प्रथमं मण्डलम् - सूक्तम् 27

13 ऋचः

ऋषिः: शुनःशेप आजीगर्तिः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 1.27 - सम्पूर्णम्

1 / 13
ऋक्: 1.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.27.1
अश्वं॒ न त्वा॒ वार᳚वन्तं व॒न्दध्या᳚ अ॒ग्निं नमो᳚भिः ।
स॒म्राज᳚न्तमध्व॒राणा᳚म् ॥
▶ पदपाठः (Word-by-word)
अश्व᳚म् । न । त्वा॒ । वार᳚॑वन्तम् । व॒न्दध्यै᳚ । अ॒ग्निम् । नमः᳚॑भिः ।
स॒म्॑राज᳚न्तम् । अ॒ध्व॒राणा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वराणां यज्ञानां सम्राजंतं सम्राट् स्वरूपं स्वामिनमग्निं त्वां नमोभिः स्तुतिभिर्वंदध्यै वंदितुं प्रवृत्ता इति शेषः । अत्र दृष्टांतः । वारवंतं वालयुक्तमश्वं न अश्वमिव । अश्वो यथा वालैर्बाधकान्मशकमक्षिकादीन्परिहरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसीत्यर्थः ॥ वारवंतम् । मतुपः पित्त्वादनु दात्तत्वम् । घञो ञित्त्वादाद्युदात्तो वारशब्दः । कर्षात्वत इत्यंतोदात्तत्वं व्यत्ययेन न प्रवर्तते । वंदद्यै । वदि अभिवादनस्तुत्योः । इदितो नुम् धातोरिति नुम् । तुमर्थे सेसेनित्यध्यैप्रत्ययः । प्रत्ययस्वरः । सम्राजंतम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरेण स एव । अध्वराणाम् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ १ ॥

1.27.2
स घा᳚ नः सू॒नुः शव᳚सा पृ॒थुप्र᳚गामा सु॒शेवः᳚ ।
मी॒ढ्वा{4} अ॒स्माकं᳚ बभूयात् ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । नः॒ । सू॒नुः । शव᳚सा । पृ॒थु॑प्र᳚गामा । सु॒॑शेवः᳚ ।
मी॒ढ्वान् । अ॒स्माक᳚म् । ब॒भू॒या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स घ स एवाग्निर्नोऽस्माकं सुशेवः सुसुखो भवत्विति शेषः । कीदृशः । शवसा बलस्य सूनुः पुत्रः पृथुप्रगामा पृथृप्रगमनः । किंचास्माकं मीढ्वान् कामानां वर्षिता बभूयात् । भवतु ॥ घा नः । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । शवसा । सुपाम् । सुपो भवंतीति ङसष्टादेशः । पृथुप्रगामा । प्रकर्षेण गमनं प्रगामः । हलश्चेति घञ् । पृथुः प्रगामा यस्यासौ पृथुप्रगामा । सुपां सुलुगिति पूर्वसवर्ण आकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुशेवः । इण्शीङ् भ्यां वन् (उ १-१५२) इति शेवशब्दो वन्प्रत्ययांत आद्युदात्तः । ततो बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वे प्राप्त आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । मीढ्वान् । मिह सेचन इत्यस्मात्क्वसुप्रत्ययांतो दाश्वान् साह्वान् मीढ्वांश्छेति निपातितः । बभूयात् । भवतेश्छांदसस्य लिटस्तिङां तिङो भवंति (म ७-१-३९) इति लिङादेशः । यासुट् स्थानिवद्भावादार्धधातुकत्वाच्छबभावः । द्विर्वचने भवतेरः (पा ७-४-७३) इत्यत्वम् । तिङ्ङतिङ इति निघातः ॥ २ ॥

1.27.3
स नो᳚ दू॒राच्चा॒साच्च॒ नि मर्त्या᳚दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायु᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या᳚त् । अ॒घ॒॑योः ।
पा॒हि । सद᳚म् । इत् । वि॒श्व॑आ᳚युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वायुर्व्याप्तगमनः स त्वं दूराच्च दूरेऽपि आसाच्चासन्नदेशेऽपि अघायोरघं पापमनिष्टं कर्तुमिच्छतो मर्त्यान्मनुष्याद्वैरिणो नोऽस्मान्सदमित् सर्वदैव नि पाहि । नितरां पालय ॥ अघायोः । सुप आत्मनः क्यच् । अश्वाघस्यात् (पा ७-४-३७) इत्यात्वम् । पाहि । पादादित्वादनिघातः । विश्वायुः । इण् गतावित्यस्माद्भावे एतेर्णिच्च (उ २-११९) इत्युसिः । विश्वमयनं गगनं यस्येति बहुव्रीहिः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वं ॥ ३ ॥

