ऋ॒घा॒यमा᳚ण इन्वसि॒ शत्रु॒मन्ति॒ न वि᳚न्दसि ॥
पदपाठः (Word-by-word)
ऋ॒घा॒यमा᳚णः । इ॒न्व॒सि॒ । शत्रु᳚म् । अन्ति᳚ । न । वि॒न्द॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्रो क्लेदयितः सोम त्वंनोवस्यइष्ट्ये वसीयसोधनस्यप्राप्तयेउक्षणाययागायवाइन्द्रंमत्सिमा- दयस्व तदर्थंवृषार्षिताकामानां त्वमिन्द्रं आविश अथतथापीतः सन् ऋघायमाणः शत्रून् हिंसयन् इ- न्वसिव्याप्नोषि अतः अन्तिअन्तिकेशत्रुंनविन्दसिनलभसे यतः शत्रवः त्वत्सामर्थ्येनपलायिताः अतः नविन्दसि यद्वा उत्तरार्धइन्द्रपरतयाव्याख्येयः हेइन्द्र त्वंतं सोमंपीत्वाऋघायमाणःसन् इन्वसि अन्तिकेशत्रुंनविन्दसि ॥ १ ॥