उ॒त न᳚ ईं म॒तयो॑श्व᳚योगा॒ः शिशुं॒ न गाव॒स्तरु᳚णं रिहन्ति ।
तमीं॒ गिरो॒ जन᳚यो॒ न पत्नी᳚ः सुर॒भिष्ट᳚मं न॒रां न᳚सन्त ॥
तमीं॒ गिरो॒ जन᳚यो॒ न पत्नी᳚ः सुर॒भिष्ट᳚मं न॒रां न᳚सन्त ॥
पदपाठः (Word-by-word)
उ॒त । नः॒ । ई॒म् । म॒तयः᳚ । अश्व᳚॑योगाः । शिशु᳚म् । न । गावः᳚ । तरु᳚णम् । रि॒ह॒न्ति॒ ।
तम् । ई॒म् । गिरः᳚ । जन᳚यः । न । पत्नीः᳚ । सु॒र॒भिः॑त᳚मम् । न॒राम् । न॒स॒न्त॒ ॥
तम् । ई॒म् । गिरः᳚ । जन᳚यः । न । पत्नीः᳚ । सु॒र॒भिः॑त᳚मम् । न॒राम् । न॒स॒न्त॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिचईंएनंतरुणंनित्ययुवानमिन्द्रंनोस्माकंमतयः बुद्धयोश्वयोगाः अश्वसमानप्राप्तयोरिहन्ति- आस्वदयन्ति स्तुवन्तीत्यर्थः तत्रदृष्टान्तः—गावोदोग्ध्र्योधेनवः शिशुंन शिशुमिववत्समिव तयथालि- हन्तितद्वत् तद्वेवाह तमींतमेवैनंनरांणांयजमानानां सुरभिष्टमंअतिशयेनसुरभिंजनयः फलस्योत्पाद- यित्र्योगिरः स्तुतयोनसन्तव्याप्नुवन्ति नसतिर्व्याप्तिकर्मा तत्रदृष्टान्तः—जनयोन उत्पादयित्र्यः पत्नीः पत्न्यः पतिमिव ॥ ७ ॥