1.27.4
इ॒ममू॒ षु त्वम॒स्माकं᳚ स॒निं गा᳚य॒त्रं नव्यां᳚सम् ।
अग्ने᳚ दे॒वेषु॒ प्र वो᳚चः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । ऊं॒ इति᳚ । सु । त्वम् । अ॒स्माक᳚म् । स॒निम् । गा॒य॒त्रम् । नव्यां᳚सम् ।
अग्ने᳚ । दे॒वेषु᳚ । प्र । वो॒चः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमस्माकमस्मत्संबंधिनमिममू षु पुरोदेशेऽनुष्ठीयमानमपि सनिं हविर्दानं नव्यांसं नवतरं गायत्रं स्तुतिरूपं वचोऽपि देवेषु देवानामग्रे प्र वोच ॥ प्रब्रूबि ॥ ऊ षु । निपातस्य चेति संहितायां दीर्घत्वम् । सुञ इति षत्वम् । नव्यांसम् । नवशब्दादीयसुनीकारलोपश्छांदसः । ईयसुनो नित्त्वादाद्युदात्तत्वम् । वोचः । छंदसि लुङ् लङ् लिट इति लोडर्थे प्रार्थनायां लुङ्यस्यतिवक्तीति च्लेरङादेशः (पा ३-१-५२) वच उम् । पा ७-४-२० ॥ ४

1.27.5
आ नो᳚ भज पर॒मेष्वा वाजे᳚षु मध्य॒मेषु᳚ ।
शिक्षा॒ वस्वो॒ अन्त᳚मस्य ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । भ॒ज॒ । प॒र॒मेषु᳚ । आ । वाजे᳚षु । म॒ध्य॒मेषु᳚ ।
शिक्ष᳚ । वस्वः᳚ । अन्त᳚मस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने परमेषूत्कृष्वेषु द्युलोकवर्तिषु वाजेष्वन्नेषु नोऽस्मानाभज । सर्वतः प्रापय । मध्यमेष्वंतरिक्षलोकवर्तिषु वाजीष्वा भज । अंतमस्यांतिकतमस्य भूलोकस्य संबंधीनि वस्वो वसूनि शिक्ष । देहि ॥ शिक्ष । शिक्ष विद्योपादाने । शपः पित्त्वाद्धातुस्वरः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । अंतमस्य । अंतिकतमस्य तमे तादेश्च । पा ६-४-१४९-९ । इति तिकशब्दलोपः ॥ २२ ॥ ५ ॥

1.27.6
वि॒भ॒क्तासि᳚ चित्रभानो॒ सिन्धो᳚रू॒र्मा उ᳚पा॒क आ ।
स॒द्यो दा॒शुषे᳚ क्षरसि ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ॒क्ता । अ॒सि॒ । चि॒त्र॒भा॒नो॒ इति᳚ चित्र॑भानो । सिन्धोः᳚ । ऊ॒र्मौ । उ॒पा॒के । आ ।
स॒द्यः । दा॒शुषे᳚ । क्ष॒र॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे चित्रभानो विचित्ररश्मियुक्ताग्ने विभक्ता विशिष्टस्य धनस्य प्रापयितासि । तत्र दृष्टांत उच्यते । आकार उपमार्थः । यथा सिंधोर्नद्या उपाके समीप ऊर्मावूर्मिं तरंगोपलक्षितं कुल्यादिप्रवाहं विभजंति तद्वत् । दाशुषे । हविर्दत्तवते यजमानाय सद्यस्तदानीमेव क्षरसि । कर्मफलभूतां वृष्टिं करोषि ॥ सिंधोः । स्यंदू प्रस्रवणे । स्यंदेः संप्रसारणं धश्च (उ १-१२) इत्युप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । ऊर्मिः । अर्तेरूच्च (उ ४-४४) इति मिः । प्रत्यय स्वरः । दाशुषे । धृतव्रताय दाशुषे । ऋग्वे १-२५-६ । इत्यत्रोक्तं ॥ ६ ॥

