अत्यो हय इति पाठात् । वाजम् । वाज्यते गम्यतेऽनेनेति वाजः । वज व्रज गतौ । करणे घञ् । अजिव्रज्योश्च (पा ७-३-६०) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाजो वाज्यमित्यत्पापि कुत्वाभाव इत्युक्तम् । हवनस्यदम् । स्यंदू प्रस्रवणे । स्यदो जवे (पा ६-४-२८) इति वेगे गम्यमाने घञन्तो निपातितः । अत एव नलोपो वृद्ध्यभावश्च । न च न धातुलोप आर्धधातुके (पा १-१-४) इति वृद्धेः प्रतिषेधः । इग्लक्षणा हि वृद्धिस्तत्र प्रतिषिध्यते । न चेयमिग्लक्षणा । घञो ञित्त्वामत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । ववृत्याम् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुळं छंदसीति शपः श्लुः । द्विर्वचनादि । यासुटो ङित्वाल्लघूपध गुणाभावः । तिङ्ङतिङ इति निघातः ॥ १ ॥

1.52.2
स पर्व᳚तो॒ न ध॒रुणे॒ष्वच्यु᳚तः स॒हस्र᳚मूति॒स्तवि᳚षीषु वावृधे ।
इन्द्रो॒ यद्वृ॒त्रमव᳚धीन्नदी॒वृत᳚मु॒ब्जन्नर्णां᳚सि॒ जर्हृ᳚षाणो॒ अन्ध᳚सा ॥
▶ पदपाठः (Word-by-word)
सः । पर्व᳚तः । न । ध॒रुणे᳚षु । अच्यु᳚तः । स॒हस्र᳚म्॑ऊतिः᳚ । तवि᳚षीषु । व॒वृ॒धे॒ ।
इन्द्रः᳚ । यत् । वृ॒त्रम् । अव᳚धीत् । न॒दी॒॑वृत᳚म् । उ॒ब्जन् । अर्णां᳚सि । जर्हृ᳚षाणः । अन्ध᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंधसा सोमलक्षणेनान्नेन जर्हृषाणोऽत्यर्थं हृष्यन्निंद्रो यद्यदा वृत्रं त्रयाणां लोकानामावरीतारमसुरमवधीत् । हतवान् । कीदृशं वृत्रम् । नदीवृतम् । नदनान्नद्य आपः । तासामावरीतारम् । किं कुर्वन्निंद्रः । अर्णांसि जलान्युब्जन् । अधःपातयन् । तदानीं स इंद्रः पर्वतो न पर्ववान् शिलोच्चय इव धरुणेषु सर्वस्य धारकेषूदकेषु मध्येऽच्युतश्च लनराहित्येन स्थितः सहस्रमूतिर्बहुविधरक्षणवान् तविषीषु बलेषु वावृदे । प्रवृद्धो बभूव ॥ धरुणेषु । धारयतेर्णिलुक् चेत्युन प्रत्ययः । प्रत्ययस्वरः । सहस्रमूतिः । सहस्रमूतयो यस्यासौ । लुगभावश्छांदसः । वावृधे । संहितायामभ्यासस्यान्येषामपि दृश्यत इति दीर्घत्वम् । नदीवृतम् । नदीं वृणोतीति नदीवृत् । क्विप् । तुगागमः । उब्जन् । उब्ज आर्जवे । विकरणस्वरः । अर्णांसि उदके नुट्च (उ ४-१९६) इत्यर्तेरसुन् प्रत्ययस्तत्सन्नियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । जर्हृषाणः । हृष तुष्टौ । यङ् लुगंताद्व्यत्ययेन शानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । यद्वा । यङिंतादेव शानचि बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच् । आर्धधातुकत्वादतोलोप यलोपौ । सार्वधातुकत्वाच्चाभ्यस्तस्याद्युदात्तत्वम् । अंधसा । अद्यत इत्यंधः । अदेर्नुम् धश्च (उ ४-२०५) इत्यसुन् । धातोर्नुमागमो धकारांतादेशश्च नित्त्वादाद्युदात्तत्वं ॥ २ ॥

1.52.3
स हि द्व॒रो द्व॒रिषु᳚ व॒व्र ऊध᳚नि च॒न्द्रबु᳚ध्नो॒ मद᳚वृद्धो मनी॒षिभि᳚ः ।
इन्द्रं॒ तम᳚ह्वे स्वप॒स्यया᳚ धि॒या मंहि᳚ष्ठरातिं॒ स हि पप्रि॒रन्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
सः । हि । द्व॒रः । द्व॒रिषु᳚ । व॒व्रः । ऊध᳚नि । च॒न्द्र॑बु᳚ध्नः । मद᳚॑वृद्धः । म॒नी॒षि॑भिः᳚ ।
