अपि॒ यथा᳚ युवानो॒ मत्स᳚था नो॒ विश्वं॒ जग᳚दभिपि॒त्वे म᳚नी॒षा ॥
पदपाठः (Word-by-word)
अपि᳚ । यथा᳚ । यु॒वा॒नः॒ । मत्स᳚थ । नः॒ । विश्व᳚म् । जग᳚त् । अ॒भि॒॑पि॒त्वे । म॒नी॒षा ॥
सायणभाष्यम् (Sayana Commentary)
नोविदथेस्मदीयेयज्ञेसुशस्ति सुपोलुक् सुशस्तिभिः शोभनशंसनैःस्तुतिभिः इळाभिः प्रदेयैरत्नैःसह यद्वा इळाभिः तदाश्रितेषुताच्छब्द्यं भूमिस्थानाभिर्देवताभिःसहविश्वानरः सर्वप्राणिहितकार्यग्निः स- विताप्रेरकआदित्यश्चदेवआएतुआगच्छतु हेयुवानोनित्यतरुणायज्ञस्य मिश्रयितारोवायूयं नोस्मान् अभिपित्वेअभिपतनीयेस्मद्यज्ञेमनीषमनीषयामनसईशितृत्वेनस्वेच्छयेत्यर्थः अपिः संभावनायां अ- प्यस्मान् मत्सथ मादयथ तथाविश्वंजगत् एतत् स्थावरस्याप्युपलक्षणं यद्वाकृत्स्नंप्रपञ्चंमत्सथ तथा- स्मानपि यद्वा जगच्छब्दोयजमानरूपमनुष्यवाची सर्वानपियजमानान् यथामत्सथ तथेत्यर्थः ॥ १ ॥ वैश्वदेवेपशौआनोविश्वइत्येषाहविषः पुरोनुवाक्या आनोदेवानामुपवेतुशंसआनोविश्वआस्का- गमन्तुदेवाइति ।