श्रवणम्

1.176.5
आवो॒ यस्य᳚ द्वि॒बर्ह᳚सो॒॑र्केषु᳚ सानु॒षगस᳚त् ।
आ॒जाविन्द्र᳚स्येन्दो॒ प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
आवः᳚ । यस्य᳚ । द्वि॒॑बर्ह᳚सः । अ॒र्केषु᳚ । सा॒नु॒षक् । अस᳚त् ।
आ॒जौ । इन्द्र᳚स्य । इ॒न्दो॒ इति᳚ । प्र । आ॒वः॒ । वाजे᳚षु । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रो सोम तवयस्यद्विबर्हिसः स्तोत्रहवीरूपद्विविधपरिवृढकर्मवतोयजमानस्य अर्केषु मन्त्रेषु- सानुषक् सानुषङ्गः सातत्यमसद्भवेत् तमावः तंयजमानंरक्षसितर्पयसिवा यद्वा कर्मणिषष्ठीयं द्वयोः स्थानयोः परिवृढंयमिन्द्रं हेइन्द्रो यदाअर्केषुसानुषक् असत् भवेः तदा आवः अरक्षः अतर्पयोवा तस्यैवेन्द्रस्यआजौसङ्ग्रामे हेसोम वाजिनंतथान्नवन्तंतमिन्द्रंवाजेषु बलेषुअन्नेषुवानिमित्तभूतेषुप्रावः प्रकर्षेणारक्षयः पानसमयेतप्रयित्वासङ्ग्रामसमयेबलवर्धनेनजयप्राप्तशत्रुधनतर्पणेनवाअरक्षइत्यर्थः ॥ ५ ॥