श्रवणम्

1.179.6
अ॒गस्त्य॒ः खन᳚मानः ख॒नित्रै᳚ः प्र॒जामप᳚त्यं॒ बल᳚मि॒च्छमा᳚नः ।
उ॒भौ वर्णा॒वृषि᳚रु॒ग्रः पु᳚पोष स॒त्या दे॒वेष्वा॒शिषो᳚ जगाम ॥
▶ पदपाठः (Word-by-word)
अ॒गस्त्यः᳚ । खन᳚मानः । ख॒नित्रैः᳚ । प्र॒॑जाम् । अप᳚त्यम् । बल᳚म् । इ॒च्छमा᳚नः ।
उ॒भौ । वर्णौ᳚ । ऋषिः᳚ । उ॒ग्रः । पु॒पो॒ष॒ । स॒त्याः । दे॒वेषु᳚ । आ॒॑शिषः᳚ । ज॒गा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमगस्त्योमद्गुरुः खनित्रैः फलस्योत्पादनसाधनैः यज्ञस्तोत्रादिभिः खनमानःफलमभिमतमु- त्पादयन् प्रजांप्रकर्षेणपुनःपुनर्जायमानमपत्यं कुलस्यापतनसाधनंपुत्रादिकंबलंचेच्छमानः सन् यद्वा प्रजांश्रृत्यादिरूपांचेच्छन् ऋषिः अतीन्द्रियद्रष्टामहानुभावः उग्रः उद्गूर्णः संसारेसञ्चरन्नप्यपापः सन्नुभौवर्णावर्णौवर्णनीयाकारौकामंचतपश्चपुपोष सत्याआशिषोदेवेषुदेवेभ्योजगाम प्राप्तवान् यतो- यंमहानुभावः तस्मादस्मान् पातीत्यर्थः ॥ ६ ॥

अथचतुर्विंशेनुवाकेद्वादशसूक्तानि तत्रयुवोरजांसीतिदशर्चंप्रथमंसूक्तंआगस्त्यंत्रैष्टुभं तुह्यादिपरि- भाषयेदमादिसूक्तपञ्चसूक्तानिप्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभेछन्दसिविनियुक्तानि अथाश्विवनइति- खण्डे सूत्रितम्—युवोरजांसीतिपञ्चानांतृतीयमुद्धरेदिति ।