आ वां᳚ श्ये॒नासो᳚ अश्विना वहन्तु॒ रथे᳚ यु॒क्तास᳚ आ॒शवः᳚ पतं॒गाः ।
ये अ॒प्तुरो᳚ दि॒व्यासो॒ न गृध्रा᳚ अ॒भि प्रयो᳚ नासत्या॒ वह᳚न्ति ॥
ये अ॒प्तुरो᳚ दि॒व्यासो॒ न गृध्रा᳚ अ॒भि प्रयो᳚ नासत्या॒ वह᳚न्ति ॥
पदपाठः (Word-by-word)
आ । वा॒म् । श्ये॒नासः᳚ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे᳚ । यु॒क्तासः᳚ । आ॒शवः᳚ । प॒त॒ङ्गाः ।
ये । अ॒प्॑तुरः᳚ । दि॒व्यासः᳚ । न । गृध्राः᳚ । अ॒भि । प्रयः᳚ । ना॒स॒त्या॒ । वह᳚न्ति ॥
ये । अ॒प्॑तुरः᳚ । दि॒व्यासः᳚ । न । गृध्राः᳚ । अ॒भि । प्रयः᳚ । ना॒स॒त्या॒ । वह᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ रथे युक्तासः सारथिना वहनप्रदेशे योजिता अशवो व्याप्नुवंतः पतंगाः पतनसमर्थाः श्येनासः शंसनीयगमना अश्वा वां युवामा वहंतु । अस्मत्समीपमानयंतु । येऽश्वा अप्तुर अप इव त्वरूपेता दिव्यासो न गृध्रा अंतरिक्षे वर्तमाना गृध्राख्याः पक्षिण इव शीघ्रं गच्छंतो हे नासत्यौ युवां प्रयो हविर्लक्षणमन्नमभिलक्ष्य वहंति प्रापयंति । तादृशा इति पूर्वत्र संबंधः ॥ आप्तुरः । तुर त्वरणे । अप ??? पपदादस्मात् क्विप्चेति क्विप् ॥ ४ ॥