प्रथमं मण्डलम् - सूक्तम् 118

11 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 1.118 - सम्पूर्णम्

1 / 11
ऋक्: 1.118.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.118.1
आ वां॒ रथो᳚ अश्विना श्ये॒नप᳚त्वा सुमृळी॒कः स्ववा{4}᳚ यात्व॒र्वाङ् ।
यो मर्त्य᳚स्य॒ मन᳚सो॒ जवी᳚यान्त्रिवन्धु॒रो वृ᳚षणा॒ वात᳚रंहाः ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रथः᳚ । अ॒श्वि॒ना॒ । श्ये॒न॑प᳚त्वा । सु॒॑मृ॒ळी॒कः । स्व॑वा᳚न् । या॒तु॒ । अ॒र्वाङ् ।
यः । मर्त्य᳚स्य । मन᳚सः । जवी᳚यान् । त्रि॒॑व॒न्धु॒रः । वृ॒ष॒णा॒ । वात᳚॑रंहाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ वामित्येकादशर्चं तृतीयं सूक्तं कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । तथा चानुक्रांतम् । आ वामेकादशेति ॥ पूर्वसूक्ताभ्यां सह प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

हे अश्विनौ वां युवयोः स्वभूतो रथोऽर्वाङस्मदभिमुखमा यातु । आगच्छतु । कीदृशो रथः । श्येनपत्वा । श्येना इत्यश्वनाम । शंसनीयगमनैरश्वैः पतन् गच्छन् । यद्वा । श्येनः पक्षी । स एव शीघ्रं पतन् । सुमृळीकः शोभनसुखयुक्तः स्ववान् धनवान् । हे वृषणौ कामानां वर्षितारावश्विनौ यो युष्मदीयो रथो मर्त्यस्य मनुष्यस्य मनसो जवीयानतिशयेन वेगवान् । तद्यथा वेगेन कृत्स्नं जगद्व्याप्नोति ततोऽप्यतिशयेन क्षणमात्रादेव सर्वं जगत्पर्यटतीत्यर्थः । त्रिवंधुरः । वंधुरं वेष्टितं सारथेः स्थानम् । त्रिप्रकारेण वंधुरेण युक्तः वातरंहावातस्य वायो रंहा वेग इव वेगो यस्य स तथोक्तः । अनेनाप्रतिहतगतित्वमुच्यते । स रथ इति पूर्वत्रान्वयः ॥ श्येनपत्वा । पत्लृ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । दासीभारादि ॥ यद्वा । दृशिग्रहणस्य विध्यंतरोपसंग्रहार्थत्वाद्भावे वनिप् । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवीयान् । जवोऽस्यास्तीति जववान् । अतिशयेन जववान् । अतिशायनिक ईयसुन् । विन्मतोर्लुक् । टीरिति टलोपः ॥ १ ॥

1.118.2
त्रि॒व॒न्धु॒रेण᳚ त्रि॒वृता॒ रथे᳚न त्रिच॒क्रेण᳚ सु॒वृता या᳚तम॒र्वाक् ।
पिन्व᳚तं॒ गा जिन्व᳚त॒मर्व᳚तो नो व॒र्धय᳚तमश्विना वी॒रम॒स्मे ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑व॒न्धु॒रेण᳚ । त्रि॒॑वृता᳚ । रथे᳚न । त्रि॒॑च॒क्रेण᳚ । सु॒॑वृता᳚ । आ । या॒त॒म् । अ॒र्वाक् ।
पिन्व᳚तम् । गाः । जिन्व᳚तम् । अर्व᳚तः । नः॒ । व॒र्धय᳚तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिवंधुरेण । वंधुरं सारथिस्थानम् । त्रिप्रकारवंधुरोपेतेन त्रिवृता त्रिधा वर्तमानेन त्रिचक्रेण चक्रत्रयोपेतेन सुवृता शोभनं गच्छता रथेनार्वागस्मदभिमुखमा यातम् । आगच्छतम् । आगत्य चास्मदीया गाः पिन्वतम् । पयसा पूरयतम् । नोऽस्माकमर्वतोऽश्वान् जिन्वतम् । प्रीणयतम् । अपि च हे अश्विनौ अस्मे अस्माकं वीरं पुत्रादिकं वर्धयतम् । प्रवृद्धं कुरुतं ॥ त्रिचक्रेण । त्रीणि चक्राणि यस्य स तथोक्तः । त्रिचक्रादीनां छंदस्युपसंख्यानम् । पा ६-२-१९९-१ । इत्युत्तरपदांतोदात्तत्वं ॥ २ ॥

