श्रवणम्

1.118.10 समानपद
ता वां᳚ नरा॒ स्वव᳚से सुजा॒ता हवा᳚महे अश्विना॒ नाध᳚मानाः ।
आ न॒ उप॒ वसु᳚मता॒ रथे᳚न॒ गिरो᳚ जुषा॒णा सु᳚वि॒ताय᳚ यातम् ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । न॒रा॒ । सु । अव᳚से । सु॒॑जा॒ता । हवा᳚महे । अ॒श्वि॒ना॒ । नाध᳚मानाः ।
आ । नः॒ । उप᳚ । वसु᳚॑मता । रथे᳚न । गिरः᳚ । जु॒षा॒णा । सु॒वि॒ताय᳚ । या॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरा नेतारौ हे अश्विनौ सुजाता शोभनजन्मानौ ता वां तौ युवां नाधमाना धनं याचमाना वयं स्तोतारोऽवसे रक्षणार्थं सु हवामहे । शोभन माह्वयामहे । गिरः स्तुतीर्जुषाणा सेवमानौ युवां वसुमता धनयुक्तेन रथेन नोऽस्मानुपा यातम् । उपागच्छतम् । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय धनाय सुखाय वा ॥ सुजाता । शोभनं जातं जन्म ययोस्तौ सुजातौ । सुपां सुलुगिति विभक्तेराकारः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । नाधमानाः । नाधृ याच्ञायाम् । जुषाणा । जुषी प्रीतिसेवनयोः । ताच्छीलिकश्चानश् । तुदादित्वाच्छः । पूर्ववद्विभक्तेराकारः । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वादुवङ् । सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वं ॥ १० ॥