अत्राह᳚ ते मघव॒न्विश्रु᳚तं॒ सहो॒ द्यामनु॒ शव᳚सा ब॒र्हणा᳚ भुवत् ॥
पदपाठः (Word-by-word)
अत्र᳚ । अह᳚ । ते॒ । म॒घ॒॑व॒न् । वि॑श्रु᳚तम् । सहः᳚ । द्याम् । अनु᳚ । शव᳚सा । ब॒र्हणा᳚ । भु॒व॒त् ॥
सायणभाष्यम् (Sayana Commentary)
यदिन्नु यदा खलु पृथिवी दशभुजिर्दशगुणिता भवेत् । यदि वा कृष्टयः सर्वे मनुष्या विश्वा सर्वाण्यहानि ततनंत । विस्तारयेयुः । हे मघवन् । धनवन्निंद्र अत्राह अत्रैव पूर्वोक्तेष्वेव देशकालकर्तृकेषु ते त्वदीयं सहो वृत्रवधादिकारणं बलं विश्रुतं विख्यातं प्रसिद्धम् । शवसा त्वदीयेन बलेन कृता बर्हणा वृत्रादेर्वधरूपा क्रिया द्यामनु भुवत् । अनुभवति । यथा द्यौर्महती तथा त्वत्कृतं वृत्रादेर्हिंसनमपि महदिति भावः ॥ ततनंत । तनु विस्तारे । स्वरितेत्त्वादात्मने पदम् । लिङर्थे लङ्युप्रत्यये प्राप्ते व्यत्ययेन शप् । छांदसो द्विर्भावः । यद्वा । बहुलं छंदसीत्युप्रत्ययस्य श्लौ सति पुनरपि व्यत्ययेन शप् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यद्वृत्तयोगादनिघातः । विश्रुतम् । श्रु श्रवणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । बर्हणा वर्ह वल् ह परिभाषणहिंसादानेषु । अस्मादौणादिकः क्युप्रत्ययः । बवयोरभेद इति वकारस्य बत्वम् । प्रत्ययस्वरः । निबर्हयतीति वधकर्मसु पठितं च । भुवत् । भू सत्तायाम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेध उवङादेशः ॥ ११ ॥