श्रवणम्

1.27.9
स वाजं᳚ वि॒श्वच᳚र्षणि॒रर्व᳚द्भिरस्तु॒ तरु᳚ता ।
विप्रे᳚भिरस्तु॒ सनि᳚ता ॥
▶ पदपाठः (Word-by-word)
सः । वाज᳚म् । वि॒श्व॑च᳚र्षणिः । अर्व᳚त्॑भिः । अ॒स्तु॒ । तरु᳚ता ।
विप्रे᳚भिः । अ॒स्तु॒ । सनि᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वचर्षणिः सर्वैर्मनुष्यैरुपेतः सोऽग्निरर्वद्भरश्वैर्वाजं संग्रामं तरुता तारयितास्तु । विप्रेभिर्मेधाविभिर्ऋृत्विग्भिः सहितस्तुष्वोग्निः सनिता फलस्य दातास्तु ॥ विश्वचर्षणिः । विश्वे चर्षणयो यस्य । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । अर्वद्भिः । ऋ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । भिस्यर्वणस्त्रसावनञः (पा ६-४-१२७) इति नकारस्य तृ इत्ययमादेशः । तरुता । तृप्लवनतरणयोः । अस्माद्ग्रसितस्कभितेत्यादौ (पा ७-२-३४) तृनंतो निपातितः । निपातनादेवेकारस्योत्वं ॥ ९ ॥