यस्य᳚ दू॒तो असि॒ क्षये॒ वेषि᳚ ह॒व्यानि᳚ वी॒तये᳚ ।
द॒स्मत्कृ॒णोष्य᳚ध्व॒रम् ॥
द॒स्मत्कृ॒णोष्य᳚ध्व॒रम् ॥
पदपाठः (Word-by-word)
यस्य᳚ । दू॒तः । असि᳚ । क्षये᳚ । वेषि᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ।
द॒स्मत् । कृ॒णोषि᳚ । अ॒ध्व॒रम् ॥
द॒स्मत् । कृ॒णोषि᳚ । अ॒ध्व॒रम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने यस्य यजमानस्य क्षये देवयजनलक्षणे गृहे देवानां दूतस्त्वमसि भवसि । यस्य च हव्यानि चरुपुरोडाशादीनि हवींषि वीतये देवानां भक्षणाय वेषि गमयसि । यस्य चाध्वरं यज्ञं दस्मत् । सर्वैर्दर्शनीयं कृणोषि करोषि । तमित्सुहव्यमित्युत्तरया संबंधः ॥ वेषि । वी गत्यादिषु । अंतर्भावितण्यर्थाल्लट् । अदादित्वाच्छपो लुक् । पादादित्वान्निघाताभावः । दस्मत् । दसि दंसनदर्शनयोः । इषियुधींधीत्यादिना मक् । दस्ममित्यत्र मकारस्य वर्णव्यापत्त्यातकारः । कृणोषि । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्संनियोगेन वकारस्याकारः । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । यस्येत्यनुषंगान्निघाताभावः ॥ ४ ॥