उप᳚ व॒ एषे॒ नम᳚सा जिगी॒षोषासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः ।
स॒मा॒ने अह᳚न्वि॒मिमा᳚नो अ॒र्कं विषु᳚रूपे॒ पय᳚सि॒ सस्मि॒न्नूध᳚न् ॥
स॒मा॒ने अह᳚न्वि॒मिमा᳚नो अ॒र्कं विषु᳚रूपे॒ पय᳚सि॒ सस्मि॒न्नूध᳚न् ॥
पदपाठः (Word-by-word)
उप᳚ । वः॒ । आ । ई॒षे॒ । नम᳚सा । जि॒गी॒षा । उ॒षसा॒नक्ता᳚ । सु॒दुघा᳚॑इव । धे॒नुः ।
स॒मा॒ने । अह᳚न् । वि॒॑मिमा᳚नः । अ॒र्कम् । विषु᳚॑रूपे । पय᳚सि । सस्मि᳚न् । ऊध᳚न् ॥
स॒मा॒ने । अह᳚न् । वि॒॑मिमा᳚नः । अ॒र्कम् । विषु᳚॑रूपे । पय᳚सि । सस्मि᳚न् । ऊध᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः वोयुष्माकंनमसाहविषानमस्कारेणवाउपउपेत्य जिगीषा पापानांजिगीषया आईषेइच्छा मि इषगतावित्यस्यवेषतेर्वागत्याद्यर्थस्यलिटिउत्तमैकवचने इदंरूपं भजामि कस्मिन् कालेउषासान- क्ताअहनिरात्रौच यद्वा अहोरात्रदेवतेअप्यभिगच्छामि गतौदृष्टान्तः—सुदुघाधेनुरिव सुदोग्ध्रीधेनुर्य- था दोहायदोग्धुर्गृहमागच्छति तद्वत् किंकुर्वन् सस्मिन् समानेऊधन् ऊधसि उत्पन्नेविषुरूपेनानारूपे- पयसिक्षीरघृतादिके अर्कमर्चनीयमन्नंचरुपुरोडाशादिकंविमिमानः विविधंमिमानः कस्मिन्कालेसमा- नेअहत् षष्ठेहनिएकस्मिन्नेवाहनिसर्वदैववेत्यर्थः एकस्मिन्नेवाहनिसमानऊधस्युत्पन्ने नानारूपेपयसि- त्वदर्थंहविर्मिमानः उपगच्छामीत्यर्थः यद्वा सस्मिन् सर्वस्मिन्नूधसिफलाख्यक्षीरोत्पादकेयज्ञेनिमित्त- भूतेसतिविषुरूपेपयसिनानारूपेसोमलक्षणोदकेअर्कमन्नसाधनंस्तोत्रंविमिमानोहंयुष्मनभिगच्छामि ॥ ४ ॥