द्यौश्चि᳚द॒स्याम᳚वा{4}॒ अहे᳚ः स्व॒नादयो᳚यवीद्भि॒यसा॒ वज्र᳚ इन्द्र ते ।
वृ॒त्रस्य॒ यद्ब᳚द्बधा॒नस्य᳚ रोदसी॒ मदे᳚ सु॒तस्य॒ शव॒साभि᳚न॒च्छिरः᳚ ॥
वृ॒त्रस्य॒ यद्ब᳚द्बधा॒नस्य᳚ रोदसी॒ मदे᳚ सु॒तस्य॒ शव॒साभि᳚न॒च्छिरः᳚ ॥
पदपाठः (Word-by-word)
द्यौः । चि॒त् । अ॒स्य॒ । अम᳚॑वान् । अहेः᳚ । स्व॒नात् । अयो᳚यवीत् । भि॒यसा᳚ । वज्रः᳚ । इ॒न्द्र॒ । ते॒ ।
वृ॒त्रस्य᳚ । यत् । ब॒द्ब॒धा॒नस्य᳚ । रो॒द॒सी॒ इति᳚ । मदे᳚ । सु॒तस्य᳚ । शव᳚सा । अभि᳚नत् । शिरः᳚ ॥
वृ॒त्रस्य᳚ । यत् । ब॒द्ब॒धा॒नस्य᳚ । रो॒द॒सी॒ इति᳚ । मदे᳚ । सु॒तस्य᳚ । शव᳚सा । अभि᳚नत् । शिरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अमवान्बलवान्द्यौश्चित् द्युलोकोऽप्यस्याहेर्वृत्रस्य स्वनाच्छब्दाद्भियसा भयेनायोयवीत् । अत्यर्थं पृथग्छूत् आसीत् । अकंपतेत्यर्थः । हे इंद्र ते तव सुतस्याभिषवादिभिः संस्कृतस्य सोमस्य पानेन मदे हर्षे जाते सति त्वदीयो वज्रो रोदसी द्यावापृथिव्यौ बद्बधानस्य बाधनशीलस्य वृत्रस्य शिरो यद्यदा शवसा बलेनाभिनत् । अच्छिनत् । तदानीं द्युलोको भयराहित्येन निश्चलो बभूवेति शेषः ॥ अयोयवीत् । यु मिश्रणामिश्रणयोः । अस्माद्यङ् लुगंताल्लङि यङो वा (पा ७-३-९४) इत्यपृक्तप्रत्ययस्येडागमः । अडागम उदात्तः । बद्बधानस्य । बाधृ विलोडने । ताच्छीलके चानशि बहुलं छंदसीति शपः श्लुः । हलादिशेषाभावो धातो र्ह्रस्वत्वं च छांदसत्वात् । चित इत्यंतोदात्तत्वं ॥ १० ॥