प्रथमं मण्डलम् - सूक्तम् 35

11 ऋचः

ऋषिः: हिरण्यस्तूप आंगिरसः देवता: अग्निः, मित्रावरुणौ;रात्रिः, सविता छन्दः: जगती

सूक्तम् 1.35 - सम्पूर्णम्

1 / 11
ऋक्: 1.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.35.1 समानपद
ह्वया᳚म्य॒ग्निं प्र᳚थ॒मं स्व॒स्तये॒ ह्वया᳚मि मि॒त्रावरु᳚णावि॒हाव᳚से ।
ह्वया᳚मि॒ रात्रीं॒ जग᳚तो नि॒वेश᳚नीं॒ ह्वया᳚मि दे॒वं स᳚वि॒तार᳚मू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
ह्वया᳚मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये । ह्वया᳚मि । मि॒त्रावरु᳚णौ । इ॒ह । अव᳚से ।
ह्वया᳚मि । रात्री᳚म् । जग᳚तः । नि॒॑वेश᳚नीम् । ह्वया᳚मि । दे॒वम् । स॒वि॒तार᳚म् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वस्वयेऽस्माकमविनाशाय । स्वस्तीत्यविनाशनाम (नि ३-२१) इति यास्कः । प्रथममादावग्निं ह्वयामि । इहास्मिन्कर्मण्यवसेऽस्मद्रक्षणा मित्रावरुणौ ह्वयामि । जगतो जंगमस्य प्राणिजातस्य निवेशनीमुपवेशनहेतुभूतां रात्रीं रात्रिदेवतां ह्वयामि । जंगमाः सर्वे प्राणिनो दिवसे स्वस्वव्यापारान्कृत्वा स्वस्वगृहे रात्रावुपविशंशीति प्रसिद्धम् । ऊतयेऽस्मद्रक्षणार्थं सवितारं देवं ह्वयामि ॥ मित्रावरुणौ । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । रात्रीम् । रात्रेश्चाजसौ (पा ४-१-३१) इति ङीप् । निवेशनीम् । निविशंत्यस्यामिति निवेशनी । करणाधिकरणयोश्चेति ल्युट् । टढ्ढाणञित्यादिना (पा ४-१-१५) ङीप् । ऊतये अवतेः क्तिनि ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । ऊतियूतीत्यादिना क्तिना उदात्तत्वं ॥ १ ॥

1.35.2 समानपद
आ कृ॒ष्णेन॒ रज᳚सा॒ वर्त᳚मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च ।
हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव᳚नानि॒ पश्य᳚न् ॥
▶ पदपाठः (Word-by-word)
आ । कृ॒ष्णेन᳚ । रज᳚सा । वर्त᳚मानः । नि॒॑वे॒शय᳚न् । अ॒मृत᳚म् । मर्त्य᳚म् । च॒ ।
हि॒र॒ण्यये᳚न । स॒वि॒ता । रथे᳚न । आ । दे॒वः । या॒ति॒ । भुव᳚नानि । पश्य᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता सूर्यः कृष्णेन रजसा कृष्णवर्णेन लोकेन । कृष्णं कृष्यतेर्निकृष्टो वर्णः (नि २-२०) इति यास्कः । लोका रजांस्युच्यंते (नि ४-१९) इति च । अंतरिक्षलोको हि सूर्यगमनात्पुरा कृष्णवर्णो भवति । तेनांतरिक्षमार्गेणा वर्तमानः पुनःपुनरागच्छन् । अमृतं देवं मर्त्यं मनुष्यं च निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यद्वा । अमृतं मरणरहितः प्राणं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यककांडे अमर्त्यो मर्त्यॆना सयोनिरित्येतस्य मंत्रभागस्य वाख्यानरूपे ब्राह्मणे यथोक्तोऽर्थोऽवगम्यते । मर्त्यानि हीमानि शरीराणि अमृतैषा देवता । ऐ आ २-१-८ । इति । यथोक्तगुणोपेतः सविता देवो भुवनानि सर्वान् लोकान्पश्यन् अवेक्षमाणः । प्रकाशयन्नित्यर्थः । हिरण्ययेन सुवर्णनिर्मितेन रथेना याति । अस्मत्समीपमागच्छति ॥ अमृतम् । मृतं मरणं नास्त्यस्येति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्यदात्तत्वम् । मर्त्यम् । मर्ते भवम् । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । हिरण्ययेन । ऋत्व्यवास्त्व्येत्यादिना (पा ६-४-१७५) मयटो मकारलोपो निपातितः । यस्येति लोपे प्रत्ययस्वरः । भुवनानि । भू सत्तायाम् । भूधूसूभ्रस्जिभ्यश्छंदसि (उ २-८०) इति क्युन्प्रत्ययः । योरनादेश उवङादेशः । नित्त्वादाद्युदात्तत्वं ॥ २ ॥

