प्रथमं मण्डलम् - सूक्तम् 189

8 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.189 - सम्पूर्णम्

1 / 8
ऋक्: 1.189.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.189.1
अग्ने॒ नय᳚ सु॒पथा᳚ रा॒ये अ॒स्मान्विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् ।
यु॒यो॒ध्य१॒᳚स्मज्जु᳚हुरा॒णमेनो॒ भूयि᳚ष्ठां ते॒ नम᳚उक्तिं विधेम ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । नय᳚ । सु॒॑पथा᳚ । रा॒ये । अ॒स्मान् । विश्वा᳚नि । दे॒व॒ । व॒युना᳚नि । वि॒द्वान् ।
यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः᳚ । भूयि᳚ष्ठाम् । ते॒ । नमः᳚॑उक्तिम् । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अङ्गनादिगुणविशिष्ट देवद्योतमान विश्वानिवयुनानिसर्वाणिप्रज्ञानानि अनेनैतदनुष्ठितमि- दंप्रायणीयमितियदेतत् ज्ञानमस्ति तद्विद्वानित्यर्थः यतोविद्वन् अतस्त्वमस्मान्सुपथा शोभनेनमार्गेण रायेगन्तव्यायस्वर्गादिधनाय द्वितीयार्थेवाचतुर्थी प्रापणीयंरायंप्रतिनय तदर्थं जुहुराणंकुटिलकार्येनः पापंफलप्रतिबन्धरूपमस्मत् अस्मत्तोयुयोधिपृथक्कुरु तेतववयंभूयिष्ठांअतिप्रवृद्धांनमउक्तिंनमस्का- रोक्तिंस्तुतिंविधेम परिचरेम कुर्मः ॥ १ ॥ आयुष्कामेष्ट्यां अग्नेत्वंपारयेतिद्वेस्विष्टकृतोयाज्ये पाहिनइतिचतुर्थीअनुवाक्या पाहिनोअग्नेपायु- भिरजस्रैरग्नेत्वंपारयानव्योअस्मानितिसंयाज्येइतिसूत्रितम् एतेएवस्वस्त्ययन्यामपिसंयाज्येइतिसू- त्रितत्वात् ।

1.189.2
अग्ने॒ त्वं पा᳚रया॒ नव्यो᳚ अ॒स्मान्त्स्व॒स्तिभि॒रति᳚ दु॒र्गाणि॒ विश्वा᳚ ।
पूश्च᳚ पृ॒थ्वी ब᳚हु॒ला न᳚ उ॒र्वी भवा᳚ तो॒काय॒ तन᳚याय॒ शं योः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । त्वम् । पा॒र॒य॒ । नव्यः᳚ । अ॒स्मान् । स्व॒स्ति॑भिः᳚ । अति᳚ । दुः॒॑गानि᳚ । विश्वा᳚ ।
पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव᳚ । तो॒काय᳚ । तन᳚याय । शम् । योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंनव्योनवतरः स्तुत्योवात्वमस्मान् यागानुष्ठातॄन् पारय कर्मसमापय्यातिपारय अति- क्रामय केनसाधनेन स्वस्तिभिः अस्तिरभिपूजितःसुशब्दःशोभनवचनः अत्यन्तंपूजितैर्यज्ञादिसाधनैः कानिविश्वासर्वाणिदुर्गाणिदुर्गमनानिपापानिअनतिक्रमणीयानि दुरिताख्यानिअतिपारय किञ्च नो- स्माकंपृथुतरापूश्चपुर्यपिभवत्वितिशेषः चशब्दोवक्ष्यमाणेनसहसमुच्चयार्थः पूरितिजात्येकवचनं पुरा- ण्यपिभवंत्वित्यर्थः तथानोस्माकंउर्वीपृथ्व्यपिबहुलासस्यादिनाबहुतराभवतु त्वंतुतोकायअपत्याय तनयायपुत्राय तोकशब्दोपत्यसामान्यवचनः तनयशब्दःपुत्रवचनः शंसुखंयोर्मिश्रयिताभव यद्वारो- गाणांशमनंभयानांचभव कुर्वित्यर्थः ॥ २ ॥