1.118.3
प्र॒वद्या᳚मना सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ᳚णुतं॒ श्लोक॒मद्रे᳚ः ।
किम॒ङ्ग वां॒ प्रत्यव᳚र्तिं॒ गमि᳚ष्ठा॒हुर्विप्रा᳚सो अश्विना पुरा॒जाः ॥
▶ पदपाठः (Word-by-word)
प्र॒वत्॑या᳚मना । सु॒॑वृता᳚ । रथे᳚न । दस्रौ᳚ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक᳚म् । अद्रेः᳚ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति᳚ । अव᳚र्तिम् । गमि᳚ष्ठा । आ॒हुः । विप्रा᳚सः । अ॒श्वि॒ना॒ । पु॒रा॒॑जाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्रौ दर्शनीयावश्विनौ प्रवद्यामना प्रकृष्टगमनेन शीघ्रगामिना सुवृता शोभनवर्तनेन रथेनागत्याद्रेरादरं कुर्वतः स्तोतुरिमं श्लोकं स्तुतिलक्षणामिमां वाचं शृणुतम् । अंगाश्विना हे अश्विनौ पुराजाः पूर्वजाताश्चिरंतरना विप्रासो मेधाविनो वां युवामवर्तिं स्तोतॄणां दारिद्र्यं प्रति तत्परिहर्तुं गमिष्ठा गंतृशब्दात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयः स्विति तृलोपः । सुपां सुलुगिति विभक्तेराकाराः । आहुः । प्रत्ययस्वरः । पादादित्वान्निघाताभावः ॥ ३ ॥

1.118.4 समानपद
आ वां᳚ श्ये॒नासो᳚ अश्विना वहन्तु॒ रथे᳚ यु॒क्तास᳚ आ॒शवः᳚ पतं॒गाः ।
ये अ॒प्तुरो᳚ दि॒व्यासो॒ न गृध्रा᳚ अ॒भि प्रयो᳚ नासत्या॒ वह᳚न्ति ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । श्ये॒नासः᳚ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे᳚ । यु॒क्तासः᳚ । आ॒शवः᳚ । प॒त॒ङ्गाः ।
ये । अ॒प्॑तुरः᳚ । दि॒व्यासः᳚ । न । गृध्राः᳚ । अ॒भि । प्रयः᳚ । ना॒स॒त्या॒ । वह᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ रथे युक्तासः सारथिना वहनप्रदेशे योजिता अशवो व्याप्नुवंतः पतंगाः पतनसमर्थाः श्येनासः शंसनीयगमना अश्वा वां युवामा वहंतु । अस्मत्समीपमानयंतु । येऽश्वा अप्तुर अप इव त्वरूपेता दिव्यासो न गृध्रा अंतरिक्षे वर्तमाना गृध्राख्याः पक्षिण इव शीघ्रं गच्छंतो हे नासत्यौ युवां प्रयो हविर्लक्षणमन्नमभिलक्ष्य वहंति प्रापयंति । तादृशा इति पूर्वत्र संबंधः ॥ आप्तुरः । तुर त्वरणे । अप ??? पपदादस्मात् क्विप्चेति क्विप् ॥ ४ ॥

