श्रवणम्

1.27.12
स रे॒वा{4} इ᳚व वि॒श्पति॒र्दैव्य᳚ः के॒तुः शृ᳚णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः ॥
▶ पदपाठः (Word-by-word)
सः । रे॒वान्॑इ᳚व । वि॒श्पतिः᳚ । दैव्यः᳚ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
उ॒क्थैः । अ॒ग्निः । बृ॒हत्॑भा᳚नुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निरुक्थैः स्तोत्रैर्युक्तान् नोऽस्मान् शृुणोतु । तत्र दृष्टांतः । रेवानिव । यथा लोके धनवान् राजा वंदिनां स्तोत्रं शृणोति तद्वत् । कीदृशः । विश्पतिः प्रजापालको दैव्यो देवानां संबंधी । अग्निर्वै देवानां होता । ऐ ब्रा ३-१४ । इति श्रुत्यंतरात् । केतुर्दूतवज्ज्ञा पकः । अग्निर्वै देवानां दूत आसीत् । तै सं २-५-८-५ । इति श्रुतेः । बृहद्भानुः । प्रौढरश्मिः ॥ स रेवान् । एतत्तदोः (पा ६-१-१३२) इति सोर्लोपः । रयेर्मतौ बहुलमिति संप्रसारणम् । परपूर्वत्वम् । आद्गुणः । छंदसीर इति मतुपो वत्वम् । आरेशब्दाच्च मतुप उदात्तत्वम् । विश्पतिः । परादिश्छंदसि । बहुलमित्युत्तरपदाद्युदात्तत्वम् । बृहद्भानुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १२ ॥