प्रथमं मण्डलम् - सूक्तम् 28

9 ऋचः

ऋषिः: शुनःशेप आजीगर्तिः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 1.28 - सम्पूर्णम्

1 / 9
ऋक्: 1.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.28.1 समानपद
यत्र॒ ग्रावा᳚ पृ॒थुबु᳚ध्न ऊ॒र्ध्वो भव᳚ति॒ सोत᳚वे ।
उ॒लूख᳚लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । ग्रावा᳚ । पृ॒थु॑बु᳚ध्नः । ऊ॒र्ध्वः । भव᳚ति । सोत᳚वे ।
उ॒लूख᳚ल॑सुतानाम् । अव᳚ । इत् । ऊं॒ इति᳚ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यत्र यस्मिन्नंजःसवे कर्मणि सोतवेऽभिषवार्थं ग्रावा पाषाणः पृथुबुध्नः स्थूलमूल ऊर्ध्व उन्नतो भवति तस्मिन्कर्मण्युलूखलसुतानामुलूखलेनाभिषुतानां रसमवेत् स्वकीयत्वेनावगत्यैव जल्गुलः । भक्षय ॥ पृथुबुध्नः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भवति । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । सोतवे । षुञ् अभिषवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । उलूखलसुतानाम् । उलूखलेन सुतानाम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । जल्लुलः । गल अदने । अस्मद्यङो लुकि लेण्मध्यमैकवचने लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । उपधाया उत्वं च हलादिशेषाभावश्च पृषोदरादित्वात् ॥ १ ॥

1.28.2
यत्र॒ द्वावि᳚व ज॒घना᳚धिषव॒ण्या᳚ कृ॒ता ।
उ॒लूख᳚लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । द्वौ॑इ᳚व । ज॒घना᳚ । अ॒धि॒॑स॒व॒न्या᳚ । कृ॒ता ।
उ॒लूख᳚ल॑सुतानाम् । अव᳚ । इत् । ऊं॒ इति᳚ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्कर्मण्यधिषवण्या उभे अधिषवणफलके द्वाविव जघना द्वौ जघनप्रदेशाविव । जघनं जंघन्यतेरिति यास्कः (नि ९-२०) कृता विस्तीर्णे कृते संपादिते । अन्यत्पूर्ववत् ॥ जघना । हंतेः शरीरावयवे द्वे च (उ ५-३२) इति हन्धातोरच् । द्वित्वम् । कर्दमादित्वान्मध्योदात्तः (फि ३-१०) सुपां सुलुगित्याकारः । अधिषवण्या । षुञ् अभिषवे । ल्युट् । भवे छंदसीति यत् । उपसर्गात्सुनोतीति षत्वम् । तित्स्वरित इति स्वरितः । न च यतोऽनाव इत्याद्युदात्तत्वम् । तत्र हि निष्ठा च द्व्यजनात् (पा ६-१-२०५) इत्यस्यानुवृत्तेर्द्व्यच् कस्यैव तदिति । कृता । पूर्ववदाकारः ॥ २ ॥

1.28.3
यत्र॒ नार्य᳚पच्य॒वमु᳚पच्य॒वं च॒ शिक्ष᳚ते ।
उ॒लूख᳚लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । नारी᳚ । अ॒प॒॑च्य॒वम् । उ॒प॒॑च्य॒वम् । च॒ । शिक्ष᳚ते ।
उ॒लूख᳚ल॑सुतानाम् । अव᳚ । इत् । ऊं॒ इति᳚ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्कर्मणि नारी पत्न्यपच्यवं शालाया निर्गमनमुपच्यवं च शालाप्राप्तिं च शिक्षते अभ्यासं करोति । अन्यत्पूर्ववत् ॥ अपच्यवम् । च्युङ् गतौ । यादोरबित्यप् । गुणावादेशौ । थाथादिना (पा ६-२-१४४) उत्तरपदांतोदात्तत्वम् । एवमुपच्यवम् । शिक्षते । शिक्ष विद्योपादाने । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः ॥ ३ ॥