इन्द्र᳚म् । तम् । अ॒ह्वे॒ । सु॒॑अ॒प॒स्यया᳚ । धि॒या । मंहि᳚ष्ठ॑रातिम् । सः । हि । पप्रिः᳚ । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स पूर्वोक्तगुणविशिष्ट इंद्रो द्वरिष्वावरीतृषु शत्रुषु द्वरो हि अतिशयेनावरीता खलु । शत्रुजयशील इत्यर्थः । यस्मादूधन्युद्धृतजलवत्यंतरिक्षे वव्रः संभक्तो व्याप्य वर्तते । अत एव चंद्रबुध्नः । सर्वासां प्रजानामाह्लादमूलः । अंतरिक्षस्य सर्वाह्लादकत्वात् । मदवृद्धः । माद्यंत्येभिरिति मदाः सोमाः । तैर्वर्धितः । एवंभूतो य इंद्रो मंहिष्ठरातिं प्रवृद्धधनं प्रवृद्धदानं वा तमिंद्रं मनीषिभिर्मनस ईषितृभिः प्राज्ञैर्ऋत्विग्भिः सह स्वपस्यया धिया शोभनकर्मयोग्यया बुद्ध्याह्वे । आह्वयामि । हि यस्मात्स इंद्रोऽंधसोऽन्नस्यासमदपेक्षितस्य पप्रिः पूरयिता ॥ द्वरः द्वृ इत्येके । द्वरत्यावृणोतीति द्वरः । पचाद्यच् । चित् स्वरेणांतोदात्तत्वम् । द्वरिषु । अच इरिति कर्तरीप्रत्ययः । वव्रः । वृङ् संभक्तौ । व्रियते संभज्यत इति वव्रः । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् । पा ३-३-५८-४ । इति परिगणनस्योपलक्षणार्थत्वात् । कर्मणि कप्रत्ययः । द्विर्भावश्छांदसः । ऊधनि । उत् ऊर्ध्वं ध्रियतेऽस्मिन् जलमित्यूधः । सप्तम्येकवचनेऽस्थिदधिक्थ्यक्ष्णामनङ्ङुदात्तश्भंदसत्वात्केवलादपि भवति । चंद्रबुध्नः । चदि आह्लादनॆ दीप्तौ च । इदित्त्वान्नुम् । स्फायितङ्चीत्यादिना रक् । प्रत्ययस्वरेणांतोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । मदवृद्धः । मदी हर्षे । मदोऽनुपसर्ग इति करणेऽप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । आह्वे । ह्वेञ् स्पर्धायां शब्दे च । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ्यात्मनेपदेष्वन्यतरस्याम् (पा ३-१-५४) इति च्लेरङादेशः । आतो लोप इट चेत्याकारलोपः । गुणः । स्वपस्यया । अप इति कर्मनाम । शोभनमपः स्वपः । तदर्हतीति स्वपस्यः । छंदसि चेति यप्रत्ययः । मंहिष्ठरातिम् । महि वृद्धौ । अतिशयेन मंहित्री मंहिष्ठाम् । तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठे मेयःस्विति तृलोपः । नित्त्वादाद्युदात्तत्वम् । मंहिष्ठा रातिर्यस्य । स्त्रियाः पुवंत् (पा ६-३-३४) इति पुंवद्भावाद्ध्रस्वत्वम् । बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् । पप्रिः । पृ पालनपूरणयोः । आदृगमहनजन इति किन् प्रत्ययः । उदोष्ठ्यपूर्वस्येत्युत्वस्य बहुळं छंदसीति वचनादभावे यणादेशः । लिड्वद्भावाद्द्वर्वचनेऽचीति स्थानिवद्भावे सति द्विर्भावोरदत्वहलादिशेषाः । नित्त्वादाद्युदात्तत्वं ॥ ३ ॥

1.52.4
आ यं पृ॒णन्ति᳚ दि॒वि सद्म᳚बर्हिषः समु॒द्रं न सु॒भ्व१॒᳚ः स्वा अ॒भिष्ट᳚यः ।
तं वृ᳚त्र॒हत्ये॒ अनु᳚ तस्थुरू॒तय॒ः शुष्मा॒ इन्द्र᳚मवा॒ता अह्रु᳚तप्सवः ॥
▶ पदपाठः (Word-by-word)
आ । यम् । पृ॒णन्ति᳚ । दि॒वि । सद्म᳚॑बर्हिषः । स॒मु॒द्रम् । न । सु॒॑भ्वः᳚ । स्वाः । अ॒भिष्ट᳚यः ।
तम् । वृ॒त्र॒॑हत्ये᳚ । अनु᳚ । त॒स्थुः॒ । ऊ॒तयः᳚ । शुष्माः᳚ । इन्द्र᳚म् । अ॒वा॒ताः । अह्रु᳚त॑प्सवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सड्म सदनं स्थानं बर्हिः शब्दोपलक्षितो यज्ञो येषां सोमानां ते सोमा दिवि स्वर्गलोकेऽवस्थितं यमिंद्रमापृणंति । आ संमतात्पूरयंति । तत्र दृष्टांतः । सुष्ठु भवंतीति सुभ्वो नद्यः समुद्रं न । यथा नद्यः समुद्रं पूरयंति तद्वदित्यर्थः । कीदृश्यो नद्यः । स्वाः । समुद्रस्य स्वभूताः । तथा चाम्नायते । समुद्राय वयुनाय सिंधूनां पतये नमः । तै सं ४-६-२-६ । इति । अभिष्टयः । आभिमुख्येन गमनवत्य ऊतयोऽवितारो मरुतो वृत्रहत्ये वृत्रहनने निमित्तभूते सति तमिंद्रमनुतस्थुः । अनुलक्ष्य स्थिता बभूवुः । कीदृशा मरुतः । शुष्माः शत्रूणां शोषयितारः । अवाताः । वांति प्रातिकूल्येन गच्छंतीति वाताः शत्रवः । तद्रहिताः । अह्रुतप्सवोऽकुटलरूपाः । शोभनावयवा इत्यर्थः ॥ पृणंति । पृ पालनपूरणयोः । क्रैय्यादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । श्नाभ्यस्तयोरात इत्याकार लोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । सद्मबर्हिषः । षद्लृ विशरणगत्यवसादनेषु सीदंत्यस्मिन्निति सद्म । औणाधिकोऽधिकरणे मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । सुभ्वः । भवते । क्विप् चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं जस्योः सुपीति यणादेशस्य न भूसुधियोरिति प्रतिषेधे प्राप्ते छंदस्युभयथेति यणादेशः । उदात्तस्वरितयोर्यण इत्यनुदात्तस्य जसः स्वरितत्वम् । अभिष्टयः । इष्टय एषणानि । उपसर्गाश्चाभिवर्जमिति वचनादभिरंतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । एमनादित्वात्पररूपत्वम् । वृत्रहत्ये । हनस्त चेति हंतेर्भावे क्यप् तकारांतादेशश्च । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अह्रुतप्सवः । ह्वृ कौटिल्ये । अस्मान्निष्ठायां ह्रु ह्वरेश्छंदसि पा ७-२-३१ । इति ह्रु आदेशः । प्सा भक्षण इत्यस्मादौणादिको डुप्रत्ययः । न ह्रुतप्स वोऽह्रुतप्सवः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.52.5 समानपद
अ॒भि स्ववृ᳚ष्टिं॒ मदे᳚ अस्य॒ युध्य᳚तो र॒घ्वीरि᳚व प्रव॒णे स᳚स्रुरू॒तयः᳚ ।
इन्द्रो॒ यद्व॒ज्री धृ॒षमा᳚णो॒ अन्ध᳚सा भि॒नद्व॒लस्य᳚ परि॒धी{4}रि᳚व त्रि॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । स्व॑वृ᳚ष्टिम् । मदे᳚ । अ॒स्य॒ । युध्य᳚तः । र॒घ्वीः॑इ᳚व । प्र॒व॒णे । स॒स्रुः॒ । ऊ॒तयः᳚ ।
इन्द्रः᳚ । यत् । व॒ज्री । धृ॒षमा᳚णः । अन्ध᳚सा । भि॒नत् । व॒लस्य᳚ । प॒रि॒धीन्॑इ᳚व । त्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतयो मरुतो मदे सोमपानेन हर्षे सत्यस्येंद्रस्य युध्यतो वृत्रेण सह युध्यमानस्य पुरतः स्ववृष्टिं स्वभूतवृष्टिमंतं वृत्रमभि अभिमुख्येन सस्रुः । जग्मुः । रघ्वीरिव प्रवणे । यथा गमनस्वभावा आपो निम्न देशे गच्छंति । यद्यदांधसा सोमलक्षणेनान्नेन पीतेन धृषमाणः प्रगल्भः सन्वज्री वज्रवानिंद्रो वलस्य संवृण्वत एतत्संज्ञ कमसुरं भिनत् । व्यदारयत् । अवधीदित्यर्थः । तत्र दृष्टांतः । त्रितः परिधीनिव । देवानां हविर्लेपनिघर्षणायाग्नेः । सकाशादप् । स्वेकतो द्वितस्त्रित इति त्रयः पुरुषा जज्ञिरे । तथा च तैत्तिरीयैः समाम्नातम् । सोऽङ्गारेणापः अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् । ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । ३-२-८-१० । इति । तत्रोदकपानार्थं प्रवृत्तस्य कूपे पतितस्य प्रतिरोधायासुरैः परिधयः परिधायकाः कूपस्याच्छादका स्थापिताः । तान्यथास अभिनत् तद्वत् ॥ स्ववृष्टिम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युध्यतः । युध संप्रहारे । दैवादिकः । व्यत्ययेन शतृ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । रघ्वीः । रघि गत्यर्थः । रंघिबंह्योर्नलोपश्च (उ १-२९) इत्युप्रत्ययः । वोतो गुणवचनादिति ङीष् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ङीष् स्वरः शिष्यते । धृषमाणः । ञिधृषा प्रागल्भे । श्नुप्रत्यये प्राप्ते व्यत्ययेन श आत्मनेपदं च । अदुपदेशाल्लसार्वधातुकासुदात्तत्वे विकरणस्वरः शिष्यते । भिनत् । लङि बहुळं छंदस्यमाङ्योगेऽपीत्यडभावः । विकरणस्वरः । यद्वृत्तयोगादनिघातः । वलस्य । वल संवरणे । वलति संवृणोति सर्वमिति वलः । पचाद्यच् । क्रियाग्रहणं कर्तव्यमिति कर्मणः । संप्रदानत्वाच्चतुथ्यर्थे षष्ठी । परिधीन् । परिधीयंत इति परिधयः । उपसर्गे घोः किः (पा ३-३-९२) इति दधातेः कर्मणि किप्रत्ययः । आतो लोप इट चेत्याकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ५ ॥

1.52.6
परीं᳚ घृ॒णा च᳚रति तित्वि॒षे शवो॒॑पो वृ॒त्वी रज᳚सो बु॒ध्नमाश᳚यत् ।
वृ॒त्रस्य॒ यत्प्र᳚व॒णे दु॒र्गृभि᳚श्वनो निज॒घन्थ॒ हन्वो᳚रिन्द्र तन्य॒तुम् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः᳚ । अ॒पः । वृ॒त्वी । रज᳚सः । बु॒ध्नम् । आ । अ॒श॒य॒त् ।
वृ॒त्रस्य᳚ । यत् । प्र॒व॒णे । दुः॒॑गृभि᳚श्वनः । नि॒॑ज॒घन्थ᳚ । हन्वोः᳚ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो वृत्रोऽपो वृत्वी । उदकान्यावृत्य रजसो बुध्नमंतरिक्षस्योपरिप्रदेशमाशयत् । आश्रित्याशेत । तस्य वृत्रस्य प्रवणे प्रकर्षेण वननीयेऽंतरिक्षे वर्तमानस्य दुर्गृभिश्वनो दुर्ग्रहव्यापनस्य । तस्य हि व्यापनं न केनापि ग्रहीतुं शक्यते । स इमान् लोकानावृणोदिति श्रुतेः । एवंभूतस्य वृत्रस्य हन्वोर्मुखपार्श्वयोः हे इंद्र यद्यदा तन्यतुं प्रहारं विस्तारयंतं यद्वा शब्दकारिणं वज्रम् । तृतीयार्थे द्वितीया । तन्यतुना वज्रेण निजघंथ । नितरां प्रजहर्थ । तदानीमिमेनं त्वामिंद्रं घृणा शत्रुजयलक्षणा दीप्तिः परिचरति । परितो व्याप्नोति । त्वदीयं शवो बलं च तत्विषे । प्रदिदीपे ॥ तित्विषे । त्विष दीप्तौ । लिट प्रत्ययस्वरः । तिङ् परत्वान्निघाताभावः । वृत्वी । वृञ् वरणॆ । स्नात्व्यादयश्च (पा ७-१-४९) इत्यादि ग्रहणात् क्त्वाप्रत्ययस्येकारः । रजसः । रंज रागे । रजंत्यस्मिन् गंधर्वादय इति रजोऽंतरिक्षम् । असुनि रजकरजनरजःसूपसंख्यानम् । पा ६-४- २४-४ । इति नलोपः । नित्त्वादाद्युदात्तत्वम् । अशयत् । शीङो व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपो लुगभावः । दुर्गृभिश्वनः । ग्रह उपादानेऽशू व्याप्तावित्यनयोर्दुःशब्द उपपदे पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । निजघंथ । हन हिंसागत्योः । लिट थलि क्रादिनियमात्ट्रप्तस्येट उपदेशेऽत्वतः (पा ७-२-६२) इति निषेधः । आभ्यासाच्चेत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । तिङि चोदात्तवतीति गतेर्निघातः । यद्वृत्तयोगान्निघाताभावः । तन्यतुम् । तनु विस्तारे । अस्मादृतन्यंजीत्यादिना उ ४-२१ । यतुच् । यद्वा । स्तन शब्द इत्यस्माद्बहुलवचनाद्यतुच् प्रत्यये सकारलोपः ॥ ६ ॥

1.52.7
ह्र॒दं न हि त्वा᳚ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा᳚णीन्द्र॒ तव॒ यानि॒ वर्ध᳚ना ।
त्वष्टा᳚ चित्ते॒ युज्यं᳚ वावृधे॒ शव᳚स्त॒तक्ष॒ वज्र᳚म॒भिभू᳚त्योजसम् ॥
▶ पदपाठः (Word-by-word)
ह्र॒दम् । न । हि । त्वा॒ । नि॒॑ऋ॒षन्ति᳚ । ऊ॒र्मयः᳚ । ब्रह्मा᳚णि । इ॒न्द्र॒ । तव᳚ । यानि᳚ । वर्ध᳚ना ।
