मि॒नाति॒ श्रियं᳚ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष᳚णो जगम्युः ॥
पदपाठः (Word-by-word)
मि॒नाति᳚ । श्रिय᳚म् । ज॒रि॒मा । त॒नूना᳚म् । अपि᳚ । ऊं॒ इति᳚ । नु । पत्नीः᳚ । वृष᳚णः । ज॒ग॒म्युः॒ ॥
सायणभाष्यम् (Sayana Commentary)
लोपामुद्रा आह हेअगस्त्य अहंलोपामुद्रापूर्वीः शरदः पुरातनानसंख्यातान् संवत्सरान् दोषारा- त्रीः वस्तोरहानितथादेहंजरयन्तीरुषसः उषःकालांश्च सर्वत्रात्यन्तसंयोगेद्वितीया अद्यतनकालपर्य- न्तंबहुसंवत्सरंकार्त्स्न्येनत्वच्छुश्रूषयाशश्रमाणाश्रान्ताभूवं इदानींतुजरिमाजरातनूनामङ्गानांश्रियं- सुन्दर्यंमिनातिहिनस्ति एवमपिनानुगृह्ळासीत्यर्थः अप्यूनु अपिः संभावनायांउइत्यवधारणे नुइति- वितर्के इदानीमपिकिंसंभावनीयं लोकेहिपत्नीः स्त्रियः वृषणः सेक्तरःपुरुषाः जगम्युः गच्छेयुः संभो- गंकुर्युं अतोमांकिमित्यवमन्यसे इदानीमपिवासंभावयेत्यर्थः ॥ १ ॥