1.35.3 समानपद
याति᳚ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति᳚ शु॒भ्राभ्यां᳚ यज॒तो हरि᳚भ्याम् ।
आ दे॒वो या᳚ति सवि॒ता प᳚रा॒वतो॑प॒ विश्वा᳚ दुरि॒ता बाध᳚मानः ॥
▶ पदपाठः (Word-by-word)
याति᳚ । दे॒वः । प्र॒॑वता᳚ । याति᳚ । उ॒त्॑वता᳚ । याति᳚ । शु॒भ्राभ्या᳚म् । य॒ज॒तः । हरि᳚॑भ्याम् ।
आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒॑वतः᳚ । अप᳚ । विश्वा᳚ । दुः॒॑इ॒ता । बाध᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो दीप्यमानः सविता प्रवता प्रवणवता मार्गेण याति । गच्छति । तथोद्वतोत्कृष्टेनोर्ध्वदेशयुक्तेन मार्गेण याति । उदयानंतरं आ मध्याह्नमूर्ध्वो मार्गः । तत उपरि आ सायं प्रवणो मार्ग इति विवेकः । तथा यजतो यष्टव्यः स देवः शुभ्राभ्यां श्वेताभ्यां हरिभ्यामश्वाभ्यां याति । देवयजनदेशे गच्छति । सविता देवो विश्वा दुरिता सर्वाणि पापान्यप बाधमानो विनाशयन् परावतो दूरदेशात् । परावत इति दूरनामसु पठितत्वात् । तादृशाद्द्यु लोकादायाति । यागदेश आगच्छति ॥ प्रवता । वन षण संभक्तौ । अस्मात्प्रपूर्वात्क्विप् । गमादीनामिति वक्तव्यम् । पा ६-४-४०-१ । इत्यनुनासिकलोपः । ततस्तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । उद्वता । उत्पूर्वाद्वनतेः पूर्ववत्प्रक्रिया । यजतः । भृमृदृशीत्यादिना (उ ३-११०) यजतेः कर्मण्यतच् प्रत्ययः । विश्वा दुरिता । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः ॥ ३ ॥

1.35.4
अ॒भीवृ᳚तं॒ कृश᳚नैर्वि॒श्वरू᳚पं॒ हिर᳚ण्यशम्यं यज॒तो बृ॒हन्त᳚म् ।
आस्था॒द्रथं᳚ सवि॒ता चि॒त्रभा᳚नुः कृ॒ष्णा रजां᳚सि॒ तवि᳚षीं॒ दधा᳚नः ॥
▶ पदपाठः (Word-by-word)
अ॒भि॑वृ᳚तम् । कृश᳚नैः । वि॒श्व॑रू᳚पम् । हिर᳚ण्य॑शम्यम् । य॒ज॒तः । बृ॒हन्त᳚म् ।
आ । अ॒स्था॒त् । रथ᳚म् । स॒वि॒ता । चि॒त्र॑भा᳚नुः । कृ॒ष्णा । रजां᳚सि । तवि᳚षीम् । दधा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता रथमास्थात् । आस्थितवान् । आरूढवानित्यर्थः । कीदृशम् । अभीवृतं अभितो वर्तमानम् । तथा कृशनैर्विश्वरूपं सुवर्णेन नानारूपम् । कृशनं लोहमिति सुवर्णनामसु पाठात् । क्वचित्सुवर्णनिर्मितगजपंक्तिः क्वचिदश्वपंक्तिः क्वचिन्मनुष्यपंक्तिरित्येवं बहुरूपत्वम् । हिरण्यशम्यम् । अश्वानां स्कंधेषु रथयोजनवेलायां नियंतुं प्रक्ष्येप्यमाणाः शंकवः शम्याः । ताः सुवर्णमय्यो रथे वर्तंते । बृहंतं प्रौढम् । कीदृशः सविता । यजतो यष्टव्यः । चित्रभानुर्विविधरश्मियुक्तः कृष्णा रजांस्यंधकारयुक्ततया कृष्णवर्णान् लोकानुद्दिस्य तमोनिवारर्णार्थं तविषीं बलं स्वकीयं प्रकाशरूपं दधानः । अभीवृतम् । अभितो वर्तत इत्यभीवृत् । वृतु वर्तने । क्विपि नहिवृतीत्यादिना (पा ६-३-११६) पूर्वपदस्य दीर्घत्वम् । विश्वरूपम् । विश्वानि रूपाणि यस्यासौ विश्वरूपः । बहुव्रीहौ विश्वं संज्ञायामिति व्यत्ययेनासंज्ञायामपि पूर्वपदांतोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकांत्योः । हर्यतेः कन्यन् हिर च (उ ५-४४) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदपकृतिस्वरत्वम् । आस्थात् । तिष्ठतेर्लुङि गातिसेति सिचो लुक् । कृष्णा । कृषेर्वर्णे (उ ३-४) इति नक्प्रत्ययः । शेश्छंदसि बहुलमिति शेर्लोपः । तविषीम् । तवतिः सौत्रो धातुः । तवतेर्णिद्वा (उ १-४९) इति टषच् । टत्त्वाट्टड्ढाणञित्यादिना ङीप् । व्यत्ययेनाद्युदात्तत्वं वृषादित्वाद्द्रष्टव्यम् । दधानः । शानच्यभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ४ ॥

