श्रवणम्

1.176.3 समानपद
यस्य॒ विश्वा᳚नि॒ हस्त᳚यो॒ः पञ्च᳚ क्षिती॒नां वसु᳚ ।
स्पा॒शय᳚स्व॒ यो अ᳚स्म॒ध्रुग्दि॒व्येवा॒शनि᳚र्जहि ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । विश्वा᳚नि । हस्त᳚योः । पञ्च᳚ । क्षि॒ती॒नाम् । वसु᳚ ।
स्पा॒शय᳚स्व । यः । अ॒स्म॒॑ध्रुक् । दि॒व्या॑इ᳚व । अ॒शनिः᳚ । ज॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्यहस्तयोः पञ्चक्षितीनां क्षियन्तिनिवसन्तिगच्छन्तिवाक्षितयोमनुष्याः पञ्चानांमनुष्या- णांप्रीणयितॄणिविश्वानिसर्वाणि वसूवसूनि धनानि धृतानिभवन्ति देवामनुष्याःपितरः पशवः पक्षिण श्चेतिपञ्चजनाः चत्वारोवर्णानिषादपञ्चमाःपञ्चजनाइत्यन्ये हेतादृशेन्द्रत्वंस्पाशयस्व बाधयस्व योऽ– स्मध्रुक् अम्सभ्यंद्रुह्यतितं केनप्रकारेणेतिसउच्यते दिव्यादिविभवा अशनिरिव अशनिर्भूत्वास्मद्द्वेष्टृन् जहि ॥ ३ ॥