प्रथमं मण्डलम् - सूक्तम् 97

8 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: अग्निरग्निः शुचिर्वा छन्दः: गायत्री

सूक्तम् 1.97 - सम्पूर्णम्

1 / 8
ऋक्: 1.97.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.97.1
अप᳚ न॒ः शोशु᳚चद॒घमग्ने᳚ शुशु॒ग्ध्या र॒यिम् ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् । अग्ने᳚ । शु॒शु॒ग्धि । आ । र॒यिम् ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप न इत्यष्वर्चं चतुर्थं सूक्तं कुत्सस्यार्षं गायत्रम् । शुचिगुणकोऽग्निः शुद्धोऽग्निर्वा देवता । तथा चानुक्रांतम् । अप नोऽष्टौ शुचये गायत्रमिति ॥ विनियोगो लैंगिकः ॥ अत्रेदमाख्यानम् । दीर्घजिह्वी नाम राक्षसी सर्वान्यज्ञान्बबाधे । तां हंतुमिंद्रोऽशक्तः सन् सर्वस्य मित्रभूतं कुत्समब्रवीदेषा त्वया हंतव्येति । स चावधीत् । तं वागभ्यवदत् अनुचितमिदं त्वया चरितं यत्त्वं सर्वेषां मित्रभूतः सन् क्रूरमकार्षीरिति । तमृषिं शोकः प्राप्नोत् । स ऋषिरनेन सूक्तेनाग्निं स्तुत्वा शोकमपागमयत् । तथा च तांडकम् । दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत् तामिंद्रः कया चन मायया हंतुं नाशंसत् अथ ह सुमित्रः कुत्सः कल्याण आस । तमब्रवीदित्यादि । तां १३-६-९ । तस्मादेतत्सूक्तं शुगपनयनाय विनियोज्यम् । अत एव हि सूत्रकारेण भारद्वाजेन दशमेऽहनि कर्तव्ये शांतिकर्मणि यजुर्वेदे पठितमेतत्सूक्तं विनियुज्यते । नव च स्रुवाहुतीरप नः शोशुचदघमिति ॥

हे अग्ने नोऽस्माकमघं पापमप शोशुचत् । अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा । अस्मदीयं पापं शोशुचत् । शोकग्रस्तं सद्विनश्यतु । अपि चास्माकं रयिं धनमा समंताच्छुशुग्धि । प्रकाशय । उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते । अवश्यमस्माकमघं विनश्यत्विति ॥ शोशुचत् । शुचशोके । अस्माद्यङ् लुगंताल्लेट्यडागमः । अदादिवच्चेति वचनाच्छपो लुक् । आभ्यस्तानामादिरित्याद्युदात्तत्वम् । अघं शोशुचच्च रयिं शुशुग्धि चेति चार्थप्रतीतेश्चादिलोपे विभाषेति निघातप्रतिषेधः । शुशुग्धि । शुच दीप्तौ । लोट बहुलं छंदसीति शपः श्लुः । हुझल्भ्यो हेर्धिः । चोः कुरिति कुत्वं ॥ १ ॥

1.97.2
सु॒क्षे॒त्रि॒या सु᳚गातु॒या व᳚सू॒या च᳚ यजामहे ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
सु॒॑क्षे॒त्रि॒या । सु॒गा॒तु॒॑या । व॒सु॒॑या । च॒ । य॒जा॒म॒हे॒ ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुक्षेत्रिया शोभनक्षेत्रेच्छया सुगातया शोभनमार्गेच्छया वसूया च धनेच्छया निमित्तभूतया च यजामहे । अग्निं हविर्भिः पूजयामः । यद्वा । सुक्षेत्रिया देवयजनलक्षणशोभनदेशसंबंधिना हविषाग्निं यजामहे । नोऽस्माकमघमप शोशुचत् । विनश्युतु ॥ सुक्षेत्रिया । शोभनं क्षेत्रं सुक्षेत्रम् । तद्विषयेच्छासुक्षेत्रिया । सुप आत्मनः क्यच् । न छंदस्य पुत्रस्येतीत्वदीर्घयोर्निषेधः । व्यत्यये नेत्वम् । क्यजंतात् अ प्रत्ययादिति भावेऽकारप्रत्ययः । ततष्टाप् । सुपां सुलुगिति तृतीयाया लुक् । एवमुत्तरत्रापि । यद्वा शोभनं क्षेत्रमस्यास्तीति सुक्षेत्रम् । इयाडियाजीकाराणामुपसंख्यानम् । पा ७-१-३९-१ । इति तृतीयाया डियाजादेशः ॥ २ ॥