1.35.5 समानपद
वि जना᳚ञ्छ्या॒वाः शि᳚ति॒पादो᳚ अख्य॒न्रथं॒ हिर᳚ण्यप्रउगं॒ वह᳚न्तः ।
शश्व॒द्विशः᳚ सवि॒तुर्दैव्य᳚स्यो॒पस्थे॒ विश्वा॒ भुव᳚नानि तस्थुः ॥
▶ पदपाठः (Word-by-word)
वि । जना᳚न् । श्या॒वाः । शि॒ति॒॑पादः᳚ । अ॒ख्य॒न् । रथ᳚म् । हिर᳚ण्य॑प्र॑उग॒म् । वह᳚न्तः ।
शश्व᳚त् । विशः᳚ । स॒वि॒तुः । दैव्य᳚स्य । उ॒प॑स्थे᳚ । विश्वा᳚ । भुव᳚नानि । त॒स्थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्यावा एतन्नामकाः सूर्यस्याश्वाः । श्यावाः सवितुरिति निघंटावुक्तत्वात् । ते च शितिपादः श्वेतैः पादैरुपेता हिरण्यप्रउगम् । रथस्य मुखमीषयोरग्रं युगबंधनस्थानं प्रउगमित्युच्यते । तच्चात्र सुवर्णमयम् । तद्युक्तं रथं वहंतो जनान्प्राणिनो व्यख्यन् । विशेषेण प्रकाशितवंत इत्यर्थः । शश्वत् सर्वदा विशः प्रजा दैव्यस्येतरदेवसंबंधिनः सवितुः प्रेरकस्य सूर्यस्योपस्थे समीपस्थाने तस्थुः । स्थितवत्यः । न केवलं प्रजाः किं तर्हि विश्वा भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तसुः । शितिपादः । शितयः श्वेतवर्णाः पादा येषां ते शितिपादाः । सुपां सुलुगिति जसः सुआदेशः । यद्वा । शितिः श्वेतवर्णः स्फाटकादिः । स इव पादो येषां ते । पादस्य लोपोऽहस्त्यादिभ्यः (पा ५-४-१३८) इति समासांतपादशब्दस्यांत्यलोपः । उपमानादिति हि तत्रानुवर्तते । पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य बहुव्रीहौ समासे शितेर्नित्याबहूज्बहूव्रीहावभसत् (पा ६-२-१३८) इत्युत्तरपदप्रकृतिस्वरत्वम् । अख्यन् । ख्यातेर्लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः । हिरण्य प्रउगम् । बहुव्रीहौ पूर्वपदपृकृतिस्वरत्वम् । वहंतः । शपः पित्त्वादनुदात्तत्वम् । शतुश्चलसार्वधातुकस्वरेण धातुस्वरः । दैव्यस्य । तस्येदमित्यर्थे देवाद्य ञञौ । पा ४-१-८५-३ । इति देवशब्दात्प्राग्दीव्यतीयो यञ् । तद्धितेष्वचामादेरित्यादिवृद्धिः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । उपस्थे । आतश्चोपसर्ग इति कः । आतो लोप इट चेत्याकारलोपः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥ ५ ॥

