प्रथमं मण्डलम् - सूक्तम् 148

5 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.148 - सम्पूर्णम्

1 / 5
ऋक्: 1.148.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.148.1
मथी॒द्यदीं᳚ वि॒ष्टो मा᳚त॒रिश्वा॒ होता᳚रं वि॒श्वाप्सुं᳚ वि॒श्वदे᳚व्यम् ।
नि यं द॒धुर्म᳚नु॒ष्या᳚सु वि॒क्षु स्व१॒᳚र्ण चि॒त्रं वपु᳚षे वि॒भाव᳚म् ॥
▶ पदपाठः (Word-by-word)
मथी᳚त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा᳚ । होता᳚रम् । वि॒श्व॑अ᳚प्सुम् । वि॒श्व॑दे᳚व्यम् ।
नि । यम् । द॒धुः । म॒नु॒ष्या᳚सु । वि॒क्षु । स्वः᳚ । न । चि॒त्रम् । वपु᳚षे । वि॒भा॑व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होतारं देवानामाह्वातारं विशाप्सुं अप्स्वितिरूपनाम नानारूपं पार्थिववैद्युतजाठरादिभेदेनआ- हवनीयादिभेदेनवा यद्वा कालीकराल्यादिरूपेण ज्वालानांवैरूप्याद्विश्वरूपत्वं विश्वदेव्यं सर्वदेवयो- ग्यक्रियासाधुं यदीयंमेनमग्निं मातरिश्वा वृष्ट्यादिनिर्मात्रन्तरिक्षश्वसनोवायुः विष्टः काष्ठेष्वन्तःप्रवि- ष्टःसन् मथीत् अमश्नात्प्रावर्धयदित्यर्थः मथेविलोडने ह्न्यन्तक्षणेतिवृद्धिप्रतिषेधः पुनः सएवविशेष्य- ते यमग्निं मनुष्यासु मत्वाकर्मकुर्वतीषु विक्षु ऋत्विग्रूपासुप्रजासु पूर्वं वपुषे यज्ञसिद्धये निदधुर्धारय- न्तियजमानाः मनुष्यशब्दोनिरुक्तेबहुधानिरुक्तः—मनुष्याःकस्मान्मत्वाकर्माणिसीव्यन्तिमनस्यमाने- नसृष्टामनोरपत्यंमनुषोवेति । यद्वा पूर्वं देवाः मनुष्यासु मनोरपत्यभूतासु विक्षु प्रजासुप्राणिषु वपुषे स्वरूपाययागादिस्वरूपप्रकाशाय शरीरधारणायवा जाठराग्निरूपेण निदधुः स्थापितवन्तः तत्रदृष्टा- न्तः—स्वःन स्वरणंस्वीरणंवाआदित्यमिव चित्रं चायनीयं विभावं विविधप्रकाशवन्तं यथाप्रकाशा- दिसाधनायधरयन्ति तद्वत् स्वःशब्दंयास्कएवंनिरुवाच—स्वरादित्योभवतिसुअरणःसुईरणःस्वृतोर- सान् स्वृतोभासंज्योतिषांस्वृतोभासेतिवेति । ईदृशं यंनिदधुः तंमथीदितिपूर्वत्रान्वयः ॥ १ ॥