त्वष्टा᳚ । चि॒त् । ते॒ । युज्य᳚म् । व॒वृ॒धे॒ । शवः᳚ । त॒तक्ष᳚ । वज्र᳚म् । अ॒भिभू᳚ति॑ओजसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यानि ब्रह्माणि सोत्रशस्त्ररूपाणि मंत्रजातानि तव वर्धना वर्धयितृणि तानि त्वा त्वां न्यृषंति हि । नितरां प्राप्नुवंत्येव । तत्र दृष्टांतः । ऊर्मयो जलप्रवाहा ह्रदं न । यथा जलाशयं प्राप्नुवंति तद्वत् । त्वष्वा चित् स त्वष्वाच देवस्ते तव युज्यं योग्यं शवो बलं ववृधे । प्रावर्धयत् । आपि चाभिभूत्योजसं शत्रूणामभिभवितृणामोजसा बलेन युक्तं वज्रं ततक्ष । तीक्ष्णीचकार ॥ न्यृषंति । ऋषी गतौ । तौदादिकः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । हि चेति निघातप्रतिषेधः । ऊर्मयः । ऋ गतौ । ऋच्छंति गच्छंतीत्यूर्मयः । अर्तेरूच (उ ४-४४) इति मिप्रत्ययः । गुणे सत्यकारस्योकारादेशश्च । प्रत्ययस्वरः । वर्धना । वृधु वृद्धौ । वर्धत एभिरिति वर्धना । करणे ल्युट् । शेश्छंदसीति तेर्लोपः । ततक्ष । तक्षू त्वक्षू तनूकरणे । लिट णलि लित्स्वरेण प्रत्ययूत्पूर्व स्योदात्तत्वम् । पादादित्वान्निघाताभावः । अभिभूत्योजसम् । अभिभूयतेऽनेनेत्यभिभूति । करणे प्तन् । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । अभिभूत्योजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.52.8 समानपद
ज॒घ॒न्वा{4} उ॒ हरि᳚भिः सम्भृतक्रत॒विन्द्र᳚ वृ॒त्रं मनु᳚षे गातु॒यन्न॒पः ।
अय᳚च्छथा बा॒ह्वोर्वज्र᳚माय॒समधा᳚रयो दि॒व्या सूर्यं᳚ दृ॒शे ॥
▶ पदपाठः (Word-by-word)
ज॒घ॒न्वान् । ऊं॒ इति᳚ । हरि᳚॑भिः । स॒म्भृ॒त॒क्र॒तो॒ इति᳚ सम्भृत॑क्रतो । इन्द्र᳚ । वृ॒त्रम् । मनु᳚षे । गा॒तु॒॑यन् । अ॒पः ।
अय᳚च्छथाः । बा॒ह्वोः । वज्र᳚म् । आ॒य॒सम् । अधा᳚रयः । दि॒वि । आ । सूर्य᳚म् । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे संभृतक्रतो संपादितकर्मन् संपादितप्रज्ञवेंद्र मनुषे जनायगातुयन् गातुं मार्गमिच्छन् । वृत्रं लोकानामावरकमसुरं हरिभिरश्वैर्युक्तस्त्वं जघन्वान् उ । हतवान् खलु । तदनंतरमपो वृष्ट्युदकानि प्रावर्तय इत्यध्याहारः । बाह्वोस्त्वदीययोर्हस्तयोरायसमयोमयं वज्रमयच्छथाः । आग्रहीः । आकारः समुच्चयार्थः । सूर्यं च दिवि द्युलोके दृशे द्रष्टुं सर्वेषामस्माकं दर्शनायाधारयः । स्थापयां चकृषे ॥ जघन्वान् । हंतेर्लिटः क्वसुः । विभाषा गमहनविदविशाम् (पा ७-२-६८) इतीडागमस्य विकल्पोक्तेरभावः । गातुयन् । गातुमिच्छसि । छंदसि परेच्छायामपीति क्यच् । का ३-१-८-२ । न छंदस्य पुत्रस्येति दीर्घप्रतिषेधः । क्यजंताच्छतर्यदुपदेशाल्लसार्वधातुकानुदात्तत्वे क्यच एव स्वरः शिष्यते । बाह्वोः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ८ ॥

1.52.9 समानपद
बृ॒हत्स्वश्च᳚न्द्र॒मम᳚व॒द्यदु॒क्थ्य१॒᳚मकृ᳚ण्वत भि॒यसा॒ रोह᳚णं दि॒वः ।
यन्मानु᳚षप्रधना॒ इन्द्र᳚मू॒तय॒ः स्व᳚र्नृ॒षाचो᳚ म॒रुतो॑म᳚द॒न्ननु᳚ ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । स्व॑च᳚न्द्रम् । अम᳚॑वत् । यत् । उ॒क्थ्य᳚म् । अकृ᳚ण्वत । भि॒यसा᳚ । रोह᳚णम् । दि॒वः ।
यत् । मानु᳚ष॑प्रधनाः । इन्द्र᳚म् । ऊ॒तयः᳚ । स्वः᳚ । नृ॒॑साचः᳚ । म॒रुतः᳚ । अम᳚दन् । अनु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहत् । स्वऽचंद्रम् । अमऽवत् । यत् । उक्थ्यम् । अकृण्वत । भियसा । रोहणम् । दिवः । यत् । मानुषऽप्रधनाः । इंद्रम् । ऊतयः । स्वः । नृऽसाचः । मरुतः । अमदन् । अनु ॥ ९ ॥

1.52.10