1.35.6
ति॒स्रो द्यावः᳚ सवि॒तुर्द्वा उ॒पस्था{4}॒ एका᳚ य॒मस्य॒ भुव᳚ने विरा॒षाट् ।
आ॒णिं न रथ्य᳚म॒मृताधि᳚ तस्थुरि॒ह ब्र᳚वीतु॒ य उ॒ तच्चिके᳚तत् ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । द्यावः᳚ । स॒वि॒तुः । द्वौ । उ॒प॑स्था᳚ । एका᳚ । य॒मस्य᳚ । भुव᳚ने । वि॒रा॒षाट् ।
आ॒णिम् । न । रथ्य᳚म् । अ॒मृता᳚ । अधि᳚ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति᳚ । तत् । चिके᳚तत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यावः स्वर्गोपलक्षिताः प्रकाशमाना लोकास्तिस्रस्त्रिसंख्याकाः संति ॥ तत्र द्वौ लोकौ सवितुः सूर्यस्योपस्था समीपस्थाने वर्तेते । द्युलोकभूलोकयोः सूर्येण प्रकाशितत्वात् । एका मध्यमा भूमिरंतरिक्षलोको यमस्य भुवनॆपितृपतेर्गृहे विराषाट् । विरान् गंतृन्सहते । प्रेताः पुरुषा अंतरिक्षमार्गेण यमलोके गच्छंतीत्यर्थः । अमृतामृतानि चंद्रनक्षत्रादीनि ज्योतींषि जलानि वाधि तस्तुः । सवितारमधिगम्य स्थितानि । तत्र दृष्टांतः । रथ्यमाणिं न । रथाद्बहिरक्षच्छिद्रे प्रक्षिप्तः कीलविशेष आणिरित्युच्यते । रथसंबंधिनमाणिमधिगम्य यथा रथस्तिष्ठति तद्वत् । यस्तु मानवस्तत्सवितृरूपं चिकेतत् जानाति स मानव इहास्मिन्विषये ब्रवीतु । कथयतु । केनापि वक्तुमशक्यः सवितुर्महिमेत्यर्थः ॥ तिस्रः । तिसृभ्यो जसः (पा ६-१-१६) इति विभक्तेरुदात्तत्वम् । द्वौ । संहितायामावादेशे लोप शाकल्यस्येति वकारलोपः । उपस्था । आङयाजयारां चोपसंख्यानम् । म ७-१-३९-१ । इति सप्तम्या आङादेशः । आङोऽनुनासिकश्छंदसि (पा ६-१-१२६) इति प्रकृतिभावः । विराषाट् । वृञ् वरणे । घइर्थे कविधानम् । पा ३-३-५८-४ । इति कर्मणि कः । बहुलं छंदसि (पा ७-१-१०३) इतीत्वम् । तथा सति वूर्यंत इति विरा इत्युक्तं भवति । तान्सहत इति विराषाट् । छंदसि सहः (पा ३-२-६३) इति सहेर्ण्विः । सहेः साडः (पा ८-३-५६) इति षत्वम् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः । रथ्यम् । रथस्येदं रथ्यम् । रथाद्यत् (पा ४-३-१२१) इति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अमृता । शेश्छंदसि बहुलमिति शेर्लोपः । चिकेतत् । कित ज्ञाने । लेट्यडागमः । इतश्च लोप इतीकारलोपः । जुहोत्यादित्वात् श्लुः । लघूपधगुणः । अनुदात्ते च (पा ६-१-१९०) इत्यभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ६ ॥