1.148.2
द॒दा॒नमिन्न द᳚दभन्त॒ मन्मा॒ग्निर्वरू᳚थं॒ मम॒ तस्य᳚ चाकन् ।
जु॒षन्त॒ विश्वा᳚न्यस्य॒ कर्मोप᳚स्तुतिं॒ भर᳚माणस्य का॒रोः ॥
▶ पदपाठः (Word-by-word)
द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म᳚ । अ॒ग्निः । वरू᳚थम् । मम᳚ । तस्य᳚ । चा॒क॒न् ।
जु॒षन्त᳚ । विश्वा᳚नि । अ॒स्य॒ । कर्म᳚ । उप᳚॑स्तुतिम् । भर᳚माणस्य । का॒रोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्ममननीयंस्तोत्रं हविरादिकंवाददानमित् अग्नयेकुर्वाणमेवमां दंभितारोवैरिणोनददभंत दंभितुं हिंसितुंनप्रभवन्ति दंभेर्बहुलंछन्दसीतिविकरणस्यश्लुः व्यत्ययेनान्तादेशः ममकोऽतिशयइतिउच्यते तस्यप्रदातुर्ममवरूथं वरणीयं स्तोत्रादिकं अयमग्निश्चाकन् अत्यर्थं कामयते कनतिःकांतिकर्मा अस्मा- द्यङ्लुगन्ताल्लङि छान्दसोडभावः बहुलादेववाछान्दसस्तुजादित्वादभ्यासदीर्घः यस्मादेवंतस्मान्नद- भ्नुवन्तीत्यर्थः नकेवलमग्निरेवकामयते किंतु सर्वेदेवाः कामयन्तइत्याह—उपस्तुतिं तंतंदेवमुपेत्य क्रियमाणांस्तुतिंभरमाणस्यकुर्वाणस्य कारोःस्तोतुः अस्ययजमानस्यमम विश्वानि सर्वाणि हविःप्र- दानादिरूपाणि कर्माणिजुषन्त सेवन्ते सर्वेदेवाः अतोनददभन्तेत्यर्थः ॥ २ ॥

1.148.3 समानपद
नित्ये᳚ चि॒न्नु यं सद᳚ने जगृ॒भ्रे प्रश᳚स्तिभिर्दधि॒रे य॒ज्ञिया᳚सः ।
प्र सू न᳚यन्त गृ॒भय᳚न्त इ॒ष्टावश्वा᳚सो॒ न र॒थ्यो᳚ रारहा॒णाः ॥
▶ पदपाठः (Word-by-word)
नित्ये᳚ । चि॒त् । नु । यम् । सद᳚ने । ज॒गृ॒भ्रे । प्रश᳚स्ति॑भिः । द॒धि॒रे । य॒ज्ञिया᳚सः ।
प्र । सु । न॒य॒न्त॒ । गृ॒भय᳚न्तः । इ॒ष्टौ । अश्वा᳚सः । न । र॒थ्यः᳚ । र॒र॒हा॒णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियासोयज्ञयोग्यायजमानाऋत्विजोवा यं मथनेनोत्पन्नमग्निं नित्येचित् सदने नित्यएवगार्ह- पत्यलक्षणे अग्र्यासादनस्थाने नु क्षिप्रं जगृभ्रे गृह्णन्ति ग्रहेर्लिटिइरयोरेइतिरेभावः हृग्रहोर्भइतिभत्वं नित्यंगतश्रियोध्रियते नित्यंगार्हपत्यमितिसूत्राद्गार्हपत्योनित्यः तदाश्रयत्वात्सदनमपिनित्यमुच्यते गृहीत्वाप्रशस्तिभिः प्रशंसाभिः स्तुतिभिः दधिरे धारयन्त्याहवनीयार्थं धृत्वाच इष्टौ एषणेसाधने- यज्ञेनिमित्तभूतेसति गृभयन्तः गृह्णन्तः ऋत्विजः प्रसूनयन्त सुष्ठुप्रणयन्ति तत्रदृष्टान्तः—ररहाणाः रंहसागच्छन्तः रहिगतौ छान्दसस्यलिटःकानच् अनित्यमागमशासनमितिनुमभावः रथ्योरभवन्तः तत्रनियुक्ताः छन्दसीवनिपावितिरथशब्दान्मत्वर्थीयईकारः अश्वासोन अश्वाइव तेयथाधृत्वा रथ- स्वामिनमभिमतदेशंनयन्तितद्वत् ॥ ३ ॥