द्यौश्चि᳚द॒स्याम᳚वा{4}॒ अहे᳚ः स्व॒नादयो᳚यवीद्भि॒यसा॒ वज्र᳚ इन्द्र ते ।
वृ॒त्रस्य॒ यद्ब᳚द्बधा॒नस्य᳚ रोदसी॒ मदे᳚ सु॒तस्य॒ शव॒साभि᳚न॒च्छिरः᳚ ॥
▶ पदपाठः (Word-by-word)
द्यौः । चि॒त् । अ॒स्य॒ । अम᳚॑वान् । अहेः᳚ । स्व॒नात् । अयो᳚यवीत् । भि॒यसा᳚ । वज्रः᳚ । इ॒न्द्र॒ । ते॒ ।
वृ॒त्रस्य᳚ । यत् । ब॒द्ब॒धा॒नस्य᳚ । रो॒द॒सी॒ इति᳚ । मदे᳚ । सु॒तस्य᳚ । शव᳚सा । अभि᳚नत् । शिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमवान्बलवान्द्यौश्चित् द्युलोकोऽप्यस्याहेर्वृत्रस्य स्वनाच्छब्दाद्भियसा भयेनायोयवीत् । अत्यर्थं पृथग्छूत् आसीत् । अकंपतेत्यर्थः । हे इंद्र ते तव सुतस्याभिषवादिभिः संस्कृतस्य सोमस्य पानेन मदे हर्षे जाते सति त्वदीयो वज्रो रोदसी द्यावापृथिव्यौ बद्बधानस्य बाधनशीलस्य वृत्रस्य शिरो यद्यदा शवसा बलेनाभिनत् । अच्छिनत् । तदानीं द्युलोको भयराहित्येन निश्चलो बभूवेति शेषः ॥ अयोयवीत् । यु मिश्रणामिश्रणयोः । अस्माद्यङ् लुगंताल्लङि यङो वा (पा ७-३-९४) इत्यपृक्तप्रत्ययस्येडागमः । अडागम उदात्तः । बद्बधानस्य । बाधृ विलोडने । ताच्छीलके चानशि बहुलं छंदसीति शपः श्लुः । हलादिशेषाभावो धातो र्ह्रस्वत्वं च छांदसत्वात् । चित इत्यंतोदात्तत्वं ॥ १० ॥

1.52.11
यदिन्न्वि᳚न्द्र पृथि॒वी दश᳚भुजि॒रहा᳚नि॒ विश्वा᳚ त॒तन᳚न्त कृ॒ष्टयः᳚ ।
अत्राह᳚ ते मघव॒न्विश्रु᳚तं॒ सहो॒ द्यामनु॒ शव᳚सा ब॒र्हणा᳚ भुवत् ॥
▶ पदपाठः (Word-by-word)
यत् । इत् । नु । इ॒न्द्र॒ । पृ॒थि॒वी । दश᳚॑भुजिः । अहा᳚नि । विश्वा᳚ । त॒तन᳚न्त । कृ॒ष्टयः᳚ ।
अत्र᳚ । अह᳚ । ते॒ । म॒घ॒॑व॒न् । वि॑श्रु᳚तम् । सहः᳚ । द्याम् । अनु᳚ । शव᳚सा । ब॒र्हणा᳚ । भु॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदिन्नु यदा खलु पृथिवी दशभुजिर्दशगुणिता भवेत् । यदि वा कृष्टयः सर्वे मनुष्या विश्वा सर्वाण्यहानि ततनंत । विस्तारयेयुः । हे मघवन् । धनवन्निंद्र अत्राह अत्रैव पूर्वोक्तेष्वेव देशकालकर्तृकेषु ते त्वदीयं सहो वृत्रवधादिकारणं बलं विश्रुतं विख्यातं प्रसिद्धम् । शवसा त्वदीयेन बलेन कृता बर्हणा वृत्रादेर्वधरूपा क्रिया द्यामनु भुवत् । अनुभवति । यथा द्यौर्महती तथा त्वत्कृतं वृत्रादेर्हिंसनमपि महदिति भावः ॥ ततनंत । तनु विस्तारे । स्वरितेत्त्वादात्मने पदम् । लिङर्थे लङ्युप्रत्यये प्राप्ते व्यत्ययेन शप् । छांदसो द्विर्भावः । यद्वा । बहुलं छंदसीत्युप्रत्ययस्य श्लौ सति पुनरपि व्यत्ययेन शप् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यद्वृत्तयोगादनिघातः । विश्रुतम् । श्रु श्रवणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । बर्हणा वर्ह वल् ह परिभाषणहिंसादानेषु । अस्मादौणादिकः क्युप्रत्ययः । बवयोरभेद इति वकारस्य बत्वम् । प्रत्ययस्वरः । निबर्हयतीति वधकर्मसु पठितं च । भुवत् । भू सत्तायाम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेध उवङादेशः ॥ ११ ॥

1.52.12
त्वम॒स्य पा॒रे रज᳚सो॒ व्यो᳚मन॒ः स्वभू᳚त्योजा॒ अव᳚से धृषन्मनः ।
च॒कृ॒षे भूमिं᳚ प्रति॒मान॒मोज᳚सो॒॑पः स्व᳚ः परि॒भूरे॒ष्या दिव᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒स्य । पा॒रे । रज᳚सः । वि॑ओ᳚मनः । स्वभू᳚ति॑ओजाः । अव᳚से । धृ॒ष॒त्॑म॒नः॒ ।
