श्रवणम्

1.28.9
उच्छि॒ष्टं च॒म्वो᳚र्भर॒ सोमं᳚ प॒वित्र॒ आ सृ᳚ज ।
नि धे᳚हि॒ गोरधि᳚ त्व॒चि ॥
▶ पदपाठः (Word-by-word)
उत् । शि॒ष्टम् । च॒म्वोः᳚ । भ॒र॒ । सोम᳚म् । प॒वित्रे᳚ । आ । सृ॒ज॒ ।
नि । धे॒हि॒ । गोः । अधि᳚ । त्व॒चि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विग्विशेष हरिश्चंद्रदेवतापक्षे हे हरिश्चंद्रेति वा चम्वोः सोमस्य भक्षत्वसंपादकयोरधिषवणफलकयोः शिष्टमभिषवराहित्येनावशिष्टं सोममुद्भर । शकटस्योपरि हर । सोममभिषुतं सोमं पवित्रे दशापवित्र आ सृज । आनीय प्रक्षिप । प्रक्षेपे सत्यवशिष्टं सोमं गोस्त्वच्यानडुहे चर्मण्यधि नि धेहि । अध्यारोप्य स्थापय ॥ चम्वोः । चमु अदने । चम्यते भक्ष्यतेऽत्रेति चमूः । कृषिच मीत्यादिना (उ १-८२) औणादिक उप्रत्ययः । प्रत्ययस्वरः । सप्तमीद्विवचनस्योदात्तस्वरितयोर्यणः स्वरित इति स्वरितत्वम् । उदात्तयणो हल्पूर्वादिति व्यत्ययेन न भवति । भर । हृग्रहोर्भः । धेहि । ध्वसोरेद्धावभ्यासलोपश्च (पा ६-४-११९) इत्येत्वाभ्यासलोपौ । निघातः । त्वचि । सावेकाच इति विभक्तेरुदात्तत्वं ॥ २६ ॥ ९ ॥