1.189.3
अग्ने॒ त्वम॒स्मद्यु᳚यो॒ध्यमी᳚वा॒ अन᳚ग्नित्रा अ॒भ्यम᳚न्त कृ॒ष्टीः ।
पुन᳚र॒स्मभ्यं᳚ सुवि॒ताय᳚ देव॒ क्षां विश्वे᳚भिर॒मृते᳚भिर्यजत्र ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । त्वम् । अ॒स्मत् । यु॒यो॒धि॒ । अमी᳚वाः । अन᳚ग्नि॑त्राः । अ॒भि । अम᳚न्त । कृ॒ष्टीः ।
पुनः᳚ । अ॒स्मभ्य᳚म् । सु॒वि॒ताय᳚ । दे॒व॒ । क्षाम् । विश्वे᳚भिः । अ॒मृते᳚भिः । य॒ज॒त्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्नेत्वंअमीवाः रोगान् अस्मत् अस्मत्तोयुयोधि व्यावर्तय याअनग्नित्राः अग्निनाअपालिताः कृ- ष्टिः प्रजाः अभ्यमन्तअभिमिमते हिंसंतिअस्मान् यच्छब्दाध्याहारादनिघातः तायुयोधियुद्धतोवियो- जयः यद्वा ताः अनग्नित्राः पापिन्यः कृष्टयः प्रजाः अभ्यमन्त त्वयाभ्यमितुंअभितोरोगैः प्रापयितुमर्ह- न्ति वयंतुनतादृशाः अतोस्मत्तोवियोजयेत्यर्थः नकेवलंवियोगमात्रं अपितुपुनःपुनरिदंकर्तव्यं अस्म- भ्यंअस्मदर्थंसुवितायशोभनफलाय हेयजत्रयष्टव्यदेवद्योतमानाग्ने विश्वेभिरमृतेभिःसर्वैरमरणधर्मभिः अन्यैर्यष्टव्यैर्देवैः सह क्षांपृथिवीदेवयजनलक्षणामागच्छेतिशेषः ॥ ३ ॥ पाहिनइत्यस्याविनियोगद्वयमग्नेत्वंपारयेत्यत्रोक्तं तथाग्नेयपशावेषैवहविषोनुवाक्या तथाचसूत्रि- तं—पाहिनोअग्नेपायुभिरस्रैः प्रवः शुक्रायभानवेभरध्वमिति ।

1.189.4 समानपद
पा॒हि नो᳚ अग्ने पा॒युभि॒रज᳚स्रैरु॒त प्रि॒ये सद᳚न॒ आ शु᳚शु॒क्वान् ।
मा ते᳚ भ॒यं ज᳚रि॒तारं᳚ यविष्ठ नू॒नं वि᳚द॒न्माप॒रं स᳚हस्वः ॥
▶ पदपाठः (Word-by-word)
पा॒हि । नः॒ । अ॒ग्ने॒ । पा॒यु॑भिः᳚ । अज᳚स्रैः । उ॒त । प्रि॒ये । सद᳚ने । आ । शु॒शु॒क्वान् ।
मा । ते॒ । भ॒यम् । ज॒रि॒तार᳚म् । य॒वि॒ष्ठ॒ । नू॒नम् । वि॒द॒त् । मा । अ॒प॒रम् । स॒ह॒स्वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोस्मानजस्रैः अनवरतैरविच्छिन्नैःपायुभिः पालनप्रकारैः पाहिपालय उतअपिच प्रियेस- दनेतवप्रियभूतेयागगृहे आसर्वतः शुशुक्वान् दीप्यमानोभवेतिशेषः किञ्च हेयविष्ठ युवतम तेतवजरि- तारं गरितारंस्तोतारंमांनूनमद्यभयंमाविदत् मालभतां माप्नोतु हेसहस्वःबलवन्नग्ने अपरमपरस्मि- न्काले भयंमाविदत् अपरंमदन्यंवामाविदत् ॥ ४ ॥ अच्युतायभौमायैकपालपुरोडाशहोमेमानोअग्नइत्यनयाआशयमभिजुहोति तथाच सूत्रितम्— मानोअग्नेवसृजोअघायेत्येनमाशयेनाभिजुहोतीति ।

1.189.5
मा नो᳚ अ॒ग्ने॑व᳚ सृजो अ॒घाया᳚वि॒ष्यवे᳚ रि॒पवे᳚ दु॒च्छुना᳚यै ।
मा द॒त्वते॒ दश᳚ते॒ मादते᳚ नो॒ मा रीष᳚ते सहसाव॒न्परा᳚ दाः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒ग्ने॒ । अव᳚ । सृ॒जः॒ । अ॒घाय᳚ । अ॒वि॒ष्यवे᳚ । रि॒पवे᳚ । दु॒च्छुना᳚यै ।
मा । द॒त्वते᳚ । दश᳚ते । मा । अ॒दते᳚ । नः॒ । मा । रिष᳚ते । स॒ह॒सा॒॑व॒न् । परा᳚ । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोस्मान् अघायहिंसकायाविष्यवे अविष्यतिरत्तिकर्मा भक्षणेच्छवे दुच्छुनायै शुनंसुखंदु- ष्टसुखकारिणे दुःखकारिणइत्यर्थः तस्मैरिपवेमावसृजः मात्याक्षीः तदधीनं माकुर्वित्यर्थः तथानो- स्मान्दत्वते दंतवते दशतेखादते सर्पादयोमावसृजः तथानोस्मान् अदतेअदंतकायश्रृङ्गादिभिर्घातिने नावसृजथः तथारिषतेहिंसकायतस्करराक्षसादये हेसहसावन् सहस्विन् मपरादाः पराभूतंमादेहि स- र्वथानदेहीत्यर्थः ॥ ५ ॥