1.97.3
प्र यद्भन्दि᳚ष्ठ एषां॒ प्रास्माका᳚सश्च सू॒रयः᳚ ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । भन्दि᳚ष्ठः । ए॒षा॒म् । प्र । अ॒स्माका᳚सः । च॒ । सू॒रयः᳚ ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यथैषां स्तोतृणां मध्येऽयं कुत्सः प्रभंदिष्ठः प्रकर्षेण स्तोतृतमः एवमस्माकास आस्माकीनाः सूरयः स्तोतारश्च प्रकर्षेण स्तोतृतमा भवंति । अन्यत्समानं ॥ भंदिष्ठः । भंदतिः स्तुतिकर्मा । भदि कल्याणे सुखे चेति तु धातुः । अस्मात्तृजंतात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृलोपः । अस्माकासः । अस्माकं संबंधिनोऽस्माकाः । तस्मिन्नणि च युष्माकास्माकौ (पा ४-३-२) इत्यस्माकादेशः । छांदसोऽण्प्रत्ययस्य लोपः । संज्ञा पूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । आज्जसेरसुक् । स्थानिवदादेशेऽपि मकारात्परस्याकारस्योदात्तत्वम् । यद्वा । षष्ठीबहुवचनेऽस्माकंशब्दस्य मध्योदात्तस्य दृष्टत्वात्स एवाचार्येणातिदिश्यते ॥ ३ ॥

1.97.4
प्र यत्ते᳚ अग्ने सू॒रयो॒ जाये᳚महि॒ प्र ते᳚ व॒यम् ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रयः᳚ । जाये᳚महि । प्र । ते॒ । व॒यम् ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यद्यस्मात्ते तव सूरयः स्तोतारः प्रजायंते । पुत्रपौत्रादिरूपेण बहुविधा भवंति । ततो वयं च ते तव स्तोतारः संतः प्रजायेमहि । पुत्रपौत्रादिभिरुपेता भवेम ॥ जायेमहि । प्रार्थनायां लिङ् । श्यनि ज्ञाजनोर्ज्ञेति जादेशः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

1.97.5
प्र यद॒ग्नेः सह᳚स्वतो वि॒श्वतो॒ यन्ति᳚ भा॒नवः᳚ ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । अ॒ग्नेः । सह᳚स्वतः । वि॒श्वतः᳚ । यन्ति᳚ । भा॒नवः᳚ ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्वतः सहनवतः शत्रॊनभिभवतोऽग्नेर्भानवो दीप्तयो विश्वतः सर्वतः सर्वस्मादपि प्रदेशात्प्रयंति । प्रकर्षेणोद्गच्छंति । यद्यस्मादेवं तस्मात्तेनाग्नितेजसास्मदीयमघं नश्यतु ॥ यंति । इणो यण् (पा ६-४-८१) इति यणादेशः ॥ ५ ॥

1.97.6
त्वं हि वि᳚श्वतोमुख वि॒श्वतः᳚ परि॒भूरसि᳚ ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । वि॒श्व॒तः॒॑मु॒ख॒ । वि॒श्वतः᳚ । प॒रि॒॑भूः । असि᳚ ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं हि त्वं खलु विश्वतोमुखः सर्वतोज्वालः । तव मुखस्थानीयानां ज्वालानां न कुत्रापि प्रतिहतिरस्ति । अतो हे विश्वतोमुखाग्ने विश्वतः सर्वतः सर्वस्मादप्युपद्रवजातात्परिभूरसि । अस्माकं परिग्रहीता भव । रक्षको भवेत्यर्थः । अन्यत्समानं ॥ ६ ॥

1.97.7
द्विषो᳚ नो विश्वतोमु॒खाति᳚ ना॒वेव᳚ पारय ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
द्विषः᳚ । नः॒ । वि॒श्व॒तः॒॑मु॒ख॒ । अति᳚ । ना॒वा॑इ᳚व । पा॒र॒य॒ ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वतोमुख सर्वतोमुखाग्ने नावेव नावा नदीमिव द्विषः शत्रून्नोऽस्मानति पारय । अतिक्रमय्य शत्रुरहितं प्रदेशं प्रापय ॥ नावेव सावेकाच इति विभक्तेरुदात्तत्वम् । पारय । पार तीर कर्मसमाप्तौ ॥ ७ ॥

1.97.8
स न॒ः सिन्धु᳚मिव ना॒वयाति᳚ पर्षा स्व॒स्तये᳚ ।
अप᳚ न॒ः शोशु᳚चद॒घम् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । सिन्धु᳚म्॑इव । ना॒वया᳚ । अति᳚ । प॒र्ष॒ । स्व॒स्तये᳚ ।
अप᳚ । नः॒ । शोशु᳚चत् । अ॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्त एवार्थः पुनरपि दार्ढ्याय प्रार्थ्यते । हे आग्ने स त्वं नोऽस्मा न्नावया नावा सिंधुमिव नदीमिव स्वस्तये क्षेमार्थमतिपर्ष । शत्रूनतिक्रमय्य पालय । शत्रुरहितं प्रदेशमस्मान्प्रापयेत्यर्थः । त्वत्प्रसादान्नोऽस्माकमघं पापं चाप शोशुचत् । अस्मत्तोऽपक्रम्यास्मच्छत्रुः शोकयुक्तो भवतु ॥ नावया । आङयाजयारावं चोपसंख्यानम् । म ७-१-३९-१ । इति तृतीयाया अयारादेशः । उपोत्तमं रिति (पा ६-१-२१७) इत्यकारस्योदात्तत्वम् । पर्ष । पृ पालनपूरणयोः । लोट बहुलं छंदसीति शपः श्लोरभावः । सिब्बहुलं लेटीति बहुलवचनात्सिप् । गुणः द्व्यचोऽतस्तिङ इति दीर्घत्वं ॥ ८ ॥