प्रथमं मण्डलम् - सूक्तम् 74

9 ऋचः

ऋषिः: गोतमो राहूगणः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 1.74 - सम्पूर्णम्

1 / 9
ऋक्: 1.74.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.74.1
उ॒प॒प्र॒यन्तो᳚ अध्व॒रं मन्त्रं᳚ वोचेमा॒ग्नये᳚ ।
आ॒रे अ॒स्मे च᳚ शृण्व॒ते ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑प्र॒यन्तः᳚ । अ॒ध्व॒रम् । मन्त्र᳚म् । वो॒चे॒म॒ । अ॒ग्नये᳚ ।
आ॒रे । अ॒स्मे इति᳚ । च॒ । शृ॒ण्व॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रयोदशानुवाक एकादश सूक्तानि । तत्रोपप्रयंत इति नवर्चं प्रथमम् । सूक्तम् । अत्रानुक्रम्यते । उपप्रयंतो नव गोतमो राहूगणो गायत्रं त्विति अस्यायमर्थः । रहूगणनामा कश्चिदृषिः । तस्य पुत्रो गोतमोऽस्य सूक्तस्य ऋषिः । गायत्रं त्वित्युक्तत्वादिदमुत्तरं च गायत्रीच्छंदस्कम् । परमाग्नेयमैंद्रादिति परिभाषितत्वादग्निर्देवता ॥ प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छंदस्येतदादिके द्वे सूक्ते । सूत्रितं च । आपो रेवतीः क्षयथा हि वस्व उपप्रयंत इति सूक्ते । अ ४-१३ । इति ॥ आश्विनशस्त्रेऽप्येते सूक्ते प्रातरनुवाकन्यायेन । अ ६-५ । इत्यतिदेशात् ॥ पृष्ठ्यषडहस्य प्रथमेऽहन्येतदेव सूक्तमाज्यशस्त्रम् । सूत्रितं च । उपप्रयंत इति शु प्रथमेऽहन्याज्यम् । अ ७-१० । इति ॥

अध्वरं हिंसाप्रत्यवायरहितमग्निष्टोमादियज्ञमुपप्रयंत उप्येत प्रकर्षेण यंतो गच्छंतः । प्राप्त्यविच्छेदेन सम्यगनुतिष्ठंत इत्यर्थः । तादृशावयमग्नयेऽगनादिगुणयुक्ताय देवाय मंत्रं मननसाधनमेतत्सूक्तरूपं स्तोत्रं वोचेम । वक्तारो भूयास्मेत्याशास्यते । कीदृशायाग्नये । आरेऽस्मे च शृण्वते । चशब्दोऽप्यर्थ आरेशब्दात्परो द्रष्टव्यः । आरे च दूरेऽपि स्थित्वास्माकं स्तुतीः शृण्वते । अस्मासु प्रीत्यतिशयेन सर्वत्र प्रवर्तमानोऽग्निरस्मदीयमेव स्तोत्रं शृणोतीति भावः ॥ वोचेम । ब्रुवो वचिः । लिङ्याशिष्यङ् । वच उमित्युमागमः । शृण्वते । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ १ ॥

1.74.2
यः स्नीहि᳚तीषु पू॒र्व्यः सं᳚जग्मा॒नासु᳚ कृ॒ष्टिषु᳚ ।
अर᳚क्षद्दा॒शुषे॒ गय᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । स्नीहि᳚तीषु । पू॒र्व्यः । स॒म्॑ज॒ग्मा॒नासु᳚ । कृ॒ष्टिषु᳚ ।
अर᳚क्षत् । दा॒शुषे᳚ । गय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्व्यश्चिरंतनो योऽग्निः स्नीहितीषु वधकारिणीषु कृष्टिषु शत्रुभूतासु प्रजासु संजग्मानासु संगतासु सतीषु दाशुषे हवींषि दत्तवत्ते यजमानाय गयं धनमरक्षत् । रक्षति । तस्मै मंत्रं वोचेमेति पूर्वेण संबंधः ॥ स्नीहितीषु । ष्णिह स्नेहने । चुरादिः । स्नेहयतीति वधकर्मसु पठितः । स्नेह्यंते हिंस्यंते प्रजा आभिरिति स्नेहितयः । करणे क्तिन् । तितुत्रेष्टग्रहादीनामिति वक्तव्यमिति वचनान्निगृहीतिर्निपठितिरितिवदिडागमः । म ७-२-९-१ । व्यत्ययेनैकारस्येकारादेशः । क्तिनो दीर्घश्च । नित्त्वादाद्युदात्तत्वम् । संजग्मानासु । समो गम्यृच्छीत्यात्मनेपदम् । लिटः कानच् । गमहनेत्यादिनोपधालोपः । अरक्षत् । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ्॥ २ ॥

