श्रवणम्

1.118.11 समानपद
आ श्ये॒नस्य॒ जव᳚सा॒ नूत᳚नेना॒स्मे या᳚तं नासत्या स॒जोषा᳚ः ।
हवे॒ हि वा᳚मश्विना रा॒तह᳚व्यः शश्वत्त॒माया᳚ उ॒षसो॒ व्यु᳚ष्टौ ॥
▶ पदपाठः (Word-by-word)
आ । श्ये॒नस्य᳚ । जव᳚सा । नूत᳚नेन । अ॒स्मे इति᳚ । या॒त॒म् । ना॒स॒त्या॒ । स॒॑जोषाः᳚᳚ ।
हवे᳚ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒त॑ह᳚व्यः । श॒श्व॒त्॑त॒मायाः᳚ । उ॒षसः᳚ । वि॑उ᳚ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ सजोषाः सजोषसौ समानप्रीतियुक्तौ श्येनस्य शंसनीयं गच्छतोऽश्वस्य नूतनेन नवतरेण प्रत्यग्रेण जवसा वेगेन सहितौ युवामस्मे अस्माना यातम् । आगच्छतम् । अश्विना हे अश्विनौ रातहव्यो वां युवाभ्यां दातव्येन हविषा युक्तः सन् शश्वत्तमायाः कालात्मकतया नित्याया उषसो व्युष्टौ विवासनसमये वां युवां हवे । आह्वयामि । हिर्हेतौ । हि यस्मादेवं तस्मादा यातमित्यर्थः ॥ अस्मे । सुपां सुलुगिति शसः शेआदेशः । सजोषाः । तेनैव द्विवचनस्य सुआदेशः । हवे । ह्वेञो लडुत्तमैकवचने बहुलं छंदसीति संप्रसारणम् । शब्गुणावादेशाः । शश्वत्तमायाः । उत्तमशश्वत्तमौ सर्वत्र (पा ६-१-१६०) इत्युंछादिषु पाठादंतोदात्तत्वं ॥ ११ ॥