1.27.7
यम᳚ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे᳚षु॒ यं जु॒नाः ।
स यन्ता॒ शश्व᳚ती॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । अ॒ग्ने॒ । पृ॒त्॑सु । मर्त्य᳚म् । अवाः᳚ । वाजे᳚षु । यम् । जु॒नाः ।
सः । यन्ता᳚ । शश्व᳚तीः । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पृत्सु संग्रामेषु यं मर्त्यं यजमानमवा अवसि रक्षसि । यं पुरुषं वाजेषु संग्रामेषु जुनाः प्रेरयसि । स नरो यजमानः शाश्वतीरिषो नित्यान्यन्नानि यंता । नियंतुं समर्थो भवति ॥ पृत्सु । पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् । पा ६-१-६३-१ । इति पृतनाशब्दस्य पृदादेशः । सावेकाच इति विभक्तेरुदात्तत्वम् । अवाः । आवः । अकाराकारयोर्विपर्ययः । यद्वा । लेट्याडागमः । इतश्चेति सिप इकारस्य लोपः । जुनाः । जू इति गत्यर्थः सौत्रो धातुः । लङः सिप् । क्रादिभ्यः श्ना । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । यद्वृत्तयोगादनिघातः । यंता तृनो नित्त्वादाद्युदात्तत्वम् । शश्वतीः । उगितश्चेति ङीप् ॥ ७ ॥

1.27.8
नकि᳚रस्य सहन्त्य पर्ये॒ता कय᳚स्य चित् ।
वाजो᳚ अस्ति श्र॒वाय्य᳚ः ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । अ॒स्य॒ । स॒ह॒न्त्य॒ । प॒रि॒॑ए॒ता । कय᳚स्य । चि॒त् ।
वाजः᳚ । अ॒स्ति॒ । श्र॒वाय्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहंत्य शत्रूणामभिभवनशीलाग्ने अस्य त्वद्भक्तस्य यजमानस्य कयस्य चिक्कस्यापि पर्येता नकिः । आक्रमिता नास्ति । किंचास्य यजमानस्य श्रवाय्यः श्रवणेयो वाजोऽस्ति । बलविशेषोऽस्ति ॥ कयस्य । यकारोपजनश्छांदसः । श्रवाय्यः । श्रुदक्षिस्पृहिग्रहिभ्य आय्यः (उ ३-९५) इत्याय्यप्रत्ययः ॥ ८ ॥

1.27.9
स वाजं᳚ वि॒श्वच᳚र्षणि॒रर्व᳚द्भिरस्तु॒ तरु᳚ता ।
विप्रे᳚भिरस्तु॒ सनि᳚ता ॥
▶ पदपाठः (Word-by-word)
सः । वाज᳚म् । वि॒श्व॑च᳚र्षणिः । अर्व᳚त्॑भिः । अ॒स्तु॒ । तरु᳚ता ।
विप्रे᳚भिः । अ॒स्तु॒ । सनि᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वचर्षणिः सर्वैर्मनुष्यैरुपेतः सोऽग्निरर्वद्भरश्वैर्वाजं संग्रामं तरुता तारयितास्तु । विप्रेभिर्मेधाविभिर्ऋृत्विग्भिः सहितस्तुष्वोग्निः सनिता फलस्य दातास्तु ॥ विश्वचर्षणिः । विश्वे चर्षणयो यस्य । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । अर्वद्भिः । ऋ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । भिस्यर्वणस्त्रसावनञः (पा ६-४-१२७) इति नकारस्य तृ इत्ययमादेशः । तरुता । तृप्लवनतरणयोः । अस्माद्ग्रसितस्कभितेत्यादौ (पा ७-२-३४) तृनंतो निपातितः । निपातनादेवेकारस्योत्वं ॥ ९ ॥

1.27.10
जरा᳚बोध॒ तद्वि᳚विड्ढि वि॒शेवि᳚शे य॒ज्ञिया᳚य ।
स्तोमं᳚ रु॒द्राय॒ दृशी᳚कम् ॥
▶ पदपाठः (Word-by-word)
जरा᳚॑बोध । तत् । वि॒वि॒ड्ढि॒ । वि॒शे॑वि᳚शे । य॒ज्ञिया᳚य ।
स्तोम᳚म् । रु॒द्राय᳚ । दृशी᳚कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्तोर्यामे होतुरतिरिक्तोक्थे जराबोध तद्विविढ्ढीति स्तोत्रियस्तृचः । यस्य पशवो नोपधरेरन्निति खंडे सूत्रितम् । अतिरिक्तोक्थानि जराबोध तद्विविड्डि (आ ९-११) इति ॥

