श्रवणम्

1.52.14
न यस्य॒ द्यावा᳚पृथि॒वी अनु॒ व्यचो॒ न सिन्ध᳚वो॒ रज᳚सो॒ अन्त᳚मान॒शुः ।
नोत स्ववृ᳚ष्टिं॒ मदे᳚ अस्य॒ युध्य᳚त॒ एको᳚ अ॒न्यच्च᳚कृषे॒ विश्व᳚मानु॒षक् ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । द्यावा᳚पृथि॒वी इति᳚ । अनु᳚ । व्यचः᳚ । न । सिन्ध᳚वः । रज᳚सः । अन्त᳚म् । आ॒न॒शुः ।
न । उ॒त । स्व॑वृ᳚ष्टिम् । मदे᳚ । अ॒स्य॒ । युध्य᳚तः । एकः᳚ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व᳚म् । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येंद्रस्य व्यचो व्यापनं द्यावापृथिवी द्यावापृथिव्नौ नान्वानशाते प्राप्तुमसमर्थे बभूवतुः । तथा रजसोऽंतरिक्षलोकस्योपरि सिंधवः स्यंदनशीला आपो यस्येंद्रस्य तेजसोऽंतमवसानं नानशुः न प्रापुः । उतापि च सोमपानेन मदे हर्षे सति स्ववृष्टिं स्वीकृतवृष्टिं वृत्रादिं युध्यतो युध्यमानस्येंद्रस्य बलस्यांतं वृत्रादयो न प्रापुः । अतो हे इंद्र एकस्त्वमन्यत्स्वव्यतिरिक्तं विश्वं सर्वं भूतजातमानुषक् आनुषक्तं चकृषे । सकलमपि भूतजातं त्वदधीनमभूदिति भावः ॥ द्यावापृथिवी । द्यौश्च पृथिवी च दिवो द्यावा (पा ६-३-२९) इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दः षिद्गौरादिभ्यश्चेति रुद्रपूषमंथिष्विति पर्युदासान्नोत्तरपदेऽनुदात्तादाविति निषेधाभावः । व्यचः व्यचेः कुटादित्वमनसि । का १-२-१-१ । इति वचनात् । ङित्त्वाभावे संप्रसारणाभावः । आनशुः । अश्नोतेर्व्यत्ययेन परस्मैपदम् । आत आदेरित्यभ्यासस्यात्वम् । अश्नोतेश्चेति नुडागमः ॥ १४ ॥