श्रवणम्

1.52.5 समानपद
अ॒भि स्ववृ᳚ष्टिं॒ मदे᳚ अस्य॒ युध्य᳚तो र॒घ्वीरि᳚व प्रव॒णे स᳚स्रुरू॒तयः᳚ ।
इन्द्रो॒ यद्व॒ज्री धृ॒षमा᳚णो॒ अन्ध᳚सा भि॒नद्व॒लस्य᳚ परि॒धी{4}रि᳚व त्रि॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । स्व॑वृ᳚ष्टिम् । मदे᳚ । अ॒स्य॒ । युध्य᳚तः । र॒घ्वीः॑इ᳚व । प्र॒व॒णे । स॒स्रुः॒ । ऊ॒तयः᳚ ।
इन्द्रः᳚ । यत् । व॒ज्री । धृ॒षमा᳚णः । अन्ध᳚सा । भि॒नत् । व॒लस्य᳚ । प॒रि॒धीन्॑इ᳚व । त्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतयो मरुतो मदे सोमपानेन हर्षे सत्यस्येंद्रस्य युध्यतो वृत्रेण सह युध्यमानस्य पुरतः स्ववृष्टिं स्वभूतवृष्टिमंतं वृत्रमभि अभिमुख्येन सस्रुः । जग्मुः । रघ्वीरिव प्रवणे । यथा गमनस्वभावा आपो निम्न देशे गच्छंति । यद्यदांधसा सोमलक्षणेनान्नेन पीतेन धृषमाणः प्रगल्भः सन्वज्री वज्रवानिंद्रो वलस्य संवृण्वत एतत्संज्ञ कमसुरं भिनत् । व्यदारयत् । अवधीदित्यर्थः । तत्र दृष्टांतः । त्रितः परिधीनिव । देवानां हविर्लेपनिघर्षणायाग्नेः । सकाशादप् । स्वेकतो द्वितस्त्रित इति त्रयः पुरुषा जज्ञिरे । तथा च तैत्तिरीयैः समाम्नातम् । सोऽङ्गारेणापः अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् । ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । ३-२-८-१० । इति । तत्रोदकपानार्थं प्रवृत्तस्य कूपे पतितस्य प्रतिरोधायासुरैः परिधयः परिधायकाः कूपस्याच्छादका स्थापिताः । तान्यथास अभिनत् तद्वत् ॥ स्ववृष्टिम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युध्यतः । युध संप्रहारे । दैवादिकः । व्यत्ययेन शतृ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । रघ्वीः । रघि गत्यर्थः । रंघिबंह्योर्नलोपश्च (उ १-२९) इत्युप्रत्ययः । वोतो गुणवचनादिति ङीष् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ङीष् स्वरः शिष्यते । धृषमाणः । ञिधृषा प्रागल्भे । श्नुप्रत्यये प्राप्ते व्यत्ययेन श आत्मनेपदं च । अदुपदेशाल्लसार्वधातुकासुदात्तत्वे विकरणस्वरः शिष्यते । भिनत् । लङि बहुळं छंदस्यमाङ्योगेऽपीत्यडभावः । विकरणस्वरः । यद्वृत्तयोगादनिघातः । वलस्य । वल संवरणे । वलति संवृणोति सर्वमिति वलः । पचाद्यच् । क्रियाग्रहणं कर्तव्यमिति कर्मणः । संप्रदानत्वाच्चतुथ्यर्थे षष्ठी । परिधीन् । परिधीयंत इति परिधयः । उपसर्गे घोः किः (पा ३-३-९२) इति दधातेः कर्मणि किप्रत्ययः । आतो लोप इट चेत्याकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ५ ॥