प्रेष्ठं᳚ वो॒ अति᳚थिं गृणीषे॒॑ग्निं श॒स्तिभि᳚स्तु॒र्वणि᳚ः स॒जोषा᳚ः ।
अस॒द्यथा᳚ नो॒ वरु᳚णः सुकी॒र्तिरिष᳚श्च पर्षदरिगू॒र्तः सू॒रिः ॥
अस॒द्यथा᳚ नो॒ वरु᳚णः सुकी॒र्तिरिष᳚श्च पर्षदरिगू॒र्तः सू॒रिः ॥
पदपाठः (Word-by-word)
प्रेष्ठ᳚म् । वः॒ । अति᳚थिम् । गृ॒णी॒षे॒ । अ॒ग्निम् । श॒स्ति॑भिः᳚ । तु॒र्वणिः᳚ । स॒॑जोषाः᳚ ।
अस᳚त् । यथा᳚ । नः॒ । वरु᳚णः । सु॒॑की॒र्तिः । इषः᳚ । च॒ । प॒र्ष॒त् । अ॒रि॒॑गू॒र्तः । सू॒रिः ॥
अस᳚त् । यथा᳚ । नः॒ । वरु᳚णः । सु॒॑की॒र्तिः । इषः᳚ । च॒ । प॒र्ष॒त् । अ॒रि॒॑गू॒र्तः । सू॒रिः ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवाः वोयुष्माकंप्रेष्ठंप्रियतमंसर्वेषामाह्वातृत्वात् हविर्वहनाच्चाग्निर्देवानां प्रियतमः तमतिथिंगृ- णीषेगृणेस्तौमि व्यत्ययेनमध्यमः केनसाधनेन शस्तिभिःशंसनैःस्तुतिभिः कीदृशोहंतुवणिस्तूर्णवनिः शीघ्रंसंभक्ता सजोषाः युष्माभिः सहप्रीयमाणः यद्वैतेअग्निविशेषणे यस्तुर्वणिः शीघ्रंयज्ञस्यसंभक्ता सजोषाः युष्माभिः सहप्रीयमाणः तमग्निंगृणीषे यथायेनप्रकारेणनोस्माकंवरुणः एतन्नामकोदेवःसु- कीर्तिः शोभनकीर्तिमानसत् सुकीर्तिंभिक्षेवरुणस्यभूरेरित्यादिमन्त्रवर्णेषुवरुणात्सुकीर्तिरेवेषणीया अरिगूर्तः अरिषुअदातृषुसदाशब्दितःअरीणां हननायोद्युक्तोवासूरिः प्रेरयितायंवरुणः इषश्चान्नानि पर्षत् पूरयेत् तथातमपिस्तुमइत्यर्थः ॥ ३ ॥