1.35.7
वि सु᳚प॒र्णो अ॒न्तरि᳚क्षाण्यख्यद्गभी॒रवे᳚पा॒ असु᳚रः सुनी॒थः ।
क्वे॒३॒᳚दानीं॒ सूर्य॒ः कश्चि᳚केत कत॒मां द्यां र॒श्मिर॒स्या त᳚तान ॥
▶ पदपाठः (Word-by-word)
वि । सु॒॑प॒र्णः । अ॒न्तरि᳚क्षाणि । अ॒ख्य॒त् । ग॒भी॒र॑वे᳚पाः । असु᳚रः । सु॒॑नी॒थः ।
क्व᳚ । इ॒दानी᳚म् । सूर्यः᳚ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । सुपर्णा इति पंचदश रश्मिनामानीति तन्नामसु पठितत्वात् । अंतरिक्षाण्यंतरिक्षोपलक्षितानि लोत्रयस्थानानि व्यख्यत् । विशेषेण ख्यापितवान् प्रकाशितवान् । कीदृशो रश्मिः । गभीरवेपा गंभीरकंपनः । रश्मे प्रकंपनं चलनं केनापि द्रष्टुमशक्यमित्यर्थः । असुरः सर्वेषां प्राणदः । तथा चान्यत्राम्नायते । सर्वेषां भूतानां प्राणानादायोदेतीति । सुनीथः सुनयनः शोभनप्रापणः । मार्गप्रकाशनेनाभीष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः सूर्य इदानीं रात्रौ क्व कुत्र वर्तते । तदेतद्रहस्यं कश्चिकेत को जानाति । न कोऽपीत्यर्थः । अस्य सूर्यस्य रश्मिः कतमां द्यामा ततान । कं द्युलोकं रात्रौ व्याप्तवान् । एतदपि को जानाति ॥ सुपर्णः नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । गभीरवेपाः । टुवेपृ कंपने । असुन् । गभीरं वेपो यस्य । पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे । अस्यति शत्रूनित्यसुरः । असेरुरन् (उ १-४३) नित्त्वादाद्युदात्तत्वम् । यद्वा । असून्प्राणान्राति ददातीत्यसुरः । आतोऽनुपसर्गे क इति कप्रत्ययः सुनीथः । णीञ् प्रापणे । हनिकुषिनीरमिकाशिभ्यः क्थन् (उ २-२) इति क्थन् । प्रादिमासे थाथादिनोत्तरपदांतोदात्तत्वम् । इदानीम् । इदंशब्दात्सप्तम्यर्थे दानीं च (पा ५-३-१८) इति दानींप्रत्ययः । इदम इशितीदंशब्दस्येशादेशः । प्रत्ययाद्युदात्तत्वम् । सूर्यः । षू प्रेरणे । सुवतीति सूर्यः । राजसूयसूर्येत्यादिना रुडागमसहितः क्यप्प्रत्यो निपातितः । प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत । कित ज्ञाने । लिट् । कतमाम् । किंजातीयां वा बहूनां जातिपरिप्रश्ने डतमच् (पा ५-३-९३) इति किंशब्दात् डतमच् । डित्वाट्विलोपः चित इत्यंतोदात्तत्वं ॥ ७ ॥

1.35.8
अ॒ष्टौ व्य᳚ख्यत्क॒कुभः᳚ पृथि॒व्यास्त्री धन्व॒ योज᳚ना स॒प्त सिन्धू᳚न् ।
हि॒र॒ण्या॒क्षः स᳚वि॒ता दे॒व आगा॒द्दध॒द्रत्ना᳚ दा॒शुषे॒ वार्या᳚णि ॥
▶ पदपाठः (Word-by-word)
अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः᳚ । पृ॒थि॒व्याः । त्री । धन्व᳚ । योज᳚ना । स॒प्त । सिन्धू᳚न् ।
हि॒र॒ण्य॒॑अ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध᳚त् । रत्ना᳚ । दा॒शुषे᳚ । वार्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृथिव्याः संबंधिनीरष्टौ ककुभः प्राच्याद्याश्चतस्रो दिश आग्नेय्याद्याश्चतस्रो विदिश इत्येवमष्टौ दिशो व्यख्यत् । सविता प्रकाशितवान् । तथा योजना प्राणिनः स्वस्वभोगेन योजयितृन्धन्व अंतरिक्षोपलक्षितान् त्री त्रिसंख्याकान्पृथिव्यादिलोकान् सप्त सिंधून् गंगादिनदीः समुद्रान्वा सविता व्यख्यत् । हिरण्याक्षः । हितरमणीयचक्षुर्युक्तो हिरण्यमयाक्षो वा सविता देव आगात् । इहागच्छतु । किं कुर्वन् । दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणीयानि रत्नानि दधत् । प्रयच्छन् ॥ अख्यत् । ख्यातेर्लुङ्यस्यतिवक्तीत्यादीना च्लेरङादेशः । त्री । शेश्छंदसि बहुलमिति शेर्लोपः । धन्व । रिवि रवि धवि गत्यर्थाः । इदितो नुम् धातोरिति नुम् । अस्मात्कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिव इति कनिन् । सुपां सुलुगिति विभक्तेर्लुक् । न लोपः । प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । योजना । योजयंति प्राणिन उपभोगेनेति योजनानि नंद्यादिलक्षणो ल्युः । णेरनिटीति णिलोपः । पूर्ववच्छेर्लोपः । हिरण्याक्षः । हिरण्यमयान्यक्षीणि यस्यासौ हिरण्याक्षः । बहुव्रीहौ सक्थ्यक्ष्णो (पा ५-४-११३) इति समासांतः षच् प्रत्ययः । अगात् । एतेलुङिणो गा लुङि (पा २-४-४५) इति गादेशः । गातिस्थेति सिचो लुक् । दधत् । शतरि नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । श्नाभ्यस्तयोरात इत्याकारलोपः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । दाशुषे । दाश्वान्साह्वानित्यादिना क्वसुप्रत्ययांतो निपातितः । चतुर्थ्यॆकवचने वसोः संप्रसारणमिति संप्रसारणं ॥ परपूर्वत्वम् । शासिवसिघसीनां चेति षत्वम् । वार्याणि । वृङ् संभक्तौ । ऋह लोर्ण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वं ॥ ८ ॥