1.28.4
यत्र॒ मन्थां᳚ विब॒ध्नते᳚ र॒श्मीन्यमि᳚त॒वा इ᳚व ।
उ॒लूख᳚लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । मन्था᳚म् । वि॒॑ब॒ध्नते᳚ । र॒श्मीन् । यमि᳚त॒वै॑इ᳚व ।
उ॒लूख᳚ल॑सुतानाम् । अव᳚ । इत् । ऊं॒ इति᳚ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्कर्मणि मंथामाशिरमथनहेतुं मंथानं विबध्नंति । तत्र दृष्टांतः । रश्मीनश्वबंधनार्थान्प्रग्रहान्यमितवा इव । नियंतुमिव । अन्यत्पूर्ववत् ॥ मंथाम् । पथिमथ्यृभुक्षामात् । ७-१-८५ । इति द्वितीयायामपि व्यत्ययेनात्वम् । प्रातिपदिकस्वरेणांतोदात्तत्वे प्राप्ते पथिमथोः सर्वनामस्थाने (पा ६-१-१९९) इत्याद्युदात्तत्वम् । यद्वा । मथ्यतेऽनयेति मंथा । मथि विलोडन इत्यस्माद्धलच्छेति करणे घञ् । ततष्टाप् । ञित्त्वादाद्युदात्तत्वम् । विबध्नते । बंध बंधने । क्र्यादिभ्यः श्ना । अनिदितामिति नलोपे श्नाभ्यस्तयोरात इत्याकारलोपः । प्रत्ययस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । यमितवै । यम उपरमे । तुमर्थे सेसेनिति तवैप्रत्ययः । इडागमश्छांदसः । यद्वा । ण्यंतात्तवैप्रत्ययस्येडागमे सति णिलोपश्छांदसः । अंतश्च तवै युगपत् (पा ६-१-२००) इत्याद्यंतयोरुदात्तत्वं ॥ ४ ॥

1.28.5
यच्चि॒द्धि त्वं गृ॒हेगृ᳚ह॒ उलू᳚खलक यु॒ज्यसे᳚ ।
इ॒ह द्यु॒मत्त᳚मं वद॒ जय᳚तामिव दुन्दु॒भिः ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । त्वम् । गृ॒हे॑गृ᳚हे । उलू᳚खलक । यु॒ज्यसे᳚ ।
इ॒ह । द्यु॒मत्॑त᳚मम् । व॒द॒ । जय᳚ताम्॑इव । दु॒न्दु॒भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उलूखलक यच्चिद्धि यद्यपि त्वममघातार्थं गृहे गृहे युज्यसे तथापीह वैदिके कर्मणि तीव्रमुसलप्रहारेण द्युमत्तममतिशयेन दीप्तं प्रभूतध्वनियुक्तं शब्दं वद । तत्र दृष्टांतः । जयतामिव दुंदुभिः । यथा युद्धे जयं प्राप्नुवतां राज्ञां दुंदुभिर्महांतं ध्वनिं करोति तद्वत् । उलूखलशब्दं यास्क एवं व्याख्यातवान् । उलूखलमुरुकरं वोर्ध्वखं वोर्क्करं वोरु मे कुर्वित्यब्रवीत्तदुलूखलमभवदुरुकरं वै तत्तदुलूखलमित्याचक्षते परोक्षेणेति च ब्राह्मणम् (नि ९-२०) इति ॥ उलूखलक । अपादादाविति पर्युदासादाष्टमिकनिघाताभाव षाष्ठिकमाद्युदात्तत्वम् । युज्यसे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक्स्वरः शिष्यते । न च तिङ्ङतिङ इति निघातः । निपातैर्यद्यदिहंतेति प्रतिषेधात् । द्युमत्तमम् । दीप्यतेर्धीप्त्यर्थस्य संपदादिलक्षणः क्विप् । दिव उत् (पा ६-१-१३१) इत्युत्वम् । यणादेशे ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । ननु दिव उदित्यत्र प्रातिपदिकं गृह्यते न धातुरित्युक्तत्वात् । अक्षद्यूरित्यादाविवात्राप्यूटा भवितव्यम् (पा ६-४-१९) एवं तर्हि दीप्तिमत्स्वर्गवाचकेन दिव् प्रातिपदिकेन दीप्तिर्लक्ष्यत इत्युत्वं भविष्यति ॥ ५ ॥