1.118.5
आ वां॒ रथं᳚ युव॒तिस्ति᳚ष्ठ॒दत्र᳚ जु॒ष्ट्वी न᳚रा दुहि॒ता सूर्य᳚स्य ।
परि᳚ वा॒मश्वा॒ वपु᳚षः पतं॒गा वयो᳚ वहन्त्वरु॒षा अ॒भीके᳚ ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रथ᳚म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र᳚ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य᳚स्य ।
परि᳚ । वा॒म् । अश्वाः᳚ । वपु᳚षः । प॒त॒ङ्गाः । वयः᳚ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेतारावश्विनौ युवतिस्तरुणी सूर्यस्य दुहिता जुष्ट्वी प्रीता सती वां युवयोरत्रेमं रथमा तिष्ठत् । आरूढवती । तया सहितौ वां युवामश्वा अभीके गृहसमीपे तं रथं परि वहंतु । परिप्रापयंतु । कीदृशा अश्वाः । वपुषः । वपुरिति रूपस्य शरीरस्य वा नामधेयम् । तद्वंतः । छांदसो मत्वर्थीयस्य लोपः । पतंगा उत्पतनसमर्थाः वयो गच्छंतः अरुषा आरोचमाना हिंसकरहिता वा ॥ अत्र । इतराभ्योऽपि दृश्यंते (पा ५-३-१४) इति दृशिग्रहणाद्भवदाद्ययोगेऽपीदंशब्दाद्विभक्त्यर्थे त्रल्प्रत्ययः । जुष्ट्वी । जुषी प्रीतिसेवनयोः । औणादिकः क्तुप्रत्ययः । वोतो गुणवचनादिति ङीष् ॥ ५ ॥

1.118.6
उद्वन्द᳚नमैरतं दं॒सना᳚भि॒रुद्रे॒भं द᳚स्रा वृषणा॒ शची᳚भिः ।
निष्टौ॒ग्र्यं पा᳚रयथः समु॒द्रात्पुन॒श्च्यवा᳚नं चक्रथु॒र्युवा᳚नम् ॥
▶ पदपाठः (Word-by-word)
उत् । वन्द᳚नम् । ऐ॒र॒त॒म् । दं॒सना᳚भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची᳚भिः ।
निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति᳚ । च्यवा᳚नम् । च॒क्र॒थुः॒ । युवा᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वंदनमेतत्संज्ञमृषिं दंसनाभिरात्मीयैः कर्मभिः कूपादुदैरतम् । उदैरयतम् । उदगमयतम् । हे दस्रा दर्शनीयौ वृषणा कामानां वर्षितारावश्विनौ शचीभिः कर्मभी रेभमेतत्संज्ञ मृषिं दश रात्रीर्नवाहानि च कूपे निवसंतं तस्मादुदैरयतम् । उदतारयतम् । तथा तौग्र्यं तुग्रस्य पुत्रं भुज्युं समुद्रे निमग्नमात्मीयाभिर्नौभिरश्वैश्च समुद्रान्निष्पारयथः । तीरदेशं प्रापित वंतौ । तथा च्यवानं च्यवनमृषिं जीर्णं पुनर्युवानं यौवनोपेतं चक्रथुः । कृतवंतौ ॥ ऐरतम् । ईर गतौ कंपने च । ण्यंताल्लङि छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः ॥ ६ ॥

1.118.7 समानपद
यु॒वमत्र॒ये॑व᳚नीताय त॒प्तमूर्ज᳚मो॒मान᳚मश्विनावधत्तम् ।
यु॒वं कण्वा॒यापि᳚रिप्ताय॒ चक्षु॒ः प्रत्य᳚धत्तं सुष्टु॒तिं जु᳚जुषा॒णा ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । अत्र᳚ये । अव᳚॑नीताय । त॒प्तम् । ऊर्ज᳚म् । ओ॒मान᳚म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् ।
यु॒वम् । कण्वा᳚य । अपि᳚॑रिप्ताय । चक्षुः᳚ । प्रति᳚ । अ॒ध॒त्त॒म् । सु॒॑ष्टु॒तिम् । जु॒जु॒षा॒णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं युवामवनीताय शतद्वारे पीडायंत्रगृहेऽवस्तान्नीतायात्रये तप्तं पीडार्थं प्रक्षिप्तं तुषाग्निं शीतेनोदकेनावारयेथाम् । अपि चास्मा अत्रय ओमानं सुखकरमूर्जं रसवदन्नमधत्तम् । प्रायच्छतम् । तथा सुष्टुतिं शोभनां स्तुतिं जुजुषाणा सेवमानौ युवामपिरिप्ता यासुरैर्ब्राह्मण्यपरीक्षार्थमिहासीनः सन् व्युष्टामुषसं जानीहीत्यंधकारवति गृहे प्रवेशिताय कण्वायर्षये चक्षुर्व्युष्टाया उषसः प्रकाशकं वीणाशब्दं प्रत्यधत्तम् । कृतवंतौ । यद्वा । अपिरिप्तायापिलिप्ताय पटलेन पिहितदृष्टय एवंविधाय कण्वाय चक्षुरिंद्रियं प्रत्यधत्तम् । प्रत्यस्थापयतं ॥ ओमानम् । अवतेरौणादिको मनिः । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । गुणः । अपिरिप्ताय । लिप उपदेहे । अस्मात्कर्मणि निष्ठा । कपिलकादित्वाल्लत्वविकल्पः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । जुजुषाणा । जुषी प्रीतिसेवनयोः । छांदसो लिट् । लिटः कानज्वा । सुपां सुलुगिति विभक्तेराकारः ॥ ७ ॥

