श्रवणम्

1.176.6
यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य᳚ इन्द्र॒ मय᳚ इ॒वापो॒ न तृष्य᳚ते ब॒भूथ᳚ ।
तामनु᳚ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । पूर्वे᳚भ्यः । ज॒रि॒तृ॑भ्यः᳚ । इ॒न्द्र॒ । मयः᳚॑इव । आपः᳚ । न । तृष्य᳚ते । ब॒भूथ᳚ ।
ताम् । अनु᳚ । त्वा॒ । नि॒॑विद᳚म् । जो॒ह॒वी॒मि॒ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथापूर्वेभ्यइतिषष्ठीव्याख्याता ॥ ६ ॥

आचर्षणिप्राइतिपञ्चर्चंत्रयोदशंसूक्तं आगस्त्यमैन्द्रंत्रैष्टुभं आचर्षणिप्राःपञ्चेत्यनुक्रमणिका । होत्रकशस्त्रेषुस्तोमवृद्धावस्यविशेषविनियोगः ऎन्द्राणित्रैष्टुभान्यमरुच्छब्दान्यावपेरन्निति सूत्रितत्वात् ।