1.28.6
उ॒त स्म᳚ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
अथो॒ इन्द्रा᳚य॒ पात᳚वे सु॒नु सोम᳚मुलूखल ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । ते॒ । व॒न॒स्प॒ते॒ । वातः᳚ । वि । वा॒ति॒ । अग्र᳚म् । इत् ।
अथो॒ इति᳚ । इन्द्रा᳚य । पात᳚वे । सु॒नु । सोम᳚म् । उ॒लू॒ख॒ल॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे वनस्पते उलूखलरूप वृक्ष तेऽग्रमित्तव पुरत एव वातो वि वाति स्म । त्वरोपेतमुसलप्रहारैर्वायुर्विशेषेण प्रसरति खलु । अथो अनंतरं हे उलूखल इंद्रायेंद्रोपकारार्थं पातवे पातुं सोमं सुनु । सोमाभिषवं कुरु ॥ वनस्पते । पारस्करादित्वात्सुट् । कार्ये कारणशब्दः । पातवे । पा पाने । तुमर्थे सेसेनिति तवेन्प्रत्ययः । ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वम् । सुनु । उतश्च प्रत्ययादसंयोगपूर्वादिति हेर्लुक् । विकरणस्वरेणांतोदात्तत्वम् । पादादित्वादनिघातः । उलूखल । ऊर्ध्वं खमस्येत्युलूखलः । पृषोदरादिः ॥ ६ ॥

1.28.7
आ॒य॒जी वा᳚ज॒सात᳚मा॒ ता ह्यु१॒᳚च्चा वि᳚जर्भृ॒तः ।
हरी᳚ इ॒वान्धां᳚सि॒ बप्स᳚ता ॥
▶ पदपाठः (Word-by-word)
आ॒य॒जी इत्या᳚॑य॒जी । वा॒ज॒॑सात᳚मा । ता । हि । उ॒च्चा । वि॒॑ज॒र्भृ॒तः ।
हरी᳚ इ॒वेति॒ हरी᳚॑इव । अन्धां᳚सि । बप्स᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये उलूखलमुसले आयजी सर्वतो यज्ञ साधने वाजसातमा अतिशयेनान्नप्रदे ता हि ते खलूच्चा प्रौढध्वनिर्यथा भवति तथा विजर्भृतः । विशेषेण पुनःपुनर्विहारं कुरुतः । तत्र दृष्टांतः । अंधांस्यन्नानि चणकादीनि खाद्यानि बप्सता भक्षयंतौ हरी इव इंद्रस्याश्वाविव । अत्र यास्क एवं व्याचख्यौ । आयजी आयष्टव्ये अन्नानां संभक्तृतमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुंजाने (नि ९-३६) इति ॥ आयजी । यजेरौणादिकः करण इप्रत्ययॆः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वाजसातमा । वाजं सनोतीति वाजसाः । षणु दाने । जनसनेत्यादिना विट् प्रत्ययः । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आतिशायनिकस्तमप् । सुपां सुलुगिति पूर्वसवर्णदीर्घः ॥ विजर्भृतः । हृञ् हरणे । अस्माद्यङ् लुक्यभ्यासहलादिशेषोरत् जश्त्वेषु कृतेषु रुग्रिकौ च लुकि (पा ७-४-९१) इति रुगागमः । ततः प्रत्ययलक्षणेन धातुसंज्ञायां लिट द्विवचनं तस् । अदादिवच्चेति वचनाच्छपो लुक् । गुणे प्राप्ते क्ङिति चेति प्रतिषेधः । हृग्रहोर्भश्छंदसीति भत्वम् । प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः । बप्सता । भस भक्षणदीप्त्योः । लटः शतृ । जुहोक्यादिभ्यः श्लुः । घसिभसोर्हलि च (पा ६-४-१००) इत्युपधालोपः । नाभ्यस्ताच्छतुः (पा ७-१-७८) इति नुम्प्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ७ ॥