1.35.9
हिर᳚ण्यपाणिः सवि॒ता विच᳚र्षणिरु॒भे द्यावा᳚पृथि॒वी अ॒न्तरी᳚यते ।
अपामी᳚वां॒ बाध᳚ते॒ वेति॒ सूर्य᳚म॒भि कृ॒ष्णेन॒ रज᳚सा॒ द्यामृ᳚णोति ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑पाणिः । स॒वि॒ता । वि॑च᳚र्षणिः । उ॒भे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । अ॒न्तः । ई॒य॒ते॒ ।
अप᳚ । अमी᳚वाम् । बाध᳚ते । वेति᳚ । सूर्य᳚म् । अ॒भि । कृ॒ष्णेन᳚ । रज᳚सा । द्याम् । ऋ॒णो॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः पश्यत्यर्थः । विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । सविता देव उभे द्यावापृथिवी अंत उभयोर्लोकयोर्मध्य ईयते । गच्छति । अमीवां रोगादिबाधामप बाधते । सम्यग्निराकरोति । तथा । सूर्यं वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गंतृगंतव्यभावः । कृष्णेन तमसः । कर्षकेण निवर्तकेन रजसा तेजसा द्यामाकाशमभ्यृणोति । सर्वतो व्याप्नोति ॥ व्यावापृथिवी । दिवसश्च पृथिव्याम् (पा ६-३-३०) इति चशब्दाद्दिव्यशब्दस्य द्यावादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति न निषेधः । अपृथिवीरुद्रपूषमंथिष्विति पर्युदस्तत्वात् । ईयते । ईङ् गतौ । तिङ्ङतिङ इति निघातः । बाधते । बाधते च वेति चेति समुच्छयार्थप्रतीतेश्च शब्दस्याप्रयोगाच्चादिलोपे विभाषेति निघातप्रतिषेधः । वेति । वी गतिप्रजनकांत्यशनखादनेषु । अदादित्वाच्छपो लुक् । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वान्निघाताभावः । ऋणोति । ऋणु गतौ । तनादित्वादुः । तनादिषु करोतेरेव गुणो नान्येषामित्यापिशलिमतेन गुणाभावः ॥ ९ ॥