1.74.3
उ॒त ब्रु᳚वन्तु ज॒न्तव॒ उद॒ग्निर्वृ᳚त्र॒हाज᳚नि ।
ध॒नं॒ज॒यो रणे᳚रणे ॥
▶ पदपाठः (Word-by-word)
उ॒त । ब्रु॒व॒न्तु॒ । ज॒न्तवः᳚ । उत् । अ॒ग्निः । वृ॒त्र॒॑हा । अ॒ज॒नि॒ ।
ध॒न॒म्॑ज॒यः । रणे᳚॑रणे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निमंथने जातायानुब्रूहीत्युक्त उत ब्रुवंत्वित्येषानुवचनीया । प्रातर्वैश्वदेव्यामिति खंडे सूत्रितम् । शिष्वेनोत्तरामुत ब्रुवंतु जंतवः (आ २-१६) इति ॥ तथा साकमेधेषु मरुद्भ्यः क्रीडिभ्यः पुरोडाशमित्यस्यामिष्टावेषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च । मरुद्भ्यः क्रीडिभ्य उत्तरोत ब्रुवंत जंतवः (आ २-१८) इति ॥

अग्रिरुदजनि । अरण्योः सकाशादुत्पन्नः । उतानंतरं जंतवो जाताः सर्व ऋत्विजो ब्रुवंतु । तमग्निं स्तुवंतु । कीदृशोऽग्निः । वृत्रहा वृत्राणामावरकाणां शत्रूणां हंता रणे रणे सर्वेषु संग्रामेषु धनंजयः शत्रुधनानां जेता ॥ धनंजयः । संज्ञायां भृतृवृजीति (पा ३-२-४६) खच् । अरुर्द्विषदजंतस्य (पा ६-३-६७) इति मुम् । चित्स्वरेणांतोदात्तत्वम् । रणे रणे । रण शब्दार्थः । रणंति दुंदुभयोऽस्मिन्निति रणः संग्रामः । वशिरण्योरुपसंख्यानम् । पा ३-३-५८-३ । इत्यप् । नित्यवीप्सयोरिति द्विर्वचनम् । आम्रेडितानुदात्तत्वं ॥ ३ ॥

1.74.4
यस्य᳚ दू॒तो असि॒ क्षये॒ वेषि᳚ ह॒व्यानि᳚ वी॒तये᳚ ।
द॒स्मत्कृ॒णोष्य᳚ध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । दू॒तः । असि᳚ । क्षये᳚ । वेषि᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ।
द॒स्मत् । कृ॒णोषि᳚ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्य यजमानस्य क्षये देवयजनलक्षणे गृहे देवानां दूतस्त्वमसि भवसि । यस्य च हव्यानि चरुपुरोडाशादीनि हवींषि वीतये देवानां भक्षणाय वेषि गमयसि । यस्य चाध्वरं यज्ञं दस्मत् । सर्वैर्दर्शनीयं कृणोषि करोषि । तमित्सुहव्यमित्युत्तरया संबंधः ॥ वेषि । वी गत्यादिषु । अंतर्भावितण्यर्थाल्लट् । अदादित्वाच्छपो लुक् । पादादित्वान्निघाताभावः । दस्मत् । दसि दंसनदर्शनयोः । इषियुधींधीत्यादिना मक् । दस्ममित्यत्र मकारस्य वर्णव्यापत्त्यातकारः । कृणोषि । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्संनियोगेन वकारस्याकारः । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । यस्येत्यनुषंगान्निघाताभावः ॥ ४ ॥

1.74.5
तमित्सु᳚ह॒व्यम᳚ङ्गिरः सुदे॒वं स᳚हसो यहो ।
जना᳚ आहुः सुब॒र्हिष᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । सु॒॑ह॒व्यम् । अ॒ङ्गि॒रः॒ । सु॒॑दे॒वम् । स॒ह॒सः॒ । य॒हो॒ इति᳚ ।
जनाः᳚ । आ॒हुः॒ । सु॒॑ब॒र्हिष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसो यहो बलस्य पुत्र आंगिरोऽंगनादिगुणयुक्ताग्ने यो यजमानः पूर्वमुक्तस्तमित् तमेव यजमानं सुहव्यं शोभनहविष्कं सुदेवं शोभनदैवतं सुबर्हिषम् । बर्हिरिति यज्ञनाम । शोभनयज्ञं च जनाः सर्वे मनुष्य आहुः । कथयंति ॥ सुहव्यमित्यादिषु नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सहसो यहो । सुबामंत्रिक इति परांगवद्भावात्षष्ठ्यामंत्रितसमुदायस्याष्टमिक्रमामंत्रितानुदात्तत्वं ॥ ५ ॥