हे जराबोध जरया स्तुत्या बोधमानाग्ने विशेविसे तत्तद्यजमानरूपप्रजानुग्रहार्थं यज्ञियाय यज्ञ संबंध्यनुष्ठानसिद्ध्यर्थं तदेव यजनं विविड्ढि । प्रविश । यजमानोऽपि रुद्राय क्रूरायाग्नये तुभ्यं दृशीकं दर्शनीयं समीचीनं स्तोमं स्तोत्रं करोतीति शेषः । अत्र यास्क एवं व्याख्यातवान् । जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध तया बोधयितरिति वा तद्विविड्ढि तत्कुरु मनुष्यस्य मनुष्यस्य यजनाय स्तोमं रुद्राय दर्शनीयम् । नि १०-८ । इति ॥ जराबोध । जृष् वयोहानौ । अत्र तु स्तुत्यर्थः । षिद्भिदादिभ्योऽङ् (पा ३-३-१०४) इत्यङ् प्रत्ययः । ततष्वाप् । जरया स्तुत्या बोधो यस्यासौ जराबोधः । यद्वा । जरया बोध्यत इति जराबोधः । कर्मणि घञ् । आमंत्रिताद्युदात्तत्वम् । विविड्ढिविश प्रवेशने । लोटो हि । बहुलं छंदसीति शपः श्लुः । अभ्यासहलादिशेषौ । हुझल्भ्यो हेर्धिरिति हेर्धिरादेशः । षत्वष्टुत्वे । यद्वा । विष्लृ व्याप्तावित्यस्मालोण्मध्यमैकवचनेऽभ्यासस्य गुणाभावः । विशे विशे । सावेकाच इति चतुर्थ्या उदात्तत्वम् । अनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । यज्ञियाय । यज्ञर्त्विग्भ्यां फखञौ (पा ५-१-७१) इति घः । दृशीकम् । अनिदृशिभ्यां चेति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ २३ ॥ १० ॥

1.27.11
स नो᳚ म॒हा{4} अ᳚निमा॒नो धू॒मके᳚तुः पुरुश्च॒न्द्रः ।
धि॒ये वाजा᳚य हिन्वतु ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । म॒हान् । अ॒नि॒॑मा॒नः । धू॒म॑के᳚तुः । पु॒रु॒॑च॒न्द्रः ।
धि॒ये । वाजा᳚य । हि॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निर्नोऽस्मान्धिये कर्मणे वाजायान्नाय च हिन्वतु । प्रीणयतु । कीदृशः । महान् गुणाधिकः अनिमानो निमानवर्जितः । अपरिच्छिन्न इत्यर्थः । धूमकेतुर्धूमेन ज्ञाप्यमानः पुरुश्चंद्रो बहुदीप्तिः ॥ महा अनीत्यत्र संहितायां नकारस्य रुत्वानुनासिकावुक्तौ ॥ अनिमानः । न विद्यते । निमानोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । धूमकेतुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पुरुश्चंद्रः । चदि आह्लादने दीप्तौ च । अस्मात्स्फायितंचीत्यादिना कर्तरिरक् । पुरुश्चासौ चंद्रश्चेति समासांतोदात्तत्वम् । ह्रस्वाच्चंद्रोत्तरपदे मंत्रे (पा ६-१-१५१) इति सुट् । तस्य श्चुत्वेन शकारः । धिये । सावेकाच इति चतुर्थ्या उदात्तत्वम् । हिन्वतु । हिवि प्रीणनार्थः । इदितो नुम् धातोरिति नुम् ॥ ११ ॥

