श्रवणम्

1.118.6
उद्वन्द᳚नमैरतं दं॒सना᳚भि॒रुद्रे॒भं द᳚स्रा वृषणा॒ शची᳚भिः ।
निष्टौ॒ग्र्यं पा᳚रयथः समु॒द्रात्पुन॒श्च्यवा᳚नं चक्रथु॒र्युवा᳚नम् ॥
▶ पदपाठः (Word-by-word)
उत् । वन्द᳚नम् । ऐ॒र॒त॒म् । दं॒सना᳚भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची᳚भिः ।
निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति᳚ । च्यवा᳚नम् । च॒क्र॒थुः॒ । युवा᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वंदनमेतत्संज्ञमृषिं दंसनाभिरात्मीयैः कर्मभिः कूपादुदैरतम् । उदैरयतम् । उदगमयतम् । हे दस्रा दर्शनीयौ वृषणा कामानां वर्षितारावश्विनौ शचीभिः कर्मभी रेभमेतत्संज्ञ मृषिं दश रात्रीर्नवाहानि च कूपे निवसंतं तस्मादुदैरयतम् । उदतारयतम् । तथा तौग्र्यं तुग्रस्य पुत्रं भुज्युं समुद्रे निमग्नमात्मीयाभिर्नौभिरश्वैश्च समुद्रान्निष्पारयथः । तीरदेशं प्रापित वंतौ । तथा च्यवानं च्यवनमृषिं जीर्णं पुनर्युवानं यौवनोपेतं चक्रथुः । कृतवंतौ ॥ ऐरतम् । ईर गतौ कंपने च । ण्यंताल्लङि छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः ॥ ६ ॥