1.189.6
वि घ॒ त्वावा{4}᳚ ऋतजात यंसद्गृणा॒नो अ᳚ग्ने त॒न्वे॒३॒᳚ वरू᳚थम् ।
विश्वा᳚द्रिरि॒क्षोरु॒त वा᳚ निनि॒त्सोर᳚भि॒ह्रुता॒मसि॒ हि दे᳚व वि॒ष्पट् ॥
▶ पदपाठः (Word-by-word)
वि । घ॒ । त्वावा᳚न् । ऋ॒त॒॑जा॒त॒ । यं॒स॒त् । गृ॒णा॒नः । अ॒ग्ने॒ । त॒न्वे᳚ । वरू᳚थम् ।
विश्वा᳚त् । रि॒रि॒क्षोः । उ॒त । वा॒ । नि॒नि॒त्सोः । अ॒भि॒॑ह्रुता᳚म् । असि᳚ । हि । दे॒व॒ । वि॒ष्पट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋतजात यज्ञार्थमुत्पन्नाग्ने वरूथंवरणीयं त्वांतन्वे शरीरपोषायगृणानःस्तुवन् त्वावान् त्वयादे- वतयातद्वान् जनोविघयंसत् विमोचयतिखल्वात्मानं कस्मात्सकाशात् विश्वात्सर्वस्मात् रिरिक्षोर्हि- सितुमिच्छोश्चौरादेःसकाशात् उतवाअथवा निनित्सोः निन्दितुमिच्छ्तः हेदेव अभिह्रुतांआभिमुख्ये- नकुटिलंकुर्वतांद्विषां विष्पट् विशेषेणबाधकोसिहि अतस्त्वदनुग्रहादयंजनोवियंसत् ॥ ६ ॥

1.189.7
त्वं ता{4} अ᳚ग्न उ॒भया॒न्वि वि॒द्वान्वेषि᳚ प्रपि॒त्वे मनु᳚षो यजत्र ।
अ॒भि॒पि॒त्वे मन᳚वे॒ शास्यो᳚ भूर्मर्मृ॒जेन्य᳚ उ॒शिग्भि॒र्नाक्रः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ताम् । अ॒ग्ने॒ । उ॒भया᳚न् । वि । वि॒द्वान् । वेषि᳚ । प्र॒॑पि॒त्वे । मनु᳚षः । य॒ज॒त्र॒ ।
अ॒भि॒॑पि॒त्वे । मन᳚वे । शास्यः᳚ । भूः॒ । म॒र्मृ॒जेन्यः᳚ । उ॒शिक्॑भिः᳚ । न । अ॒क्रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजत्रयष्टव्याग्ने त्वंतान् यष्टृनयष्टृंश्चोभयान् मनुषोमनुष्यान् विविविच्यविद्वान् जानन् प्रपित्वेस- न्निहितएवकालेवेषि कामयसे यष्टृन् तथाकुर्वन् अक्रः आक्रमितात्वं मनवे षष्ठ्यर्थेचतुर्थी मनुष्यस्य- यजमानस्यअभिपित्वे अभिप्रप्तकालेअभिगमनवतियज्ञेवाशास्येवाशास्योभूः शिक्षणीयोभव इदंकु- र्विदंकुर्वितिविधेयोभव तत्रदृष्टान्तः—मर्मृजेन्यः शोधयितायजमानः उशिग्भिर्न कामयमानैरृत्वि- ग्भिरिव ॥ ७ ॥

1.189.8
अवो᳚चाम नि॒वच᳚नान्यस्मि॒न्मान᳚स्य सू॒नुः स᳚हसा॒ने अ॒ग्नौ ।
व॒यं स॒हस्र॒मृषि᳚भिः सनेम वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
अवो᳚चाम । नि॒॑वच᳚नानि । अ॒स्मि॒न् । मान᳚स्य । सू॒नुः । स॒ह॒सा॒ने । अ॒ग्नौ ।
व॒यम् । स॒हस्र᳚म् । ऋषि᳚॑भिः । स॒ने॒म॒ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयंअस्मिन्नग्नौनिवचनानिनियमपूर्वकाणिवचांसिस्तोत्ररूपाणिअवोचामब्रूमः अग्निर्विशेष्यते मानस्यसूनुः मीयतइतिमानोमन्त्रः तस्यसूनुरग्निः मन्त्रेणोत्पाद्यमानत्वात् सप्तम्यर्थेप्रथमा मानस्य- सूनौ सहसानेशत्रूणामभिभवितरिअग्नौअवोचाम वयमेभिरृषिभिरतीन्द्रियार्थप्रकाशकैर्मन्त्रैःसाधनैः सहस्रमपरिमितंधनं सनेम संभजेमहि विद्यामेतिगतम् ॥ ८ ॥

अनर्वाणमित्यष्टर्चमेकादशंसूक्तमागस्त्यंबार्हस्पत्यंत्रैष्टुभं अनर्वाणंबार्हस्पत्यमित्यनुक्रान्तम् श्रौत- विनियोगोलैङ्गिकः अत्रशौकः—स्नात्वाजपेदनर्वाणंनमस्कृत्यबृहस्पतिम् । वीरान् धनंचप्राप्नोतिसौ- श्लोक्यंचनियच्छतीति ।