1.27.12
स रे॒वा{4} इ᳚व वि॒श्पति॒र्दैव्य᳚ः के॒तुः शृ᳚णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः ॥
▶ पदपाठः (Word-by-word)
सः । रे॒वान्॑इ᳚व । वि॒श्पतिः᳚ । दैव्यः᳚ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
उ॒क्थैः । अ॒ग्निः । बृ॒हत्॑भा᳚नुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निरुक्थैः स्तोत्रैर्युक्तान् नोऽस्मान् शृुणोतु । तत्र दृष्टांतः । रेवानिव । यथा लोके धनवान् राजा वंदिनां स्तोत्रं शृणोति तद्वत् । कीदृशः । विश्पतिः प्रजापालको दैव्यो देवानां संबंधी । अग्निर्वै देवानां होता । ऐ ब्रा ३-१४ । इति श्रुत्यंतरात् । केतुर्दूतवज्ज्ञा पकः । अग्निर्वै देवानां दूत आसीत् । तै सं २-५-८-५ । इति श्रुतेः । बृहद्भानुः । प्रौढरश्मिः ॥ स रेवान् । एतत्तदोः (पा ६-१-१३२) इति सोर्लोपः । रयेर्मतौ बहुलमिति संप्रसारणम् । परपूर्वत्वम् । आद्गुणः । छंदसीर इति मतुपो वत्वम् । आरेशब्दाच्च मतुप उदात्तत्वम् । विश्पतिः । परादिश्छंदसि । बहुलमित्युत्तरपदाद्युदात्तत्वम् । बृहद्भानुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १२ ॥

1.27.13
नमो᳚ म॒हद्भ्यो॒ नमो᳚ अर्भ॒केभ्यो॒ नमो॒ युव᳚भ्यो॒ नम᳚ आशि॒नेभ्य᳚ः ।
यजा᳚म दे॒वान्यदि᳚ श॒क्नवा᳚म॒ मा ज्याय᳚स॒ः शंस॒मा वृ᳚क्षि देवाः ॥
▶ पदपाठः (Word-by-word)
नमः᳚ । म॒हत्॑भ्यः᳚ । नमः᳚ । अ॒र्भ॒केभ्यः᳚ । नमः᳚ । युव᳚भ्यः । नमः᳚ । आ॒शि॒नेभ्यः᳚ ।
यजा᳚म । दे॒वान् । यदि᳚ । श॒क्नवा᳚म । मा । ज्याय᳚सः॒ । शंस᳚म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे नमो महद्भ्य इत्येषा ब्रह्मौदने प्राशिष्यमाण इति खंडे सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः (आ १-४) इति सूत्रितं ॥

अग्निना प्रेरितः शुनःशेपो विश्वान्देवाननया तुष्टाव । तथा चाम्नायते । तमग्निरुवाच । विश्वान्नु देवान् स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा । ऐ ब्रा ७-१६ । इति ॥ महांतो गुणैरधिकाः । अर्भको गुणैर्न्यूनाः युवानस्तरुणाः । आशिना वयसा व्याप्ता वृद्धाः यथोक्तचतुर्विधदेहयुक्तेभ्यो देवेभ्यो नमोऽस्तु । यदि शक्नवाम कथंचिद्धनादिसंपत्त्या शक्ताश्चेत्तदानीं देवान्यजाम । हे देवा ज्यायसो ज्येष्ठस्य देवताविशेषस्य आ सर्वतः प्रसृतं शंसं स्तोत्रं मा वृक्षि । अहं विच्छन्नं मा कार्षं ॥ आशिनेभ्यः । अशू व्याप्तौ । बहुलमन्यत्रापि (उ २-४९) इत्यौणादिक इनच् प्रत्ययः । चित इत्यंतोदात्तत्वम् । यजाम । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शक्नवाम । शक्लृ शक्तौ । आडुत्तमस्य पिच्चेति तिङः । पिद्वद्भावादनुदात्तत्वे सति विकरणस्वरः । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । ज्यायसः । प्रशस्यशब्दादीयसुनि ज्य च (पा ५-३-६१) इति ज्यादेशः । ज्यादादीयसः (पा ६-४-१६०) इतीयसुन ईकारस्यात्वम् । नित्त्वादाद्युदात्तत्वम् । शंसम् । हलश्चेति घञ् । वृक्षि । ओ व्रश्चू छेदने । व्यत्ययेनात्मनेपदोत्तमपुरुषैकवचनमिट् । च्लेः सिच् । स्वरितसूतीत्यादिना इडभावः स्कोः संयोगाद्योरित्युपधासकारलोपः । व्रश्चादिना षत्वम् । षढोः कः सीति कत्वम् । आदेशप्रत्ययोरिति षत्वम् । न माङ्योग इत्यडभावः ॥ २४ ॥ १३ ॥