1.118.8
यु॒वं धे॒नुं श॒यवे᳚ नाधि॒तायापि᳚न्वतमश्विना पू॒र्व्याय᳚ ।
अमु᳚ञ्चतं॒ वर्ति᳚का॒मंह᳚सो॒ निः प्रति॒ जङ्घां᳚ वि॒श्पला᳚या अधत्तम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । धे॒नुम् । श॒यवे᳚ । ना॒धि॒ताय᳚ । अपि᳚न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय᳚ ।
अमु᳚ञ्चतम् । वर्ति᳚काम् । अंह᳚सः । निः । प्रति᳚ । जङ्घा᳚म् । वि॒श्पला᳚याः । अ॒ध॒त्त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विना हे अश्विनौ युवं युवां पूर्व्याय पुरातनाय नाधिताय याच मानाय शयव एतत्संज्ञायर्षये धेनुं निवृत्तप्रसवामदोग्ध्रीमपिन्वतम् । पयसासिंचतम् । सर्वदा पयस्विनीमकुरुतमित्यर्थः । अपि च वर्तिकां वृकेण ग्रस्तां चटकसदृशीं शकुनिमंहसो वृकास्यलक्षणात्पापान्निरमुंचतम् । निरमोचयतम् । यद्वा । पुनःपुनर्वर्तत इति वर्तिकोषाः । तामादित्येनाभिग्रस्तां युवाममोचयतम् । तथा विश्पलायै संग्रामे छिन्नजंघाया अगस्त्यपुरोहितस्य खेलस्य संबंधिन्या एतत्संज्ञायै स्त्रिया अयसीं जंघां प्रत्यधत्तम् । प्रत्यस्थापयतं समयोजयतमित्यर्थः ॥ ८ ॥

1.118.9
यु॒वं श्वे॒तं पे॒दव॒ इन्द्र᳚जूतमहि॒हन᳚मश्विनादत्त॒मश्व᳚म् ।
जो॒हूत्र᳚म॒र्यो अ॒भिभू᳚तिमु॒ग्रं स᳚हस्र॒सां वृष᳚णं वी॒ड्व᳚ङ्गम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । श्वे॒तम् । पे॒दवे᳚ । इन्द्र᳚॑जूतम् । अ॒हि॒॑हन᳚म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व᳚म् ।
जो॒हूत्र᳚म् । अ॒र्यः । अ॒भि॑भू᳚तिम् । उ॒ग्रम् । स॒ह॒स्र॒॑साम् । वृष᳚णम् । वी॒ळु॑अ᳚ङ्गम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे युवं युवां श्वेतवर्णं कंचिदश्वमदत्तम् । प्रायच्छतम् । कीदृशम् । इंद्रजूतमिंद्रेण युवाभ्यां गमितम् । दत्तमित्यर्थः । अहिहनं शत्रूणां हंतारं जोहूत्रमतिशयेन संग्रामेष्वाह्वातारं अर्योऽरे शत्रोरभिभूतिमभिभावुकं उग्रमुद्गूर्णम् । वीर्यवंतमित्यर्थः । सहस्रसां सहस्रसंख्याकस्य धनस्य संभक्तारं दातारं वा वृषणं सेक्तारम् । युवानमित्यर्थः । वीड्वंगं दृढांगं ॥ इंद्रजूतम् । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादंतर्भावितण्यर्थात्कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । जोहूत्रम् । ह्वयतेर्यङ्लुगंतादौणादिकस्त्रप् प्रत्ययः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अर्यः । अरिशब्दात् षष्ठ्येकवचने जसादिषु छंदसि वावचन मिति घेर्ङितीति गुणस्य विकल्पितत्वादभावे यणादेशः । उदात्तयण इति विभक्तेरुदात्तत्वम् । अभिभूतिम् । अभिभूयतेऽनेनेत्यभिभूतिः । करणे क्तिन् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । सहस्रसाम् । सनोतेः सनतेर्वा जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वं ॥ ९ ॥

