आ वां॒ रथं᳚ युव॒तिस्ति᳚ष्ठ॒दत्र᳚ जु॒ष्ट्वी न᳚रा दुहि॒ता सूर्य᳚स्य ।
परि᳚ वा॒मश्वा॒ वपु᳚षः पतं॒गा वयो᳚ वहन्त्वरु॒षा अ॒भीके᳚ ॥
परि᳚ वा॒मश्वा॒ वपु᳚षः पतं॒गा वयो᳚ वहन्त्वरु॒षा अ॒भीके᳚ ॥
पदपाठः (Word-by-word)
आ । वा॒म् । रथ᳚म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र᳚ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य᳚स्य ।
परि᳚ । वा॒म् । अश्वाः᳚ । वपु᳚षः । प॒त॒ङ्गाः । वयः᳚ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके᳚ ॥
परि᳚ । वा॒म् । अश्वाः᳚ । वपु᳚षः । प॒त॒ङ्गाः । वयः᳚ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारावश्विनौ युवतिस्तरुणी सूर्यस्य दुहिता जुष्ट्वी प्रीता सती वां युवयोरत्रेमं रथमा तिष्ठत् । आरूढवती । तया सहितौ वां युवामश्वा अभीके गृहसमीपे तं रथं परि वहंतु । परिप्रापयंतु । कीदृशा अश्वाः । वपुषः । वपुरिति रूपस्य शरीरस्य वा नामधेयम् । तद्वंतः । छांदसो मत्वर्थीयस्य लोपः । पतंगा उत्पतनसमर्थाः वयो गच्छंतः अरुषा आरोचमाना हिंसकरहिता वा ॥ अत्र । इतराभ्योऽपि दृश्यंते (पा ५-३-१४) इति दृशिग्रहणाद्भवदाद्ययोगेऽपीदंशब्दाद्विभक्त्यर्थे त्रल्प्रत्ययः । जुष्ट्वी । जुषी प्रीतिसेवनयोः । औणादिकः क्तुप्रत्ययः । वोतो गुणवचनादिति ङीष् ॥ ५ ॥