1.28.8
ता नो᳚ अ॒द्य व᳚नस्पती ऋ॒ष्वावृ॒ष्वेभि᳚ः सो॒तृभि᳚ः ।
इन्द्रा᳚य॒ मधु᳚मत्सुतम् ॥
▶ पदपाठः (Word-by-word)
ता । नः॒ । अ॒द्य । व॒न॒स्प॒ती॒ इति᳚ । ऋ॒ष्वौ । ऋ॒ष्वेभिः᳚ । सो॒तृ॑भिः᳚ ।
इन्द्रा᳚य । मधु᳚॑मत् । सु॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्कर्मणि हे वनस्पती उलूखलमुसलरूपौ तौ युवामृष्वेभिर्दर्शनीयैः सोतृभिरभिषवहेतुभिः सह ऋष्वौ दर्शनीयौ भूत्वेंद्रायेंद्रार्थं मधुमत् माधुर्योपेतं सोमद्रव्यं नोऽस्मदीयं सुतम् । अभिषुणुतं ॥ ता । सुपां सुलुगित्याकारः । नो अद्य । प्रकृत्यांतःपादमिति प्रकृतिभावः । वनस्पती । उभयपदप्रकृतिस्वरे प्राप्त आमंत्रितस्येति सर्वानुदात्तत्वम् । प्लुतप्रगृह्या अचि (पा ६-१-१२५) इति प्रकृतिभावः । सुतम् । षुञ् अभिषवे । बहुलं छंदसीति विकरणस्य लुक् । निघातः ॥ ८ ॥

1.28.9
उच्छि॒ष्टं च॒म्वो᳚र्भर॒ सोमं᳚ प॒वित्र॒ आ सृ᳚ज ।
नि धे᳚हि॒ गोरधि᳚ त्व॒चि ॥
▶ पदपाठः (Word-by-word)
उत् । शि॒ष्टम् । च॒म्वोः᳚ । भ॒र॒ । सोम᳚म् । प॒वित्रे᳚ । आ । सृ॒ज॒ ।
नि । धे॒हि॒ । गोः । अधि᳚ । त्व॒चि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्विशेष हरिश्चंद्रदेवतापक्षे हे हरिश्चंद्रेति वा चम्वोः सोमस्य भक्षत्वसंपादकयोरधिषवणफलकयोः शिष्टमभिषवराहित्येनावशिष्टं सोममुद्भर । शकटस्योपरि हर । सोममभिषुतं सोमं पवित्रे दशापवित्र आ सृज । आनीय प्रक्षिप । प्रक्षेपे सत्यवशिष्टं सोमं गोस्त्वच्यानडुहे चर्मण्यधि नि धेहि । अध्यारोप्य स्थापय ॥ चम्वोः । चमु अदने । चम्यते भक्ष्यतेऽत्रेति चमूः । कृषिच मीत्यादिना (उ १-८२) औणादिक उप्रत्ययः । प्रत्ययस्वरः । सप्तमीद्विवचनस्योदात्तस्वरितयोर्यणः स्वरित इति स्वरितत्वम् । उदात्तयणो हल्पूर्वादिति व्यत्ययेन न भवति । भर । हृग्रहोर्भः । धेहि । ध्वसोरेद्धावभ्यासलोपश्च (पा ६-४-११९) इत्येत्वाभ्यासलोपौ । निघातः । त्वचि । सावेकाच इति विभक्तेरुदात्तत्वं ॥ २६ ॥ ९ ॥