1.148.4
पु॒रूणि᳚ द॒स्मो नि रि᳚णाति॒ जम्भै॒राद्रो᳚चते॒ वन॒ आ वि॒भावा᳚ ।
आद᳚स्य॒ वातो॒ अनु᳚ वाति शो॒चिरस्तु॒र्न शर्या᳚मस॒नामनु॒ द्यून् ॥
▶ पदपाठः (Word-by-word)
पु॒रूणि᳚ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः᳚ । आत् । रो॒च॒ते॒ । वने᳚ । आ । वि॒भा॑वा᳚ ।
आत् । अ॒स्य॒ । वातः᳚ । अनु᳚ । वा॒ति॒ । शो॒चिः । अस्तुः᳚ । न । शर्या᳚म् । अ॒स॒नाम् । अनु᳚ । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रदावाग्निरूपेणायं स्तूयते दस्मउपक्षपयितायमग्निः पुरूणिबहूनिवृक्षादीनिनिरिणातिनितरां- हिनस्ति रीगतिरेषणयोः प्वादित्वाद्धस्वः केनसाधनेनेतितदुच्यते—जंभैर्दन्तस्थानीयाभिर्ज्वालाभिः आत् दाहानन्तरं वनेवृक्षादिसमूहात्मके विभावाविविधप्रकाशयुक्तःसन् आसर्वतः रोचते दीप्तोभवति आत् अनन्तरं अस्यशोचिर्ज्वाला अनु अनुकूलोवातः अग्निसखिभूतोवायुः अनुद्यून् अन्वितिवीप्सार्थे प्रतिदिनं वाति ज्वालाआदायगच्छति तत्रदृष्टान्तः—अस्तुः क्षेप्तुः सकाशात् असनां गच्छन्तीं शर्यांन शरोनाम हिंसासाधनलोहमयमिषुमुखं तत्प्रचुरां यद्वा शरोनामवंशावान्तरजातीयः काष्ठविशेषः त- द्विकारां इषुमिव शर्याइषवःशरमय्यइतियास्कः । यद्वा शरएवशर्या अथवा शरोहिंसा तत्करोतीति- शर्याइषुः तांयथावायुर्नोदकजन्योवेगोवाअनुकूलंप्रेरयति तद्वत् ॥ ४ ॥

1.148.5 समानपद
न यं रि॒पवो॒ न रि᳚ष॒ण्यवो॒ गर्भे॒ सन्तं᳚ रेष॒णा रे॒षय᳚न्ति ।
अ॒न्धा अ᳚प॒श्या न द᳚भन्नभि॒ख्या नित्या᳚स ईं प्रे॒तारो᳚ अरक्षन् ॥
▶ पदपाठः (Word-by-word)
न । यम् । रि॒पवः᳚ । न । रि॒ष॒ण्यवः᳚ । गर्भे᳚ । सन्त᳚म् । रे॒ष॒णाः । रे॒षय᳚न्ति ।
अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒॑ख्या । नित्या᳚सः । ई॒म् । प्रे॒तारः᳚ । अ॒र॒क्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निंगर्भेगर्भवद्रक्षकेअरणिमध्येसन्तंवर्तमानंरिपवोनराः नरेषयन्ति नदुःखयन्ति तथा रिषण्य- वोऽन्येहिंसकाः दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिक्यचिनिपात्यते क्याच्छन्दसीत्युः नहिंसन्ति कीदृशास्ते रेषणाः हिंसनस्वभावाः यद्वा तैः क्रियमाणाहिंसनप्रकारानहिंसन्ति किंचास्याभिख्या अभितःख्यातिंमाहात्म्यंअंधाः ज्ञानशक्तिरहिताः अविद्वांसः अतएवअपश्याः अद्रष्टारः यद्वा विद्वां- सोप्यभावयितारः अनुपासकाइत्यर्थः ईदृग्रूपाभयेऽपिनदभन् नदभ्नुवन्ति नहिंसन्ति लौकिकोपका- रेणापिप्रयोजकत्वादितिभावः तर्ह्यस्यपारमार्थिकंरूपंकेजानन्तीतिचेत् उच्यतेनित्यासोनित्याः अवि- चलितभक्तयः अग्निहोत्रादिनित्यकर्मरतावाअग्न्यनुग्रहात् स्वयमपि नित्याभविष्यन्तीतिभाविनित्य- त्वमाश्रित्यनित्यौपचर्यन्ते तादृशायजमानाः प्रेतारः यज्ञादिनातमेवतर्पयितारः सन्तः ईंएनमरक्षन् रक्षन्ति यज्ञादिरूपेणभजन्तइत्यर्थः ॥ ५ ॥

महःसइति पंचर्चंनवमंसूक्तम् दैर्घतमसंवैराजमाग्नेयं दशकास्त्रयोविराळेकादशकावेत्युक्तलक्षण- सद्भावात् तथाचानुक्रान्तं—महःसवैराजमिति विनियोगोलैङ्गिकः ।