च॒कृ॒षे भूमिं᳚ प्रति॒मान॒मोज᳚सो॒॑पः स्व᳚ः परि॒भूरे॒ष्या दिव᳚म् ॥
पदपाठः (Word-by-word)
च॒कृ॒षे । भूमि᳚म् । प्र॒ति॒॑मान᳚म् । ओज᳚सः । अ॒पः । स्व१॒᳚रिति᳚ स्वः᳚ । प॒रि॒॑भूः । ए॒षि॒ । आ । दिव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे धृषन्मनः शत्रूणां धर्षकमनोयुक्तेंद्र । अस्यास्माभिः परिदृश्यमानस्य व्योमनो व्याप्तस्यांतरिक्षस्य रजसो लोकस्य पार उपरिप्रदेशे वर्तमानः स्वभूत्योजाः स्वभूतबलस्त्वमवसेऽस्मद्रक्षणार्थं भूमिं भूलोकं चकृषे कृतवानसि । किंच ओजसो बलवतां बलस्य प्रतिमानं प्रतिनिधिरछूः । तथा स्वः सुष्ठ्वरणीयं गंतव्यम् । आप इत्यंतरिक्षनाम । अपोंतरिक्षलोकं आ दिवं द्युलोकं च परिभूः परिग्रहीता । परिपूर्वो भवतिः परिग्रहणार्थः । एषि प्राप्नोषि ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । व्योमनः । अवतिर्गत्यर्थः । अव रक्षणगतिकान्तीत्यभिधानात् । विशेषेण गच्छति व्याप्नोतीति व्योम । यद्वा । वृष्टिप्रदानेन विशेषेण प्राणिनोऽवति रक्षतीति व्योम । अन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिनोपधाया वकारस्य चोट् । गुणः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । भावे मनिन् । विविधमोम रक्षणं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । स्वः । सुपूर्वादर्तेरन्येभ्योऽपि दृश्यंत इति विच् । अव्ययादाप्सुपः (पा २-४-८२) इति सुपो लुक् । न्यङ् स्वरौ स्वरितौ (फि ४-६) इति स्वरितत्वं ॥ १२ ॥