यु॒वं धे॒नुं श॒यवे᳚ नाधि॒तायापि᳚न्वतमश्विना पू॒र्व्याय᳚ ।
अमु᳚ञ्चतं॒ वर्ति᳚का॒मंह᳚सो॒ निः प्रति॒ जङ्घां᳚ वि॒श्पला᳚या अधत्तम् ॥
अमु᳚ञ्चतं॒ वर्ति᳚का॒मंह᳚सो॒ निः प्रति॒ जङ्घां᳚ वि॒श्पला᳚या अधत्तम् ॥
पदपाठः (Word-by-word)
यु॒वम् । धे॒नुम् । श॒यवे᳚ । ना॒धि॒ताय᳚ । अपि᳚न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय᳚ ।
अमु᳚ञ्चतम् । वर्ति᳚काम् । अंह᳚सः । निः । प्रति᳚ । जङ्घा᳚म् । वि॒श्पला᳚याः । अ॒ध॒त्त॒म् ॥
अमु᳚ञ्चतम् । वर्ति᳚काम् । अंह᳚सः । निः । प्रति᳚ । जङ्घा᳚म् । वि॒श्पला᳚याः । अ॒ध॒त्त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
अश्विना हे अश्विनौ युवं युवां पूर्व्याय पुरातनाय नाधिताय याच मानाय शयव एतत्संज्ञायर्षये धेनुं निवृत्तप्रसवामदोग्ध्रीमपिन्वतम् । पयसासिंचतम् । सर्वदा पयस्विनीमकुरुतमित्यर्थः । अपि च वर्तिकां वृकेण ग्रस्तां चटकसदृशीं शकुनिमंहसो वृकास्यलक्षणात्पापान्निरमुंचतम् । निरमोचयतम् । यद्वा । पुनःपुनर्वर्तत इति वर्तिकोषाः । तामादित्येनाभिग्रस्तां युवाममोचयतम् । तथा विश्पलायै संग्रामे छिन्नजंघाया अगस्त्यपुरोहितस्य खेलस्य संबंधिन्या एतत्संज्ञायै स्त्रिया अयसीं जंघां प्रत्यधत्तम् । प्रत्यस्थापयतं समयोजयतमित्यर्थः ॥ ८ ॥