1.118.10 समानपद
ता वां᳚ नरा॒ स्वव᳚से सुजा॒ता हवा᳚महे अश्विना॒ नाध᳚मानाः ।
आ न॒ उप॒ वसु᳚मता॒ रथे᳚न॒ गिरो᳚ जुषा॒णा सु᳚वि॒ताय᳚ यातम् ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । न॒रा॒ । सु । अव᳚से । सु॒॑जा॒ता । हवा᳚महे । अ॒श्वि॒ना॒ । नाध᳚मानाः ।
आ । नः॒ । उप᳚ । वसु᳚॑मता । रथे᳚न । गिरः᳚ । जु॒षा॒णा । सु॒वि॒ताय᳚ । या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरा नेतारौ हे अश्विनौ सुजाता शोभनजन्मानौ ता वां तौ युवां नाधमाना धनं याचमाना वयं स्तोतारोऽवसे रक्षणार्थं सु हवामहे । शोभन माह्वयामहे । गिरः स्तुतीर्जुषाणा सेवमानौ युवां वसुमता धनयुक्तेन रथेन नोऽस्मानुपा यातम् । उपागच्छतम् । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय धनाय सुखाय वा ॥ सुजाता । शोभनं जातं जन्म ययोस्तौ सुजातौ । सुपां सुलुगिति विभक्तेराकारः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । नाधमानाः । नाधृ याच्ञायाम् । जुषाणा । जुषी प्रीतिसेवनयोः । ताच्छीलिकश्चानश् । तुदादित्वाच्छः । पूर्ववद्विभक्तेराकारः । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वादुवङ् । सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वं ॥ १० ॥

1.118.11 समानपद
आ श्ये॒नस्य॒ जव᳚सा॒ नूत᳚नेना॒स्मे या᳚तं नासत्या स॒जोषा᳚ः ।
हवे॒ हि वा᳚मश्विना रा॒तह᳚व्यः शश्वत्त॒माया᳚ उ॒षसो॒ व्यु᳚ष्टौ ॥
▶ पदपाठः (Word-by-word)
आ । श्ये॒नस्य᳚ । जव᳚सा । नूत᳚नेन । अ॒स्मे इति᳚ । या॒त॒म् । ना॒स॒त्या॒ । स॒॑जोषाः᳚᳚ ।
हवे᳚ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒त॑ह᳚व्यः । श॒श्व॒त्॑त॒मायाः᳚ । उ॒षसः᳚ । वि॑उ᳚ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ सजोषाः सजोषसौ समानप्रीतियुक्तौ श्येनस्य शंसनीयं गच्छतोऽश्वस्य नूतनेन नवतरेण प्रत्यग्रेण जवसा वेगेन सहितौ युवामस्मे अस्माना यातम् । आगच्छतम् । अश्विना हे अश्विनौ रातहव्यो वां युवाभ्यां दातव्येन हविषा युक्तः सन् शश्वत्तमायाः कालात्मकतया नित्याया उषसो व्युष्टौ विवासनसमये वां युवां हवे । आह्वयामि । हिर्हेतौ । हि यस्मादेवं तस्मादा यातमित्यर्थः ॥ अस्मे । सुपां सुलुगिति शसः शेआदेशः । सजोषाः । तेनैव द्विवचनस्य सुआदेशः । हवे । ह्वेञो लडुत्तमैकवचने बहुलं छंदसीति संप्रसारणम् । शब्गुणावादेशाः । शश्वत्तमायाः । उत्तमशश्वत्तमौ सर्वत्र (पा ६-१-१६०) इत्युंछादिषु पाठादंतोदात्तत्वं ॥ ११ ॥