न मृषा᳚ श्रा॒न्तं यदव᳚न्ति दे॒वा विश्वा॒ इत्स्पृधो᳚ अ॒भ्य᳚श्नवाव ।
जया॒वेदत्र᳚ श॒तनी᳚थमा॒जिं यत्स॒म्यञ्चा᳚ मिथु॒नाव॒भ्यजा᳚व ॥
जया॒वेदत्र᳚ श॒तनी᳚थमा॒जिं यत्स॒म्यञ्चा᳚ मिथु॒नाव॒भ्यजा᳚व ॥
पदपाठः (Word-by-word)
न । मृषा᳚ । श्रा॒न्तम् । यत् । अव᳚न्ति । दे॒वाः । विश्वाः᳚ । इत् । स्पृधः᳚ । अ॒भि । अ॒श्न॒वा॒व॒ ।
जया᳚व । इत् । अत्र᳚ । श॒त॑नी᳚थम् । आ॒जिम् । यत् । स॒म्यञ्चा᳚ । मि॒थु॒नौ । अ॒भि । अजा᳚व ॥
जया᳚व । इत् । अत्र᳚ । श॒त॑नी᳚थम् । आ॒जिम् । यत् । स॒म्यञ्चा᳚ । मि॒थु॒नौ । अ॒भि । अजा᳚व ॥
सायणभाष्यम् (Sayana Commentary)
अगस्त्यस्तामाह भोःपत्नि त्वया मयाचनमृषाश्रान्तं व्यर्थंनैवखिन्नमावाभ्यां यत् यस्मात् देवा- अवन्तिरक्षन्ति तपोभिःप्रीताः आवांविश्वाइत् सर्वाअपिस्पृधःस्पर्धमानाःसेनाःअभ्यश्नवाव् अभितो- व्याप्नुवाव अत्रास्मिन्संसारे शतनीथं अपरिमितभोगप्राप्तिसाधनमाजिंप्राप्तिंपरस्परं जयाव जयलक्ष- णं सुरतसङ्ग्रामं वा जयाव यत् यस्मात् सम्यञ्चासम्यक्परस्परं गच्छन्तौपूजयन्तौवामिथुना मिथु- नौ स्त्रीपुरुषरूपौ सन्तौ अभ्यजाव त्वं चाहमपिपरस्परमभिजयावेत्येवंतयो क्तंसंभोगं संभावया- मास ॥ ३ ॥