त्रि॒व॒न्धु॒रेण᳚ त्रि॒वृता॒ रथे᳚न त्रिच॒क्रेण᳚ सु॒वृता या᳚तम॒र्वाक् ।
पिन्व᳚तं॒ गा जिन्व᳚त॒मर्व᳚तो नो व॒र्धय᳚तमश्विना वी॒रम॒स्मे ॥
पिन्व᳚तं॒ गा जिन्व᳚त॒मर्व᳚तो नो व॒र्धय᳚तमश्विना वी॒रम॒स्मे ॥
पदपाठः (Word-by-word)
त्रि॒॑व॒न्धु॒रेण᳚ । त्रि॒॑वृता᳚ । रथे᳚न । त्रि॒॑च॒क्रेण᳚ । सु॒॑वृता᳚ । आ । या॒त॒म् । अ॒र्वाक् ।
पिन्व᳚तम् । गाः । जिन्व᳚तम् । अर्व᳚तः । नः॒ । व॒र्धय᳚तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति᳚ ॥
पिन्व᳚तम् । गाः । जिन्व᳚तम् । अर्व᳚तः । नः॒ । व॒र्धय᳚तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
त्रिवंधुरेण । वंधुरं सारथिस्थानम् । त्रिप्रकारवंधुरोपेतेन त्रिवृता त्रिधा वर्तमानेन त्रिचक्रेण चक्रत्रयोपेतेन सुवृता शोभनं गच्छता रथेनार्वागस्मदभिमुखमा यातम् । आगच्छतम् । आगत्य चास्मदीया गाः पिन्वतम् । पयसा पूरयतम् । नोऽस्माकमर्वतोऽश्वान् जिन्वतम् । प्रीणयतम् । अपि च हे अश्विनौ अस्मे अस्माकं वीरं पुत्रादिकं वर्धयतम् । प्रवृद्धं कुरुतं ॥ त्रिचक्रेण । त्रीणि चक्राणि यस्य स तथोक्तः । त्रिचक्रादीनां छंदस्युपसंख्यानम् । पा ६-२-१९९-१ । इत्युत्तरपदांतोदात्तत्वं ॥ २ ॥