1.35.10 समानपद
हिर᳚ण्यहस्तो॒ असु᳚रः सुनी॒थः सु᳚मृळी॒कः स्ववा{4}᳚ यात्व॒र्वाङ् ।
अ॒प॒सेध᳚न्र॒क्षसो᳚ यातु॒धाना॒नस्था᳚द्दे॒वः प्र᳚तिदो॒षं गृ᳚णा॒नः ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑हस्तः । असु᳚रः । सु॒॑नी॒थः । सु॒॑मृ॒ळी॒कः । स्व॑वा᳚न् । या॒तु॒ । अ॒र्वाङ् ।
अ॒प॒॑सेध᳚न् । र॒क्षसः᳚ । या॒तु॒॑धाना᳚न् । अस्था᳚त् । दे॒वः । प्र॒ति॒॑दो॒षम् । गृ॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यहस्तोऽसुरः प्राणदाता सुनीथः सुष्वु नेता । प्रशस्य इत्यर्थः । सुनीथः पाक इति प्रशस्यनामसु पाठात् । सुमृळीकः सुष्टु सुखयिता स्ववान् धनवान् अर्वाङ् अभिमुखः कर्मदेशे गच्छतु । किंचायं देवः प्रतिदोषं प्रतिरात्रि गृणानः स्तूयमानोऽस्थात् । स्थितवान् । किं कुर्वन् । रक्षसो बाधकत्वेन रक्षणनिमित्तभूतान् । रक्षो रक्षितव्यमस्मादिति यास्कः (नि ४-१८) यातुधानानसुरानपसेधन् । निराकुर्वन् ॥ हिरण्यहस्तादयो गताः । सुमृळीकः । सुष्टु मृळीकं सुखं यस्यासौ तथोक्तः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । स्ववान् । स्वमस्यास्तीति स्ववान् । मादुपधाया इति वत्वम् । संहितायां नकारस्य दीर्घादटि समानपाद इति रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । रोर्यत्वम् । यलोपश्च । अपसेधन् । षिधु गत्याम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण कृदुत्तरपद प्रकृतिस्वरत्वम् । रक्षसः । रक्ष पालन इत्यस्मादपादान औणादिकोऽसिप्रत्ययः । यद्वा । रक्ष्यंत्यनेनेति रक्षो बलम् । करणेऽसुन् । तदेषामस्तीति रक्षस्विनम् । मत्वर्थप्रत्ययलोपश्छांदसः । प्रत्ययस्वरः । यातुधानान् । यत निकारोपसंस्कारयोः । तस्माण्यंतादौणादिको भाव उप्रत्ययः । यातवो यातना एषु धीयंत इति यातुधानाः । अधिकरणे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अस्थात् । गातिस्थेति सिचो लुक् । प्रतिदोषं दोषां दोषाम् । प्रति वीप्सालक्षणे यथार्थे । अव्ययीभावः । गृणानः । गृ शब्दे । कर्मणि लटः शानच् । व्यत्ययेन श्ना । प्वादीनां ह्रस्व इति ह्रस्वतम् । चित इत्यंतोदात्तत्वं ॥ १० ॥

1.35.11
ये ते॒ पन्था᳚ः सवितः पू॒र्व्यासो᳚॑रे॒णव॒ः सुकृ᳚ता अ॒न्तरि᳚क्षे ।
तेभि᳚र्नो अ॒द्य प॒थिभि᳚ः सु॒गेभी॒ रक्षा᳚ च नो॒ अधि᳚ च ब्रूहि देव ॥
▶ पदपाठः (Word-by-word)
ये । ते॒ । पन्थाः᳚ । स॒वि॒त॒रिति᳚ । पू॒र्व्यासः᳚ । अ॒रे॒णवः᳚ । सु॑कृ᳚ताः । अ॒न्तरि᳚क्षे ।
तेभिः᳚ । नः॒ । अ॒द्य । प॒थि॑भिः᳚ । सु॒॑गेभिः᳚ । रक्ष᳚ । च॒ । नः॒ । अधि᳚ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः ते तव पंथा मार्गाः पूर्व्यासः पूर्वसिद्धा अरेणवो धूलिरहिता अंतरिक्षे सुकृताः सुष्टु संपादिताः । सुगेभिः सुष्टु गंतुं शक्यैस्तेभिः पथिभिस्तैर्मार्गैरागत्याद्यास्मिन्दिने नोऽस्मान्रक्ष च । पालनमपि कुरु । तथा हे देव नोऽस्माननुष्ठातृनधि ब्रूहि च । देवानामग्रेऽधिकत्वेन कथय च ॥ पंथाः । सुपां सुलुगिति जसः सुः । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । पूर्व्यासः । पूर्वैः कृताः पूर्व्याः । पूर्वै कृतमिनियौ च (पा ४-४-१३३) इति यः । प्रत्ययस्वरः । असुगागमः । अरेणवः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुकृताः । कर्मण क्तः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । सुष्टु गच्छंत्येष्विति सुगाः । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्ष । द्वचोऽतस्तिङ इति संहितायां दीर्घः ॥ ७ ॥ ११ ॥