च॒कृ॒षे । भूमि᳚म् । प्र॒ति॒॑मान᳚म् । ओज᳚सः । अ॒पः । स्व१॒᳚रिति᳚ स्वः᳚ । प॒रि॒॑भूः । ए॒षि॒ । आ । दिव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धृषन्मनः शत्रूणां धर्षकमनोयुक्तेंद्र । अस्यास्माभिः परिदृश्यमानस्य व्योमनो व्याप्तस्यांतरिक्षस्य रजसो लोकस्य पार उपरिप्रदेशे वर्तमानः स्वभूत्योजाः स्वभूतबलस्त्वमवसेऽस्मद्रक्षणार्थं भूमिं भूलोकं चकृषे कृतवानसि । किंच ओजसो बलवतां बलस्य प्रतिमानं प्रतिनिधिरछूः । तथा स्वः सुष्ठ्वरणीयं गंतव्यम् । आप इत्यंतरिक्षनाम । अपोंतरिक्षलोकं आ दिवं द्युलोकं च परिभूः परिग्रहीता । परिपूर्वो भवतिः परिग्रहणार्थः । एषि प्राप्नोषि ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । व्योमनः । अवतिर्गत्यर्थः । अव रक्षणगतिकान्तीत्यभिधानात् । विशेषेण गच्छति व्याप्नोतीति व्योम । यद्वा । वृष्टिप्रदानेन विशेषेण प्राणिनोऽवति रक्षतीति व्योम । अन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिनोपधाया वकारस्य चोट् । गुणः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । भावे मनिन् । विविधमोम रक्षणं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । स्वः । सुपूर्वादर्तेरन्येभ्योऽपि दृश्यंत इति विच् । अव्ययादाप्सुपः (पा २-४-८२) इति सुपो लुक् । न्यङ् स्वरौ स्वरितौ (फि ४-६) इति स्वरितत्वं ॥ १२ ॥

1.52.13
त्वं भु᳚वः प्रति॒मानं᳚ पृथि॒व्या ऋ॒ष्ववी᳚रस्य बृह॒तः पति᳚र्भूः ।
विश्व॒माप्रा᳚ अ॒न्तरि᳚क्षं महि॒त्वा स॒त्यम॒द्धा नकि᳚र॒न्यस्त्वावा᳚न् ॥
▶ पदपाठः (Word-by-word)
त्वम् । भु॒वः॒ । प्र॒ति॒॑मान᳚म् । पृ॒थि॒व्याः । ऋ॒ष्व॑वी᳚रस्य । बृ॒ह॒तः । पतिः᳚ । भूः॒ ।
विश्व᳚म् । आ । अ॒प्राः॒ । अ॒न्तरि᳚क्षम् । म॒हि॒॑त्वा । स॒त्यम् । अ॒द्धा । नकिः᳚ । अ॒न्यः । त्वा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूनाम्न्येकाहे मरुत्वतीयशस्त्रे निविद्धानीयात्सूक्तात्पुरा त्वं भुवः प्रतिमानमित्येषा शंसनीया । तथैवासूत्रयत् । शस्यमुक्तम् । बृहस्पतिसवेन त्वं भुवः प्रतिमानं पृथिव्याः (आ ९-५) इति ॥

हे इंद्र त्वं पृथिव्याः प्रथिताया विस्तीर्णाया भूमेः प्रतिमानं भुवः । प्रतिनिधिर्भवसि । यथा भूर्लोको महानचिंत्यशक्तिः । एवं त्वमपीत्यर्थः । तथा ऋष्ववीरस्य । वीरयंति विक्रांता भवंतीति वीरा देवाः । ऋष्वा दर्शनीया वीरायस्य स तथोक्तः । तस्य बृहतो बृंहितस्य प्रवृद्धस्य स्वर्गलोकस्य पतिर्भूः । पालयितासि । तथांतरिक्षमंतरा क्षांतं द्यावापृथिव्योर्मध्ये वर्तमानमाकाशं विश्वं सर्वमपि महित्वा महत्त्वेन सत्यमाप्राः । निश्चयेन आ समंतादपूरयः । अतस्त्वावान् त्वत्सदृशोऽन्यः । कश्चिन्नकिरस्ति नास्तीति । यदेतत्तदद्धा सत्यमेव ॥ भुवः । भवतेर्लेट सिप्यडागमः । उवङादेशः । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तिरु । दात्ता । बृहतः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । भूः । छांदसे वर्तमाने लुञि बहुलं छंदस्यमाङ् योगेऽपीत्यडभावः । अप्राः । प्रा पूरणे । आदादिकः । लङ्यडागमः । महित्वा । सुपां सुलुगिति तृतीयायाडादेशः । त्वार्वा । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । इति सादृश्यार्थे वतुप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । आ सर्वनाम्न इत्यात्वम् । प्रत्ययस्य पित्त्वानुदात्तत्वे प्रातिपदिकस्वकरएव शिष्यते ॥ १३ ॥

1.52.14