1.74.6
आ च॒ वहा᳚सि॒ ता{4} इ॒ह दे॒वा{4} उप॒ प्रश᳚स्तये ।
ह॒व्या सु᳚श्चन्द्र वी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
आ । च॒ । वहा᳚सि । तान् । इ॒ह । दे॒वान् । उप᳚ । प्र॑श᳚स्तये ।
ह॒व्या । सु॒॑च॒न्द्र॒ । वी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुश्चंद्र शोभनाह्लादनाग्ने तान्देवानिहास्मिन्कर्मण्युपास्मत्समीपं प्रशस्तये स्तुतय आ वहासि च । आवह प्रापय च । अगतेभ्यस्तेभ्यो हव्या हव्यानि चरुपुरोडाशादीनि हवींषि वीतये भक्षणाय प्रापयेत्यर्थः ॥ वहासि वह प्रापणे । लेट्याडागमः । प्रशस्तये । शन्सु स्तुतौ । भावे क्तिन् । तितुत्रेतीट्प्रतिषेधः । अनिदितामिति नलोपः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । सुश्चंद्र । ह्रस्वाच्चंद्रोत्तरपदे मंत्र इति सुट् ॥ ६ ॥

1.74.7
न योरु᳚प॒ब्दिरश्व्य᳚ः शृ॒ण्वे रथ᳚स्य॒ कच्च॒न ।
यद᳚ग्ने॒ यासि᳚ दू॒त्य᳚म् ॥
▶ पदपाठः (Word-by-word)
न । योः । उ॒प॒ब्दिः । अश्व्यः᳚ । शृ॒ण्वे । रथ᳚स्य । कत् । च॒न ।
यत् । अ॒ग्ने॒ । यासि᳚ । दू॒त्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यद्यदा दूत्यं देवानां दूतत्वं यासि प्राप्नोषि कश्चन कदाचन तदानीं सर्वदापि योर्गच्छतस्तव रथस्याश्वोऽश्वैरुत्पादित उपब्दिः श्रवणार्हः शब्दो नोपलभ्यत इत्यर्थः ॥ योः । या प्रापण इत्यस्मात् यो द्वे च (उ १-२२) इत्यौणादिकः कुप्रत्ययः । बहुलवचनाद्द्विर्भावाभावः उपब्दिरित्येतत् श्रोतुमर्हस्य शब्दस्याख्या । तथा च तैत्तिरीयाणां प्रातिशाख्यं सशब्दमुपब्दिमत् । तै प्रा २३-९ । इति । शृण्वे । श्रु श्रवणे । कर्मणि लट श्रुवः शृ चेति व्यत्ययेन श्नुः शृभावश्च । लोपस्त आत्मनेपदेष्विति तलोपः । हुश्नुवोः सार्वधातुक इति यणादेशः ॥ ७ ॥

1.74.8
त्वोतो᳚ वा॒ज्यह्र᳚यो॒॑भि पूर्व᳚स्मा॒दप᳚रः ।
प्र दा॒श्वा{4} अ᳚ग्ने अस्थात् ॥
▶ पदपाठः (Word-by-word)
त्वा॑ऊ᳚तः । वा॒जी । अह्र᳚यः । अ॒भि । पूर्व᳚स्मात् । अप᳚रः ।
प्र । दा॒श्वान् । अ॒ग्ने॒ । अ॒स्था॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पुरुषः पूर्वस्मात् स्वस्मादधिकारादपरो निकृष्टो भवति हे अग्ने स इदानीं दाश्वान् तुभ्यं हवींषि दाता सन् त्वोतस्त्वयोतो रक्षितो वाज्यन्नवान् अह्रयो लज्जारहितः एवंभूतः सन् अभि प्रास्थात् । ऐश्वर्यमभिप्राप्य प्रतितिष्ठति । सर्वोत्कृष्टो भवतीत्यर्थः ॥ अह्रयः । ह्री लज्जायाम् । जिह्रेतीति ह्रयः । न ह्रयोऽह्रयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दाश्वान् । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपातितः ॥ ८ ॥

1.74.9
उ॒त द्यु॒मत्सु॒वीर्यं᳚ बृ॒हद᳚ग्ने विवाससि ।
दे॒वेभ्यो᳚ देव दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । द्यु॒॑मत् । सु॒॑वीर्य᳚म् । बृ॒हत् । अ॒ग्ने॒ । वि॒वा॒स॒सि॒ ।
दे॒वेभ्यः᳚ । दे॒व॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे देव द्योतामानाग्ने देवेभ्यो दाशुषे चरुपुरोडाशादीनि हवींषि दत्तवते तस्मै यजमानाय बृहत्प्रौढं धनं विवाससि । गमयितुमिच्छसि । प्रापयसीति यावत् । कीदृशम् । द्युमदतिशयेन दीप्तं सुवीर्यं शोभनवीर्योपेतं ॥ सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । विवाससि । वा गतिगंधनयोः । सनि द्विर्भावे सन्यत इतीत्वम् । दाशुषे । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ ९ ॥