आ नो॒ विश्व॒ आस्क्रा᳚ गमन्तु दे॒वा मि॒त्रो अ᳚र्य॒मा वरु᳚णः स॒जोषा᳚ः ।
भुव॒न्यथा᳚ नो॒ विश्वे᳚ वृ॒धास॒ः कर᳚न्त्सु॒षाहा᳚ विथु॒रं न शवः᳚ ॥
भुव॒न्यथा᳚ नो॒ विश्वे᳚ वृ॒धास॒ः कर᳚न्त्सु॒षाहा᳚ विथु॒रं न शवः᳚ ॥
पदपाठः (Word-by-word)
आ । नः॒ । विश्वे᳚ । आस्क्राः᳚ । ग॒म॒न्तु॒ । दे॒वाः । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । स॒॑जोषाः᳚ ।
भुव᳚न् । यथा᳚ । नः॒ । विश्वे᳚ । वृ॒धासः᳚ । कर᳚न् । सु॒॑सहा᳚ । वि॒थु॒रम् । न । शवः᳚ ॥
भुव᳚न् । यथा᳚ । नः॒ । विश्वे᳚ । वृ॒धासः᳚ । कर᳚न् । सु॒॑सहा᳚ । वि॒थु॒रम् । न । शवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
नोस्माकंयज्ञंविश्वेसर्वेदेवाःआस्काः शत्रूणामास्कन्दयितारः आक्रमितारोवा आगमन्तु आगच्छन्तु केते मित्रोर्यमावरुणश्च त्रयोपिसजोषाः समानप्रीतयःसन्तः आगच्छन्तु किन्तु विश्वे देवाः नोस्माकं वृधासोवर्धयितारः यथाभुवन् भवेयुः तथासुषाहा सुष्ठु शत्रूणामभिभवेननोस्मदीयंशवोन्नंविथुरंहीनं यथानकरन् नकुर्युः तथाआगच्छन्तु ॥ २ ॥