श्रवणम्

1.148.4
पु॒रूणि᳚ द॒स्मो नि रि᳚णाति॒ जम्भै॒राद्रो᳚चते॒ वन॒ आ वि॒भावा᳚ ।
आद᳚स्य॒ वातो॒ अनु᳚ वाति शो॒चिरस्तु॒र्न शर्या᳚मस॒नामनु॒ द्यून् ॥
▶ पदपाठः (Word-by-word)
पु॒रूणि᳚ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः᳚ । आत् । रो॒च॒ते॒ । वने᳚ । आ । वि॒भा॑वा᳚ ।
आत् । अ॒स्य॒ । वातः᳚ । अनु᳚ । वा॒ति॒ । शो॒चिः । अस्तुः᳚ । न । शर्या᳚म् । अ॒स॒नाम् । अनु᳚ । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रदावाग्निरूपेणायं स्तूयते दस्मउपक्षपयितायमग्निः पुरूणिबहूनिवृक्षादीनिनिरिणातिनितरां- हिनस्ति रीगतिरेषणयोः प्वादित्वाद्धस्वः केनसाधनेनेतितदुच्यते—जंभैर्दन्तस्थानीयाभिर्ज्वालाभिः आत् दाहानन्तरं वनेवृक्षादिसमूहात्मके विभावाविविधप्रकाशयुक्तःसन् आसर्वतः रोचते दीप्तोभवति आत् अनन्तरं अस्यशोचिर्ज्वाला अनु अनुकूलोवातः अग्निसखिभूतोवायुः अनुद्यून् अन्वितिवीप्सार्थे प्रतिदिनं वाति ज्वालाआदायगच्छति तत्रदृष्टान्तः—अस्तुः क्षेप्तुः सकाशात् असनां गच्छन्तीं शर्यांन शरोनाम हिंसासाधनलोहमयमिषुमुखं तत्प्रचुरां यद्वा शरोनामवंशावान्तरजातीयः काष्ठविशेषः त- द्विकारां इषुमिव शर्याइषवःशरमय्यइतियास्कः । यद्वा शरएवशर्या अथवा शरोहिंसा तत्करोतीति- शर्याइषुः तांयथावायुर्नोदकजन्योवेगोवाअनुकूलंप्रेरयति तद्वत् ॥ ४ ॥