न यस्य॒ द्यावा᳚पृथि॒वी अनु॒ व्यचो॒ न सिन्ध᳚वो॒ रज᳚सो॒ अन्त᳚मान॒शुः ।
नोत स्ववृ᳚ष्टिं॒ मदे᳚ अस्य॒ युध्य᳚त॒ एको᳚ अ॒न्यच्च᳚कृषे॒ विश्व᳚मानु॒षक् ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । द्यावा᳚पृथि॒वी इति᳚ । अनु᳚ । व्यचः᳚ । न । सिन्ध᳚वः । रज᳚सः । अन्त᳚म् । आ॒न॒शुः ।
न । उ॒त । स्व॑वृ᳚ष्टिम् । मदे᳚ । अ॒स्य॒ । युध्य᳚तः । एकः᳚ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व᳚म् । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य व्यचो व्यापनं द्यावापृथिवी द्यावापृथिव्नौ नान्वानशाते प्राप्तुमसमर्थे बभूवतुः । तथा रजसोऽंतरिक्षलोकस्योपरि सिंधवः स्यंदनशीला आपो यस्येंद्रस्य तेजसोऽंतमवसानं नानशुः न प्रापुः । उतापि च सोमपानेन मदे हर्षे सति स्ववृष्टिं स्वीकृतवृष्टिं वृत्रादिं युध्यतो युध्यमानस्येंद्रस्य बलस्यांतं वृत्रादयो न प्रापुः । अतो हे इंद्र एकस्त्वमन्यत्स्वव्यतिरिक्तं विश्वं सर्वं भूतजातमानुषक् आनुषक्तं चकृषे । सकलमपि भूतजातं त्वदधीनमभूदिति भावः ॥ द्यावापृथिवी । द्यौश्च पृथिवी च दिवो द्यावा (पा ६-३-२९) इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दः षिद्गौरादिभ्यश्चेति रुद्रपूषमंथिष्विति पर्युदासान्नोत्तरपदेऽनुदात्तादाविति निषेधाभावः । व्यचः व्यचेः कुटादित्वमनसि । का १-२-१-१ । इति वचनात् । ङित्त्वाभावे संप्रसारणाभावः । आनशुः । अश्नोतेर्व्यत्ययेन परस्मैपदम् । आत आदेरित्यभ्यासस्यात्वम् । अश्नोतेश्चेति नुडागमः ॥ १४ ॥

1.52.15 समानपद
आर्च॒न्नत्र᳚ म॒रुत॒ः सस्मि᳚न्ना॒जौ विश्वे᳚ दे॒वासो᳚ अमद॒न्ननु᳚ त्वा ।
वृ॒त्रस्य॒ यद्भृ᳚ष्टि॒मता᳚ व॒धेन॒ नि त्वमि᳚न्द्र॒ प्रत्या॒नं ज॒घन्थ᳚ ॥
▶ पदपाठः (Word-by-word)
आर्च᳚न् । अत्र᳚ । म॒रुतः᳚ । सस्मि᳚न् । आ॒जौ । विश्वे᳚ । दे॒वासः᳚ । अ॒म॒द॒न् । अनु᳚ । त्वा॒ ।
वृ॒त्रस्य᳚ । यत् । भृ॒ष्टि॒॑मता᳚ । व॒धेन᳚ । नि । त्वम् । इ॒न्द्र॒ । प्रति᳚ । आ॒नम् । ज॒घन्थ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वां मरुतोऽत्रास्मिन् संग्राम आर्चन् । प्रहर भगवो जहि वीरयस्व । ऐ ब्रा ३-२० । इत्यनेन वचनेनापूजयन् । सस्मिन् तस्मिन् यद्वा सर्व स्मिन्नाजौ संग्रामे विश्वे देवासस्ते सर्वे दानादिगुणयुक्ता मरुतस्त्वा त्वामन्वमदन् । अनुक्रमेण हर्षं प्रापयन् । यद्वा । त्वदीयमदानंतरं तेऽपि मदं प्राप्ताः । हे इंद्र त्वं यद्यदा भृष्टिमता । भ्रंशयति शत्रूनिति भृष्टिरश्रिः । तद्वता वधेन हननसाधनेन वज्रेण । अश्रिमत्त्वं च वज्रस्य ब्राह्मणे समाम्नातम् । वज्रो वा एष यद्यूपः सोऽप्वाश्रिः कर्तव्योऽष्टाश्रिर्वै वज्रः । ऐ ब्रा २-१ । इति । तेन वज्रेण वृत्रस्यानं प्रति आननं मुखं प्रति यद्वा श्वासहेतु घ्राणं प्रति नि जघंथ । नितरां प्राहार्षीः ॥ आर्चन् । अर्च पूजायाम् । भौवादिकः । आडागम उदात्तः । सस्मिन् । तदोः सः सौ । पा सू ७-२-१०६ । इति विधीयमानं सत्वं व्यत्ययेन सप्तम्यामपि द्रष्टव्यम् । यद्वा । सर्वस्मिन्नतैत्र वर्ण लोपो द्रष्टव्यः । देवासः । आज्जसेरसुक् । आनम् । आननम् । वर्णलोपश्छांदसः । यद्वा । अन प्राणने । अन्यतेऽनेनेत्यानम् । घ्राणम् । करणे घञ् । कर्षात्वत इत्यंतोदात्तत्वम् । जघंथ । हन हिंसागत्योः । थल्युपदेशेऽत्वत इतीट् प्रतिषेधः । अभ्यासाच्चेत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १५ ॥