श्रवणम्

1.186.6
उ॒त न᳚ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि᳚रभिपि॒त्वे स॒जोषा᳚ः ।
आ वृ᳚त्र॒हेन्द्र᳚श्चर्षणि॒प्रास्तु॒विष्ट᳚मो न॒रां न᳚ इ॒ह ग᳚म्याः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । ई॒म् । त्वष्टा᳚ । आ । ग॒न्तु॒ । अच्छ᳚ । स्मत् । सू॒रि॑भिः᳚ । अ॒भि॒॑पि॒त्वे । स॒॑जोषाः᳚ ।
आ । वृ॒त्र॒॑हा । इन्द्रः᳚ । च॒र्ष॒णि॒॑प्राः । तु॒विः॑त᳚मः । न॒राम् । नः॒ । इ॒ह । ग᳚म्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिचत्वष्टादेवोपिनोस्मान् अच्छअभिप्राप्तुं इदानीमेनंयज्ञंवाआगन्तु आगच्छतु आगत्यचस्मत् सहार्थेप्राशस्त्येवावर्तते अत्रप्रशंसायां प्रशस्तंयथातथा अभिपित्वेअभिगन्तव्येयज्ञेनिमित्तभूतेसतिसू- रिभिःस्तोतृभिः ऋत्विग्भिः सजोषाः समानप्रीतिर्भवत्वितिशेषः तथावृत्रहावृत्रघातीइन्द्रःचर्षणिप्राः चर्षणयोमनुष्यायजमानाः कामैस्तेषांपूरकः तुविष्टमोबहुतमोमहत्तमः इहास्मिन्कर्मणिनरानृणांनो- स्माकमुक्तगुणोपेतः सन्नागम्याः आगच्छतु ॥ ६ ॥