प्रो अ॒श्विना॒वव᳚से कृणुध्वं॒ प्र पू॒षणं॒ स्वत᳚वसो॒ हि सन्ति᳚ ।
अ॒द्वे॒षो विष्णु॒र्वात᳚ ऋभु॒क्षा अच्छा᳚ सु॒म्नाय᳚ ववृतीय दे॒वान् ॥
अ॒द्वे॒षो विष्णु॒र्वात᳚ ऋभु॒क्षा अच्छा᳚ सु॒म्नाय᳚ ववृतीय दे॒वान् ॥
पदपाठः (Word-by-word)
प्रो इति᳚ । अ॒श्विनौ᳚ । अव᳚से । कृ॒णु॒ध्व॒म् । प्र । पू॒षण᳚म् । स्वत᳚वसः । हि । सन्ति᳚ ।
अ॒द्वे॒षः । विष्णुः᳚ । वातः᳚ । ऋ॒भु॒क्षाः । अच्छ᳚ । सु॒म्नाय᳚ । व॒वृ॒ती॒य॒ । दे॒वान् ॥
अ॒द्वे॒षः । विष्णुः᳚ । वातः᳚ । ऋ॒भु॒क्षाः । अच्छ᳚ । सु॒म्नाय᳚ । व॒वृ॒ती॒य॒ । दे॒वान् ॥
सायणभाष्यम् (Sayana Commentary)
हेऋत्विजः अश्विनौएतन्नामकौदेवावुद्दिश्य अवसेस्मद्रक्षणायप्रोकृणुध्वं स्तुतिंप्रकर्षेणकृणुध्वं पूष- णंहि पोषकमेतन्नामकंदेवमप्यवसे प्रकर्षेणस्तुतिं कृणुध्वं किञ्च येस्वतवसः स्वायत्तबलाःसन्ति तान- पिप्रकृणुध्वं केते अद्वेषः द्वेषरहितोविष्णुर्व्याप्तः एतन्नामकोदेवः प्रथममनाहूतोपिनकुप्यतीतिवक्तुम- द्वेषइत्युक्तं तथावातः सर्वत्रसंचारीवायुःऋभुक्षाः पतिरिन्द्रश्चएतानपिप्रकृणुध्वं अतोहं स्वायत्तबलान् सर्वानपिदेवान् सुम्नायसुखायअच्छ आभिमुख्येनववृतीयस्तोत्रैरभिवर्तयेयम् ॥ १० ॥